शेश्छन्दसि बहुलम्

6-1-70 शेः छन्दसि बहुलम्

Sampurna sutra

Up

शेः छन्दसि बहुलम् लोपः

Neelesh Sanskrit Brief

Up

वैदिकप्रयोगेषु कुत्रचित् 'शि' इत्यस्य लोपः कृतः दृश्यते ।

Neelesh English Brief

Up

In वेदाः, 'शि' is seen removed at some places.

Kashika

Up

शि इत्येतस्य बहुलं छन्दसि विषये लोपो भवति। या क्षेत्रा। या वना॑ (शौ॰ सं॰ १४.२.७)। यानि॒ क्षेत्रा॑णि (शौ॰ सं॰ १४.२.७)। यानि वनानि॥

Siddhanta Kaumudi

Up

लोपः स्यात् । या ते गात्राणाम् (ता ता॒ पिण्डा॑नाम्) ॥ या ते गात्राणाम् (या ते॒ गात्रा॑णाम्) । ता ता पिण्डानाम् (ता ता॒ पिण्डा॑नाम्) ।<!एमन्नादि छन्दसि पररूपं वक्तव्यम् !> (वार्तिकम्) ॥ अपां त्वेमन् (अ॒पां त्वे॒मन्) । अपां त्वोद्मन् (अ॒पां त्वो॒द्मन्) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<जश्शसोः शिः>> 7.1.20 इत्यनेन नपुंसकात् परस्य जस्/शस्-प्रत्यययोः शि-आदेशः भवति । अस्य आदेशस्य वेदेषु बहुलम् (इत्युक्ते केषुचन स्थलेषु) लोपः कृतः दृश्यते । यथा - त्वे विश्वा संगतानि व्रता ध्रुवा यानि देवा अकृण्वत (ऋग्वेदे 1.36.5) इत्यत्र विद्यमानेषु विश्वा, व्रता, ध्रुवा एतेषु त्रिषु शब्देषु शि-प्रत्ययस्य लोपः कृतः अस्ति । अत्र प्रक्रिया एतादृशी वर्तते — विश्व+ शस् [द्वितीयाबहुवचनस्य प्रत्ययः] → विश्व + शि [<<जश्शसोः शिः>> 7.1.20 इति शि-आदेशः] → विश्व + न् + इ [<<नपुंसकस्य झलचः>> 7.1.72 इति नुमागमः] → विश्वा न् इ [<<सर्वनामस्थाने चासम्बुद्धौ>> 6.4.8 इति उपधादीर्घः] → विश्वान् [ <<शेश्छन्दसि बहुलम्>> 6.1.70 इति शि-प्रत्ययस्य लोपः] → विश्वा [<<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इति नकारलोपः]
एवमेव व्रता, ध्रुवा — एतौ शब्दौ सिद्ध्यतः ।अनेनैव प्रकारेण तानि इत्यस्य स्थाने ता, यानि इत्यस्य स्थाने या एतौ प्रयोगौ अपि दृश्येते ।
प्रकृतसूत्रेण उक्तः लोपः केवलम् केषुचन स्थलेषु एव दृश्यते, सर्वत्र न; अतएव अस्मिन् सूत्रे बहुलम् इति शब्दः स्वीकृतः वर्तते । वार्त्तिकम् — <!एमन्नादि छन्दसि पररूपं वक्तव्यम्!> काशिकायां भाष्ये च <<एङि पररूपम्>> 6.1.94 इत्यत्र पाठितम् इदं वार्त्तिकम् कौमुदीकारेण तु प्रकृतसूत्रस्य व्याख्याने स्थापितम् अस्ति । एमन् , ओद्वन्, इष्टि एतेषु शब्देषु परेषु पररूपैकादेशः भवति — इति अस्य वार्त्तिकस्य अर्थः । यथा — 1. त्वा + एमन् = त्वेमन् । 2. त्वा + ओद्वन् = त्वोद्वन् । 3. अभि + इष्टि = अभिष्टि । 4. परि + इष्टि = परिष्टि ।

Balamanorama

Up

<<संहितायाम्>> - संहितायाम् । इत्यधिकृत्येति ।छे चेत्यादि विधीयते॑ इति शेषः । यद्यप्येतदिको यणचीत्यत्रैव वक्तव्यन्तथापि सूत्रक्रमानुरोधादिहोक्तम् ।

Padamanjari

Up

या क्षेत्रेति। शेर्लोपे कृते प्रत्ययलक्षणेन'नपुंसकस्य झलचः' इति नुम्,'सर्वनामस्थाने च' इति दीर्घः, नलोपः। अयं योगः सक्योऽवक्तुम्, कथम्? डादेशेन सिद्धत्वात्। कथमग्नेत्रीति? त्रिऐ इति स्थिते प्रथमयोः पूर्वसवर्णदीर्घत्वेनैव सिद्धम्। न सिद्ध्यति, नुमा व्यवहितत्वात्? च्छन्दसि नपुंसकस्य पुंवद्भावो पक्तव्यः, मधोर्गृह्णातीत्येवमाद्यर्थं पुंवद्भावेनैव नुमो निवृत्तिः। एवमपि'जसि च' इति गुणः प्राप्नोति, वक्ष्यत्येतत् -ठुसादिषु च्छन्दसि वावचनं प्राङ् णौ चङ्युपधायाःऽ इति। अपि च या क्षेत्रा, ता ता पिण्डानामिति ताइ इति स्थिते'सुपां सुलुक्' इतीकारस्याकारे कृते'प्रथमयोः पूर्वसवर्णः' इति दीर्घत्वेन सिद्धम् ॥