3-3-173 आशिषि लिङ्लोटौ प्रत्ययः परः च आद्युदात्तः च धातोः कृत्
आशिषि लिङ्-लोटौ
अप्राप्तस्य इच्छां दर्शयितुम् लिङ्लकारः लोट्लकारः च प्रयुज्येते ।
लिङ्लकार and लोट्लकार are used to express the desire of something that cannot be easily attained.
आशंसनमाशीः, अप्राप्तस्येष्टस्यार्थस्य प्राप्तुमिच्छा। प्रकृत्यर्थविशेषणं चैतत्। आशीर्विशिष्टेऽर्थे वर्तमान् धातोर्लिङ्लोटौ प्रत्ययौ भवतः। चिरं जीव्याद् भवान्। चिरं जीवतु भवान्। आशिषीति किम्? चिरं जीवति देवदत्तः॥
'आशीः' इत्युक्ते 'अप्राप्तस्य इच्छा' । यद् किमपि इष्टमस्ति परन्तु न प्राप्तम् (न च लीलया प्राप्तुं शक्यते), तस्य प्राप्तेः इच्छां दर्शयितुम् लिङ्लकारस्य लोट्लकारस्य च प्रयोगः भवति । यथा - 1. ईश्वरः मे विपुलमायुष्यम् दद्यात् / ईश्वरः मे विपुलमायुष्यम् ददातु । 2. भवान् चिरं जीव्यात् / भवान् चिरं जीवतु । 3. मम शत्रुः मृषीष्ट । मम शत्रुः म्रियताम् । यः लिङ्लकारः आशीषि अर्थे प्रयुज्यते, तस्य निर्देशः 'आशीर्लिङ्लकारः' नाम्ना क्रियते । विधिलिङ्लकारस्य अपेक्षया अस्य रूपाणि भिन्नानि भवन्ति, यतः <<लिङ्गाशिषि>> 3.4.116 इत्यनेन आशीर्लिङ्लकारस्य प्रत्ययाः आर्धधातुकसंज्ञकाः भवन्ति । लोट्लकारस्य विषये एतादृशः भेदः नास्ति, अतः लोट्-लकारस्य आशीषि अर्थे अपि भिन्नं नाम न दीयते । ज्ञातव्यम् - 'आशीषि' अर्थे लोट्लकारस्य 'तु' प्रत्ययस्य तथा 'हि' प्रत्ययस्य <<तुह्योस्तातङाशिष्यन्यतरस्याम्>> 7.1.35 इत्यनेन वैकल्पिकः 'तातङ्' आदेशः अपि भवति । यथा - पठतु/पठतात्, लिख/लिखतात् - आदयः । यत्र लोट्-लकारः अन्येषु अर्थेषु प्रयुज्यते, तत्र तु एतादृशः आदेशः न भवति ।
<<आशिषि लिङ्लोटौ>> - आशिषि लिङ् । आशिष्यपीत्यर्थः । आशासनमासीः, इष्टप्राप्तीच्छा ।
आशीर्विशष्ट इत्याशास्यमान इत्यर्थः । विध्यादिसूत्र एवाशीर्ग्रहणं न कृतम्,'स्मे लोट्' इत्यादिविषयेऽपि परत्वादेष विधिर्यथा स्यादिति । अवश्यं चोतरार्थमिहाशीर्ग्रहणं कर्तव्यम् ॥