3-3-57 ऋदोः अप् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्
index: 3.3.57 sutra: ॠदोरप्
ॠकारान्तेभ्यः उवर्णान्तेभ्यः च अप् प्रत्ययो भवति। घञोऽपवादः। पित्करणं स्वरार्थम्। करः गरः। शरः। उवर्णान्तेभ्यः यवः। लवः। पवः। दकारो मुखसुखार्थः। मा भूत्तादपि परः तपरः।
index: 3.3.57 sutra: ॠदोरप्
ऋवर्णान्तादुवर्णान्तादप् । करः । गरः । शरः । यवः । लवः । स्तवः । पवः ॥
index: 3.3.57 sutra: ॠदोरप्
ॠवर्णान्तादुवर्णान्ताच्चाप्। करः। गरः। यवः। लवः। स्तवः। पवः। घञर्थे कविधानम्। प्रस्थः। विघ्नः॥
index: 3.3.57 sutra: ॠदोरप्
लव इति । न च तादपि परस्तपर इति उकारस्य तपरत्वान्नात्रापा भवितव्यम् ? तत्राह - दकारो मुखसुखार्थ इति । नायं तकारः, किं तर्हि ? दकारः । एतच्च'निरभ्योः पूल्वोः' इत्याद्यारम्भाद्विज्ञायते । मुखशब्देन ताल्वादिश्थानमुच्यते, तस्य सुखमनायासः । अचोर्हि हल्व्यवहितयोरुच्चारणे मुखस्य लाघवं भवति । असन्देहः, यस्यानुषङ्गिकं प्रयोजनम् ॥