2-2-18 कुगतिप्रादयः आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः नित्यं
नित्यमिति वर्तते। कुशब्दोऽव्ययं परिगृह्यते, गत्यादिभिः साहचर्यात्, न द्रव्यवचनः। कुगतिप्रादयः समर्थेन शब्दान्तरेण सह नित्यं समस्यन्ते, तत्पुरुषश्च समासो भवति। कुः पापार्थे — कुपुरुषः। गति — उररीकृतम्। प्रादयः — दुर्निन्दायाम् — दुष्पुरुषः। स्वती पूजायाम् — सुपुरुषः। अतिपुरुषः। आङीषदर्थे — आपिङ्गलः। प्रायिकं चैतदुपाधिवचनम्। अन्यत्रापि हि समासो दृश्यते। कोष्णम्। कदुष्णम्। कवोष्णम्। दुष्कृतम्। सुष्टुतम्। अतिस्तुतम्। आबद्धमिति॥ प्रादयो गताद्यर्थे प्रथमया॥ प्रगत आचार्यः, प्राचार्यः। प्रान्तेवासी॥ अत्यादयः क्रान्ताद्यर्थे द्वितीयया॥ अतिक्रान्तः खट्वाम्, अतिखट्वः। अतिमालः॥ अवादयः क्रुष्टाद्यर्थे तृतीयया॥ अवक्रुष्टः कोकिलया, अवकोकिलः॥ पर्यादयो ग्लानाद्यर्थे चतुर्थ्या॥ परिग्लानोऽध्ययनाय, पर्यध्ययनः। अलं कुमार्यै, अलंकुमारिः॥ निरादयः क्रान्ताद्यर्थे पञ्चम्या॥ निष्क्रान्तः कौशाम्ब्याः, निष्कौशाम्बिः। निर्वाराणसिः॥ इवेन सह समासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्॥ वास॑सीइव। वस्त्रे॑इव॥ प्रादिप्रसङ्गे कर्मप्रवचनीयानां प्रतिषेधो वक्तव्यः॥ वृक्षं प्रति विद्योतते विद्युत्। साधुर्देवदत्तो मातरं प्रति॥
एते समर्थेन नित्यं समस्यन्ते । कुत्सितः पुरुषः कुपुरुषः । गतिश्च <{SK23}> इत्यनुवर्तमाने ॥
एते समर्थेन नित्यं समस्यन्ते। कुत्सितः पुरुषः कुपुरुषः॥
<<कुगतिप्रादयः>> - कुगतिप्रादयः । समस्यन्त इति । स तत्पुरुष इत्यपिज्ञेयम् । कुत्सितः पुरुष इति । नित्यसमासत्वादस्वपदविग्रहः । कुत्सितार्थकस्य 'कु' इत्यव्ययस्यैवात्र ग्रहणं, न तु पृथ्वी पर्यायस्य, गत्वादिसाहचर्यात् । गतिश्चेत्यनुवर्तमान इति । क्रियायोग इति चेति बोध्यम् ।
कुगतिप्रादयः॥ कुशब्दोऽव्ययं गृह्यत इति। स्वरादिष्वपठितोऽप्ययं पठितव्य इति भावः। नित्यसमासविषयस्यास्य पूर्वपदप्रकृतिस्वराणामव्ययत्वम्, यथा वक्ष्यति - अव्यये नञ्कुनिपातानामिति वक्तव्यमिति। न द्रव्यवचन इति। पृथिव्यादिद्रव्ये यो वर्तते स न गृह्यत इत्यर्थः। दुर्निन्दायामिति। प्रशप्ते द्वेषान्निन्दा भवति, पापं तु वस्तुस्थित्या गर्हितमिति द्वयोरप्युपादानम्। प्रायिकमिति। अन्यथेषदर्थे चेति कोः कादेशविधानमनुपपन्नं स्यात्। दुष्कृतमिति। दुर्निन्दायामिति विषयनिर्देशो गतित्वेन प्राप्तस्यापि समासस्य नियामकः स्यादिति मन्यते। यदा तु प्रादिग्रहणप्राप्तस्यैव नियामकस्तदा गतित्वादेवात्र सिद्धः समासः। दुरत्र कृच्छ्रार्थोऽनभिधानात्कृतेः खल् न भवति, दुष्कर इत्यादावुपपदसमासः, आमन्द्रैरिन्द्र हरिभिरित्याङे मन्द्रं प्रत्यगतित्वादनीषदर्थत्वाच्च समासाभाव इत्यैकस्वर्थं न भवति। सुष्टुअतमिति। सुशब्दोऽतिशये, न पूजायाम्। अत एवोपसर्गनिबन्धनं षत्वम्। अतिस्तुतमिति। ठतिरतिक्रमणे चऽ इति कर्मप्रवचनीयत्वात्षत्वाभावः॥ प्रादयो गताद्यर्थ इति। वृत्तिविषये गताद्यर्थवृतयः प्रादयो गतित्वाभावेऽपि प्रादिग्रहणेन समस्यन्त इति। पर्यध्ययन इति। परिश्रान्तोऽध्ययनार्थमित्यर्थः। वाससी इवेति।'वसेर्णिच्च' इत्यसुन्प्रत्ययान्तो वासः शब्दः, वस्त्रशब्दः ष्ट्रन्प्रत्ययान्तः, द्वावपि नित्याद्यौदातौ। प्रादिप्रसङ्ग इति। सूत्रे प्रादिग्रहणमगत्यर्थमिति कर्मप्रवचनीयानां प्रतिषेध उच्यते, प्रत्यादिविषयश्चायं निषेधः। स्वत्योस्तु समासो भवत्येव। वृक्षं प्रतीति। कर्मप्रवचनीयेन योगाद् द्वितीयावत्समासस्यापि प्रसङ्गः, उदातवता सिङ गतेः समासवचनम् - यो जात एव पर्यभूषत्, यः शम्बरमन्वविन्दत्, योऽन्तरिक्षं विममे, यौ वै प्रजवं याताम्, अपथेन प्रतिपद्यते॥