6-1-84 एकः पूर्वपरयोः संहितायाम् अचि
index: 6.1.84 sutra: एकः पूर्वपरयोः
एकः पूर्वपरयोः
index: 6.1.84 sutra: एकः पूर्वपरयोः
इतः आरभ्य ऋतः उत् 6.1.111 इति यावत् यः कोऽपि आदेशः उच्यते सः पूर्वपरयोः उभयोः स्थाने एकादेशः भवति ।
index: 6.1.84 sutra: एकः पूर्वपरयोः
This is an अधिकार that runs till ऋतः उत् 6.1.111. Any आदेश told in this अधिकार should be understood as combined आदेश done on the participating entities.
index: 6.1.84 sutra: एकः पूर्वपरयोः
अधिकारोऽयम्। ख्यत्यात् परस्य 6.1.112 इति प्रागेतस्मात् सूत्रातिति उत्तरं यद् वक्ष्यामस् तत्र पूर्वस्य परस्य द्वयोरपि स्थाने एकादेशो भवति इत्येतद् वेदितव्यम्। वक्ष्यति आद् गुणः 6.1.87 इति। तत्र अचि पूर्वस्य अवर्णात् च परस्य स्थाने एको गुणो भवति। खट्वेन्द्रः मालेन्द्रः। पूर्वपरग्रहणं द्वयोरपि युगपदादेशप्रतिपत्त्यर्थम्, एकस्य एव हि स्यात्, नोभे सप्तमीपञ्चम्यौ युगपत् प्रकल्पिके भवतः इति। एकग्रहणम् पृथगादेशनिवृत्त्यर्थं, स्थानिभेदाद् धि भिन्नादिषु नत्ववद् द्वावादेशौ स्याताम्।
index: 6.1.84 sutra: एकः पूर्वपरयोः
इत्यधिकृत्य ।
index: 6.1.84 sutra: एकः पूर्वपरयोः
इदम् अधिकारसूत्रम् । अस्य सूत्रस्य अधिकारः ऋतः उत् 6.1.111 इति सूत्रम् यावत् प्रचलति । अस्मिन् अधिकारे उक्ताः आदेशाः पूर्वपरयोः स्थाने एकत्ररूपेण (इत्युक्ते, एकादेशरूपेण) भवन्ति इति अनेन अधिकारेण उच्यते । पूर्ववर्णस्य तथा परवर्णस्य उभयोः स्थाने मिलित्वा एकः एव आदेशः विधीयते (Two entities get replaced by one entity) इति अस्य अर्थः । यथा, अस्मिन् अधिकारे पाठितेन आद्गुणः 6.1.87 इति सूत्रेण अकार-इकारस्यः स्थाने एकत्ररूपेण एकारादेशः भवति ।
अयम् अधिकारः संहितायाम् 6.1.72 इत्यस्मिन् अधिकारे एव वर्तते, अतः अस्मिन् अधिकारे उक्तानि सर्वाणि अपि कार्याणि संहितायाः विषये एव भवन्ति ।
index: 6.1.84 sutra: एकः पूर्वपरयोः
एकः पूर्वपरयोः - तर्हि कुतोऽत्र यणावलादेशौ न भवत इत्यत आह — न पदान्तेति सूत्रेण पदान्तविधौ तन्निषेधादिति । पदान्तभूतेकारौकारयोः स्थाने भवतोर्यणावादेशयोः पदचरमावयवतया तयो कर्तव्ययोः परनिमित्तकस्याऽजादेशस्या.ञल्लोपस्य स्थानिवत्त्वनिषेधादित्यर्थः । अथ एकादेशसन्धिं निरूपयितुमाह — एकः पूर्वपरयोः इत्यधिकृत्येति । पदद्वयात्मकमिदं सूत्रमुत्तरत्रानुवृत्त्यर्थं पठित्वा कतिपयसन्धयो विधास्यन्त इत्यर्थः ।