सुयजोर्ङ्वनिप्

3-2-103 सुयजोः ङ्वनिप् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते

Kashika

Up

index: 3.2.103 sutra: सुयजोर्ङ्वनिप्


सुनोतेर्यजतेश्च ङ्वनिप् प्रत्ययो भवति। सुत्वा। यज्वा।

Siddhanta Kaumudi

Up

index: 3.2.103 sutra: सुयजोर्ङ्वनिप्


सुनोतेर्यजेश्चङ्वनिप्स्याद्भूते । सुत्वा । सुत्वानौ । यज्वा । यज्वानौ ॥

Balamanorama

Up

index: 3.2.103 sutra: सुयजोर्ङ्वनिप्


सुयजोर्ङ्वनिप् - सुयजोर्ङ्वनिप् । पञ्चम्यर्थे षष्ठी । सुनोतेर्यजेश्च ङ्वनिबित्यर्थः । भूते इति । अस्य भूताधिकारस्थत्वादिति भावः । सुत्वा सुत्वानाविति । ङ्वनिपि ङपावितौ , इकार उच्चारणार्थः । ङित्त्वान्न गुणः ।

Padamanjari

Up

index: 3.2.103 sutra: सुयजोर्ङ्वनिप्


सुयजोङ्र्वनिप्॥ सुनोतेरिति।'सु स्त्रु गतौ' 'सु प्रसवैश्वर्ययोः' - इत्यनयोरेव निरनुबन्धकयोर्ग्रहणं प्राप्तम्; अनभिधानादुभयपदिना साहचर्याद्वा न भवति। ङ्कारः सुनोतेर्गुणप्रतिषेधार्थः, इकार उच्चारणार्थः, पकारः स्वरार्थस्तुगर्थश्च॥