3-2-61 सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजां उपसर्गेटपि क्विप् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि
index: 3.2.61 sutra: सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्
सुपि इत्यनुवर्तते। कर्मग्रहणं तु स्पृशोऽनुदके क्विन् 3.2.58 इत्यतः प्रभृति न व्याप्रियते। सदादिभ्यः धातुभ्यः सुबन्ते उपपदे उपसर्गेऽपि अनुपसर्गेऽपि क्विप् प्रत्ययो भवति। उपसर्गग्रहणम् ज्ञापनार्थम्, अन्यत्र सुब्ग्रहणे उपसर्गग्रहणं न भवतीति, वदः सुपि क्यप् च 3.1.106 इति। सू इति द्विषा साहचर्यात् सूतेः आदादिकस्य ग्रहणं, न सुवतेः तौदादिकस्य। युजिर्योगे, युज समाधौ, द्वयोरपि ग्रहणम्। विद ज्ञाने, विद सत्तायाम्, विद विचारणे, त्रयाणामपि ग्रहणम्। न लाभार्थस्य विदेः, अकारस्य विवक्षतत्वात्। सद् शुचिषत्। अन्तरिक्षसत्। उपसत्। सू अण्डसूः। शतसूः। प्रसूः। द्विष मित्रद्विट्। प्रद्विट्। द्रुह मित्रध्रुक्। प्रध्रुक्। दुह गोधुक्। प्रधुक्। युज अश्वयुक्। प्रयुक्। विद वेदवित्। प्रवित्। ब्रह्मवित्। भिद काष्ठभित्। प्रभित्। छिद रज्जुच्छिद्। प्रच्छिद्। जि शत्रुजित्। प्रजित्। नी सेनानीः। प्रणीः। ग्रामणीः। अग्रणीः। कथमत्र णत्वम्? स एषां ग्रामणीः 5.2.78 इति निपातनात्, नयतेः पूर्वपदात् संज्ञायामगः 8.4.3 इति णत्वम्। राज राट्। विराट्। सम्राट्। मो राजि समः क्वौ 8.2.35 इति मत्वम्। अन्येभ्योऽपि दृश्यते 3.2.178, क्विप् च 3.2.76 इति सामान्येन वक्ष्यति, तस्य एव अयं प्रपञ्चः।
index: 3.2.61 sutra: सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्
एभ्यः क्विप्स्यादुपरसर्गे सत्यसति च सुप्युपपदे । द्युसत् । उपनिषत् । अण्डसूः । प्रसूः । मित्रद्विट् । प्रद्विट् । मित्रध्रुक् । प्रध्रुक् । गोधुक् । प्रधुक् । अश्वयुक् । प्रयुक् । वेदवित् । निविदित्यादि ।<!अग्रग्रामाभ्यां नयतेर्णो वाच्यः !> (वार्तिकम्) ॥ अग्रणीः । ग्रामणीः ॥
index: 3.2.61 sutra: सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्
सत्सूद्विषद्रुहदुहयुजविदभिदच्छिद-जिनीराजामुपसर्गेऽपि क्विप् - सत्सूद्विष । सद्, सू, द्विष,द्रुह, दुह, युज, विद, भिद, छिद, जि , नी, राज् एषां द्वन्द्वात्पञ्चम्यर्थे षष्ठी । 'अनुपसर्गे' इत्यस्य निवृत्त्यैव सिद्धेउपसर्गेऽपी॑ति वचनमन्यत्र सुब्ग्रहणे उपसर्गग्रहणं नेति ज्ञापनार्थम् । तेन 'वदः सुपि क्यप् चे' ति विधिरुपसर्गे न भवतीति भाष्ये स्पष्टम् । द्युसदिति । दिवि सीदतीति विग्रहः ।सात्पदाद्यो॑रिति न षत्वम् ।पूर्वपदा॑दिति षत्वं तु न भवति, तस्य च्छान्दसत्वात् ।॒आदितेया दिविषदः॑ इत्यत्र सुषामादित्वात्वमित्याहुः । उपनिषदिति ।सदिरप्रते॑रिति षत्वम् । इत्यादीति । काष्ठभित्, रज्जुच्छित् । शत्रुजित् । अत्रह्रस्वस्य पिती॑ति तुक् । सेनानीः । विराट् । अंशभागीति । णित्त्वादुपधावृद्धिः ।
index: 3.2.61 sutra: सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्
सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्॥ अतः प्रभृतीति। भाष्यकारप्रयोगात्प्रभृतिशब्दयोगे पञ्चमी। वदः सुपि क्यप् चेति। प्रयोजनदिगियं दर्शिता। अत्र ह्यनुपसर्ग इति वर्तते, तस्मात्'स्पृशो' नुदके क्विन्ऽ इत्यादौ प्रयोजनं द्रष्टव्यम्। सुवतेरिति। न्यायस्य तुल्यत्वाद्दैवादिकस्याप्यग्रहणम्। शुचिषदिति। छान्दसोऽयं प्रयोगः - -हंसः शुचिषदिति।'पूर्वपदात्' इति षन्वम्। शुचिसदिति पाठे लौकिकः प्रयोगः। कथमत्र णत्वमिति। ग्रामणीविषयः प्रश्नः। प्रणीरित्यत्र तु ठुपसर्गादसमासेऽपिऽ इति णत्वमस्त्येव। ज्ञापकादिति। पूर्वपदस्थान्निमितादुतरस्य नयतिनकारस्यासञ्ज्ञायामपि णत्वं भवतीति सामान्येन ज्ञापकमित्यर्थः। तेनाग्रणीरित्यत्रापि भवति। कर्मण्यणि तु न भवति, नीरूपविषयत्वाज् ज्ञापनस्य । अन्ये तु ठग्रग्रामाभ्यां नयतेरिति वक्तव्यम्ऽ इति वचनाज्ज्ञापनमपि तद्विषयम्, तत्रापि नीरूपविषयमिति स्थिताः॥