7-1-93 अनङ् सौ सर्वनामस्थाने सख्युः असम्बुद्धौ
index: 7.1.93 sutra: अनङ् सौ
असम्बुद्धौ सौ सख्युः अनङ्
index: 7.1.93 sutra: अनङ् सौ
सखि-शब्दस्य असम्बुद्धिवाचके सुँ-प्रत्यये परे अनङ्-आदेशः भवति ।
index: 7.1.93 sutra: अनङ् सौ
The word सखि gets an अनङ्-आदेश when it is followed by सुँ-प्रत्यय of प्रथमा-एकवचन.
index: 7.1.93 sutra: अनङ् सौ
सखिशब्दस्य सौ परतः अनङित्ययमादेशो भवति, स चेत् सुशब्दः सम्बुद्धिः न भवति। सखा। असम्बुद्धौ इति किम्? हे सखे।
index: 7.1.93 sutra: अनङ् सौ
सख्युरङ्गस्याऽनङादेशः स्यादसंबुद्धौ सौ परे । ङिच्च <{SK43}> इत्यन्तादेशः ॥
index: 7.1.93 sutra: अनङ् सौ
सख्युरङ्गस्यानङादेशोऽसम्बुद्धौ सौ॥
index: 7.1.93 sutra: अनङ् सौ
'सखि' इति कश्चन इकारान्तशब्दः । अस्य शब्दस्य प्रथमैकवचनस्य सुँ-प्रत्यये परे अनङ्-आदेशः भवति । ङित्वात् ङिच्च 1.1.63 इति अयमन्त्यादेशः भवति । यथा -
सखि + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]
→ सख् अनङ् + स् [अनङ् सौ 7.1.93 इति सखि-शब्दस्य अनङ्-आदेशः]
→ सखन् + स् [इत्संज्ञालोपः]
→ सखान् + स् [सर्वनामस्थाने च असम्बुद्धौ 6.4.8 इति उपधादीर्घः]
→ सखान् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँ-प्रत्ययस्य लोपः]
→ सखा [नलोपः प्रातिपदिकान्तस्य 8.2.7 इति प्रातिपदिकसंज्ञकस्य पदस्य अन्तिमनकारस्य लोपः । अत्र यद्यपि प्रातिपदिकम् 'सखि' इति अस्ति, तथापि एकदेशविकृतमनन्यवत् अनया परिभाषया 'सखा' शब्दस्य अपि प्रातिपदिकत्वं जायते ।]
अस्याम् प्रक्रियायाम् सख्युरसम्बुद्धौ 7.1.92 इत्यनेन सुँ-प्रत्ययस्य णिद्वद्भावे सत्यपि नित्यत्वात् सर्वनामस्थाने च असम्बुद्धौ 6.4.8 इत्यनेनैव उपधादीर्घः भवति, अतः उपधायाः 7.2.116 इत्यनेन न ।
सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अस्य सूत्रस्य प्रसक्तिः एव नास्ति, यतः अस्मिन् सूत्रे 'असम्बुद्धौ' इति अनुवर्तते । अतः अस्य 'मुनि' शब्दवदेव एङ्ह्रस्वात्सम्बुद्धेः 6.1.69 इत्यनेन अङ्गस्य गुणादेशे कृते 'हे सखे' इति रूपम् सिद्ध्यति ।
index: 7.1.93 sutra: अनङ् सौ
अनङ् सौ - अनङ् सौ । 'सख्युरसम्बुद्धौ' इत्यनुवर्तते ।अङ्गस्ये॑त्यधिकृतं । तदाह — सख्युरङ्गस्येत्यादिना । 'सौ' इति प्रथमैकवचनम्, नतु सप्तमीबहुवचनम्,असम्बुद्धा॑विति पर्युदासात् । अनङि ङकार इत् । नकारादकार उच्चारणार्थः । अनेकाल्त्वात्सर्वादेशत्वमाशह्क्याह — ङिच्चेति ।
index: 7.1.93 sutra: अनङ् सौ
सर्वनामस्थानप्रकरणात्सम्बुद्धिपर्युदासाच्च सौ इति प्रथमैकवचनस्य ग्रहणम्, न सप्तमीबहुवचनस्य, आकारविधाने सोर्हल्ङ्यादिलोपो न स्यात् एवं तर्हि सोर्ङदेशो विधीयताम्, तएवं सिद्धे यदनण्ंó शास्ति तज्ज्ञापयति - अनङ् एव क्वचिच्छ्रवणमस्तीति । तेन यद्वक्ष्यति - सम्बुद्धावपि पक्षेऽनाङ्ष्यिते इति, तदुपपन्नं भवति ॥