ह्रस्वो नपुंसके प्रातिपदिकस्य

1-2-47 ह्रस्वः नपुंसके प्रातिपदिकस्य

Sampurna sutra

Up

नपुंसके प्रातिपदिकस्य ह्रस्वः

Neelesh Sanskrit Brief

Up

अजन्तस्य नपुंसकस्य प्रातिपदिकस्य ह्रस्वः भवति ।

Neelesh English Brief

Up

The last letter of an अजन्त प्रातिपदिक is becomes हस्व in context of नपुंसकलिङ्ग.

Kashika

Up

नपुंसकलिङ्गेऽर्थे यत् प्रातिपदिकं वर्तते, तस्य ह्रस्वो भवत्यादेशोऽलोऽन्त्यस्याचः। अतिरि कुलम्। अतिनु कुलम्। नपुंसक इति किम्? ग्रामणीः। सेनानीः। प्रातिपदिकस्येति किम्? काण्डे तिष्ठतः। कुड्ये तिष्ठतः। प्रातिपदिकग्रहणसामर्थ्यादेकादेशः पूर्वस्यान्तवद् न भवति॥

Siddhanta Kaumudi

Up

क्लीबे प्रातिपदिकस्याऽजन्तस्य ह्रस्वः स्यात् । श्रीपम् । ज्ञानवत् । श्रीपाय । अत्र संनिपातपरिभाषया आतो धातोः <{SK240}> इत्याकारलोपो न ॥

Laghu Siddhanta Kaumudi

Up

अजन्तस्येत्येव । श्रीपं ज्ञानवत् ॥ द्वे २ । त्रीणि २ ।

Neelesh Sanskrit Detailed

Up

यदि कस्यचन प्रातिपदिकस्य अन्ते दीर्घः स्वरः अस्ति, तर्हि नपुंसकलिङ्गस्य विवक्षायाम्तस्य ह्रस्वादेशः भवति । <<अचश्च>> 1.2.28 इत्यनेन अच्-वर्णस्य ह्रस्वादेशः भवति । <<अलोऽन्त्यस्य>> 1.1.52 इत्यनेन अन्तिम-वर्णस्य अयं ह्रस्वादेशः विधीयते । यथा - 1. 'श्रीम् पाति तत्' अस्मिन् अर्थे 'श्रीपा' शब्दस्य नपुंसकलिङ्गस्य विवक्षायामाकारस्य ह्रस्वादेशे अकारः जायते, अतः 'श्रीप' इति प्रातिपदिकं सिद्ध्यति । ततः अस्य शब्दस्य रूपाणि 'फल' शब्दवत् भवन्ति । यथा - श्रीपम्, श्रीपे श्रीपाणि । 2. 'अतिरै' (इत्युक्ते अत्यन्तम् यस्य मूल्यमस्ति सः) इदं विशेषणम् नपुंसकलिङ्गशब्दस्य विषये यदि प्रयुज्यते, तर्हि नपुंसकलिङ्गस्य विवक्षायामस्य शब्दस्य <<ह्रस्वो नपुंसके प्रातिपदिकस्य>> 1.2.47 इत्यनेन ह्रस्वादेशः भवति । <<एचः इग्घ्रस्वादेशे>> 1.1.48 इत्यनेन एच्-प्रत्याहारस्य वर्णस्य ह्रस्वादेशे अन्तरतमः इक्-प्रत्याहारस्य वर्णः जायते । अतः अत्र ऐकारस्य स्थाने तादृशः तालव्यः इकारः आदेशरूपेण आगच्छति, अतः 'अतिरि' इति प्रातिपदिकम् सिद्ध्यति । अस्य रूपाणि 'वारि' शब्दवत् भवन्ति । यथा - अतिरि रत्नम्, अतिरीणि रत्नानि । 3. अतिनौ (इत्युक्ते, यस्मात् नौका निर्गता, सः) इदं विशेषणम् नपुंसकलिङ्गे प्रयुज्यते चेत् <<ह्रस्वो नपुंसके प्रातिपदिकस्य>> 1.2.47 इत्यनेन अस्य ह्रस्वादेशः भवति । <<एचः इग्घ्रस्वादेशे>> 1.1.48 इत्यनेन एच्-प्रत्याहारस्य वर्णस्य ह्रस्वादेशे अन्तरतमः इक्-प्रत्याहारस्य वर्णः जायते । अतः अत्र औकारस्य स्थाने तादृशः औष्ठ्यः उकारः आदेशरूपेण आगच्छति, अतः 'अतिनु' इति प्रातिपदिकम् सिद्ध्यति । अस्य रूपाणि मधु-शब्दवत् भवन्ति । यथा, अतिनु तटम् , अतिनूनि तटानि । ज्ञातव्यम् - हलन्त-नपुंसकलिङ्गशब्दानां विषये अस्य सूत्रस्य प्रसक्तिः नास्ति, यतः तेषामन्ते अच्-वर्णः एव नास्ति । यथा - जगत्, हृद्, नामन्, स्वनडुह् - आदयः ।

Balamanorama

Up

<<ह्रस्वो नपुंसके प्रातिपदिकस्य>> - अथ आदन्ताः । श्रियं पातीति श्रीपाशब्दो विआपाशब्दवद्विजन्तः क्विबन्तो वा । तस्य न पुंसकत्वे ह्रस्वविधानमाह — ह्रस्वो नपुंसके । ह्रस्वश्रुत्योपस्तितेनाऽच इत्यनेन प्रातिपदिकस्य विशेषणात्तदन्तविधिरित्याह — क्लीब इत्यादिना । नच कुले इति द्विवचने एकादेशस्य पूर्वान्तत्वेन ग्रहणादजन्तप्रातिपदिकत्वाद्ध्रस्वः स्यादिति वाच्यम्, अर्थवदधातुरित्यतः प्रातिपदिकग्रहणानुवृत्तौ पुनः प्रातिपदिकग्रहणेनाऽन्तवद्भावतः प्रातिपदिकत्वे ह्रस्वाऽभावबोधनात् । ज्ञानवदिति । ह्रस्वविधानाद्दीर्घान्तत्वप्रयुक्तो न कश्चिद्विशेष इति भावः ।जश्शसोः शिः॑ । श्रीपाणीति रूपम् । भिन्नपदस्थत्वेऽपि 'एकाजुत्तरपदे णः' इति णत्वप्रवृत्तेः । श्रीपेण । इनादेशे गुणे तस्य पूर्वान्तत्वादुत्तरपदस्य एकाच्त्वात्स्यादेव णत्वम् । श्रीपायेति । श्रीपाशब्दस्य 'ह्रस्वो नपुंसके' इति ह्रस्वत्वे ङेर्यादेशेसुपि चे॑ति दीर्घे रूपम् । संनिपातपरिभाषा तु कष्टायेति निर्देशान्न प्रवर्तत इति प्रागुक्तम् । नन्वत्र ह्रस्वत्वे कृतेऽपिपे॑त्यस्य एकदेशविकृतन्यायेन धातुत्वानपायाद्दीर्घे कृते आकारान्तत्वाच्च 'आतो धातोः' इत्याल्लोपः स्यात्, यादेशस्य स्वतो यकारादितया स्थानिवत्त्वेन स्वादिप्रत्ययतया च तस्मिन् परे भत्वस्यापि सत्त्वादित्यत आह-अत्र संनिपातेति । ननूपजीव्यविघातकं प्रति उपजीवकं निमित्तं न भवतीति संनिपातपरिभाषया लभ्यते । प्रकृतेच अदन्तमुपजीव्य प्रवृत्तस्य यादेशस्य आल्लोपं प्रति कथं न निमित्तत्वम् । यादेशस्य आकारमुपजीव्य प्रवृत्तत्वाऽभावेन आकारलोपं प्रति निमित्तत्वे बाधकाऽभावादिति चेत्, मैवम्-यादेशस्तावद्ध्रस्वमवर्णमुपजीव्य प्रवर्तते, तद्विधावत इत्यनुवृत्तेः । ततश्च ह्रस्वत्वमवर्णत्वं च समुदितं यादेशस्योपजीव्यम् । तत्र कष्टायेति निर्देशात्संनिपातपरिभाषां बाधित्वा कृते ।ञपि दीर्घे ह्रस्वत्वांश एव निवृत्तः । अवर्णत्वांशस्त्वनुवृत्त एव । तस्याप्याल्लोपेन निवृत्तौ उपजीव्यविघातः स्यादेवेति भवेदेव संनिपातपरिभाषाविरोधः । अतो न भवत्याल्लोप इति कौस्तुभे समाहितम् 'इको गुणवृद्धी' इत्यत्र । वस्तुतस्त्वातो धातोरित्यत्र लक्षणप्रतिपदोक्त परिभाषया प्रतिपदोक्त एवाकारान्तदातुर्गृह्रते । इह तु पाधातोह्र्यस्वत्वे तु पुनर्दीर्घे सति अवगम्यमानं पास्वरूपं लाक्षणिकमेवेति न तस्यात्र ग्रहणमित्यास्तां तावत् । इत्यादन्ताः ।

Padamanjari

Up

सूत्रे नपुंसकशब्देन तद्वद्द्रव्यं विवक्षितं न लिङ्गमात्रमित्याह-नपुंसकलिङ्गेऽर्थे इति । नपुंसकं लिङ्गमस्येति बहुव्रीहिः । ग्रामणीरिति । ऽसत्सूदिषऽ इत्यादिना क्विप् । प्रातिपदिकस्येति किमिति । नपुंसकलिङ्गं द्रव्यस्यैव धर्मः, द्रव्यवाचित्वं च प्रातिपदिकस्यैव, न सुबन्तस्य; शक्तिसङ्ख्याप्राधान्यात् । न धातोस्तिडन्तस्य वाक्यस्य वा; क्रियाप्रधानत्वात् । वर्णास्त्वनर्थकाः, स्त्रीप्रत्ययानां तु विरुद्धेन नपुंसकेनायोग इति प्रश्नः । काण्डे कुण्ड।ले इति । अत्र ऽअप्रत्ययःऽ इति निषेधात् प्रतिपदिकत्वं नास्ति । ननु च एकादेशः पूर्वं प्रत्यन्तवद्भावात् प्रातिपदिकग्रहणेन गृह्यते इति क्रियमाणेऽपि प्रातिपदिकग्रहणे ह्रस्वत्वं स्यादेवात् आह-प्रातिपदिकग्रहणसामर्थ्यादिति । कथं पुन सामर्थ्यम्, यावता यत्रान्तवद्भावो नास्ति-वाः वारी त्रपुणी इत्यादौ, तद्व्यावर्त्यं स्यात् ? अथ शक्तिसङ्ख्याप्रधानत्वात् तत्र नपुंसकेनायोगः, काण्डे इत्यादावपि एवमपे न भविष्यति । न ह्यन्तवद्भावेन प्रातिपदिकत्वे सत्यपि शक्तिसङ्ख्याप्राधान्यं हीयते । एवं मन्यते-ऽअसति प्रातिपदिकग्रहणे नपुंसकवृतेरनपुंसकवृतेश्च य एकादेशः स नपुंसकवृत्तिग्रहणेन गृह्यते नपुंसक इति स्यात्प्रसङ्गः । प्रातिपदिकग्रहणे तु मुख्यप्रातिपदिकग्रहणार्थत्वाद् अतिदिष्टप्रातिपदिकत्वस्य ह्रस्वस्याभावःऽ इति । उतार्थं च प्रातिपदिकग्रहणम् । इह वनाय, वनाभ्याम्, वनार्थम्, वनेभ्य इति ह्रस्वो न भवति, बहिरङ्गयोर्दीर्घत्वयोरसिद्धत्वात् । काण्डीभूतमित्यत्र पूर्वं नपुंसकत्वेऽपि च्व्यन्तदशायामव्ययत्वेनालिङ्गत्वाद् ह्रस्वाभावः ॥