अदेङ् गुणः
1-1-2 अत् एङ् गुणः वृद्धिः
Sampurna sutra
Up
अत्-एङ् गुणः
Neelesh Sanskrit Brief
Up
अ, ए, ओ - एतेषां त्रयाणां 'गुणः' इति संज्ञा भवति ।
Neelesh English Brief
Up
The letters अ, ए and ओ are called 'गुण'.
Kashika
Up
गुणशब्दः संज्ञात्वेन विधीयते प्रत्येकमदेङां वर्णानां सामान्येन तद्भावितानामतद्भावितानां च। तपरकरणं त्विह सर्वार्थम्। तरिता। चेता। स्तोता। पचन्ति। यजन्ति। अहं पचे। गुणप्रदेशाः — <<मिदेर्गुणः>> ७.३.८२ इत्येवमादयः॥
Siddhanta Kaumudi
Up
अदेङ् च गुणसंज्ञः स्यात् ॥
Laghu Siddhanta Kaumudi
Up
अत् एङ् च गुणसंज्ञः स्यात्॥
Neelesh Sanskrit Detailed
Up
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'गुण' इति संज्ञा । 'अ', 'ए', 'ओ' एते त्रयः वर्णाः अनेन सूत्रेण गुणसंज्ञकाः भवन्ति । यथा, हरिः इत्यत्र विद्यमानः हकारोत्तरः अकारः, देवः इत्यत्र विद्यमानः दकारोत्तरः एकारः, तथा च गोविन्दः इत्यत्र विद्यमानः गकारोत्तरः ओकारः - एते सर्वे गुणसंज्ञकाः सन्ति ।
गुणसंज्ञायाः प्रयोजनम्
गुणसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उच्यन्ते । कानिचन उदाहरणानि एतानि —
1. <<ऋतो ङिसर्वनामस्थानयोः>>
7.3.110 इत्यनेन सूत्रेण ऋकारस्य
गुणः भवति । अत्र ऋकारस्य स्थाने गुणसंज्ञकः
अकारः आगच्छति । यथा -
पितृ + औ [प्रथमाद्विवचनस्य 'औ' प्रत्ययः]
→ पितर् + औ [<<ऋतो ङिसर्वनामस्थानयोः>> 7.3.110 इत्यनेन ऋकारस्य गुणः अकारः । <<उरण् रपरः>> 1.1.51 इति सः रपरः]
→ पितरौ
2. <<जसि च>>
7.3.109 इत्यनेन सूत्रेण इकारस्य
गुणः भवति । अत्र इकारस्य स्थाने गुणसंज्ञकः
एकारः विधीयते । यथा,
मति + जस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः]
→ मति + अस् [इत्संज्ञालोपः]
→ मते + अस् [<<जसि च>> 7.3.109 इत्यनेन इकारस्य गुणादेशः एकारः]
→ मतय् + अस् [<<एचोऽयवायावः>> 6.1.78 इति अयादेशः]
→ मतयः [<<ससजुषो रुः>> 8.2.66, <<खरवसानयोर्विसर्जनीयः>> 8.3.15]
3. <<सार्वधातुकार्धधातुकयोः>>
7.3.84 इत्यनेन सूत्रेण उवर्णस्य
गुणः भवति । अत्र उकारस्य स्थाने गुणसंज्ञकः
ओकारः विधीयते । यथा,
भू + अनीयर् [कृत्संज्ञकः अनीयर्-प्रत्ययः]
→ भू + अनीय [इत्संज्ञालोपः]
→ भो + अनीय [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति उकारस्य गुणः ओकारः]
→ भव् + अनीय [<<एचोऽयवायावः>> 6.1.78 इति अवादेशः]
→ भवनीय ।
गुणसंज्ञा तथा गुणसन्धिः
यस्मिन् सन्धौ द्वयोः स्वरयोः एकत्रीकरणम् कृत्वा उभयोः स्थाने एकः गुणसंज्ञकः वर्णः विधीयते, सः सन्धिः सामान्यरूपेण गुणसन्धिः इति नाम्ना ज्ञायते । यथा,
महा + ईशः → महेशः इत्यत्र प्रक्रियायाम् <<आद्गुणः>>
6.1.87 इति सूत्रेण आकार-ईकारयोः मिलित्वा
ए इति गुण-आदेशः भवति । अत्र गुणसंज्ञकः वर्णः आदेशरूपेण विधीयते, अतएव अस्य सन्धेः नाम
गुणसन्धिः इति दीयते ।
तद्भावितस्य, अतद्भावितस्य च गुणसंज्ञा
प्रकृतसूत्रस्य व्याख्याने काशिकाकारः
तद्भावितानाम् अतद्भावितानां च इति वाक्यं प्रयुङ्क्ते । अत्र विद्यमानयोः द्वयोः शब्दयोः अर्थौ एतादृशौ —
1. तद्भावितः वर्णः — यः अकारः / एकारः / ओकारः 'गुणः भवति' इति निर्देशेन सिद्ध्यति, सः अकारः / एकारः / ओकारः अत्र तद्भावितवर्णः इत्यनेन निर्दिष्टः अस्ति । यथा,
महेशः इत्यस्मिन् शब्दे विद्यमानः एकारः आकार-ईकारयोः एकत्ररूपेण 'गुणं' कृत्वा सिद्ध्यति, अतः अयम्
तद्भावितवर्णः अस्ति इति उच्यते ।
2. अतद्भावितः वर्णः — यः अकारः / एकारः / ओकारः 'गुणः भवति' इति निर्देशं विना एव उपस्थितः अस्ति, सः वर्णः अतद्भावितवर्णः नाम्ना ज्ञायते । यथा,
अन्तिइति प्रत्ययस्य आदौ विद्यमानः अकारः
अतद्भावितवर्णः उच्यते ।
एतादृशम्, अकार/एकार/ओकाराणाम् द्वयोः गणयोः विभाजनं कृत्वा काशिकाकारः प्रकृतसूत्रस्य व्याख्याने इदं स्पष्टीकरोति, यत्
उभयोः प्रकारयोः अकार/एकार/ओकाराणाम् (इत्युक्ते, तद्भावितानाम्, अतद्भावितानाम् च) प्रकृतसूत्रेण गुणसंज्ञा भवति । अतएव
अन्ति इति प्रत्ययस्य आदौ विद्यमानम् अकारम् गुणसंज्ञकं स्वीकृत्य
पठ् + अ+ अन्ति इत्यत्र <<अतो गुणे>>
6.1.97 इति सूत्रेण पररूप-एकादेशः भवति, येन
पठन्ति इति रूपं सिद्ध्यति ।
सूत्रेषु प्रयोगः
अष्टाध्याय्यां 'गुणः' इति संज्ञा पञ्चदशसु सूत्रेषु साक्षात् प्रयुक्ता दृश्यते —
1. <<इको गुणवृद्धी>> 1.1.3
2. <<आद्गुणः>> 6.1.87
3. <<अतो गुणे>> 6.1.97
4. <<ओर्गुणः>> 6.4.146
5. <<स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः>> 6.4.156
6. <<मिदेर्गुणः>> 7.3.82
7. <<गुणोऽपृक्ते>> 7.3.91
8. <<ह्रस्वस्य गुणः>> 7.3.108
9. <<ऋतश्च संयोगादेर्गुणः>> 7.4.10
10. <<ऋदृशोऽङि गुणः>> 7.4.16
11. <<शीङः सार्वधातुके गुणः>> 7.4.21
12. <<गुणोऽर्तिसंयोगाद्योः>> 7.4.29
13. <<मुचोऽकर्मकस्य गुणो वा>> 7.4.57
14. <<निजां त्रयाणां गुणः श्लौ>> 7.4.75
15. <<गुणो यङ्लुकोः>> 7.4.82
अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।
'अदेङ्' इत्यत्र तपरकरणस्य प्रयोजनम्
अदेङ् इत्यत्र
अत् तथा
एङ् इति पदद्वयम् विद्यते । तत्र
अत् इत्यत्र अकारात् अनन्तरम् स्थापितः तकारः
तात्कालिकभेदग्रहणार्थम् स्थापितः अस्ति । अयम् तकारः अकारेण सह, तथा च
एङ् इत्यनेन सह अपि अन्वेति । इत्युक्ते, अकारेण जायमानम् सवर्णग्रहणम् (आकार-अ3कारयोः ग्रहणम्), तथा च एङ्-प्रत्याहारस्थवर्णाभ्याम् जायमानम् अपि सवर्णग्रहणं अत्र तकारनिर्देशसामर्थ्यात् <<तपरस्तत्कालस्य>>
1.1.70 इति सूत्रस्य साहाय्येन नियम्यते, येन केवलम् ह्रस्व-अकारस्य तथा च दीर्घ-एकार-ओकारयोः एव 'गुण'संज्ञा भवति ।
Balamanorama
Up
<<अदेङ् गुणः>> - अदेङ्गुणः । संज्ञाप्रस्तावात्संज्ञेति लभ्यते । अच्च एङ् चेति समाहारद्वन्द्वः । तदाह — अदेङ् चेत्यादिना ।
Padamanjari
Up
पूर्वेण तुल्यमेतत् । ऽतपरकरणं त्विह सर्वार्थमिऽति । न तु पूर्ववदन्यतरार्थमिति तु शब्दस्यार्थः । असति हि तस्मिन् दीर्घप्लुतयोरपि गुणसंज्ञा स्यात्; ततश्च तरतीति कदाचिदकारः स्यात्, कदाचिदाकारः, रपरत्वे कृत एकस्याध्यर्धमात्रत्वादपरस्यार्धतृतीयमात्रत्वात् । न चाकारस्य वृद्धिसंज्ञा बाधिका; एकसंज्ञाधिकारादन्यत्र संज्ञासमावेशात् । एङश्च त्रिमात्रचतुर्मात्रस्य गुणसंज्ञायाम्-रथेषा,खट्वेषा, अश्वोढः, वडवोढ इति त्रिमात्रतुर्मात्रौ स्याताम् । तरितेत्यादीनि तद्भावितानामदेङं क्रमेण रूपोदाहरणानि । पचन्ति जयन्तीत्यकारस्य कार्योदाहरणे । अत्रान्त्यकारे परतः शबकारस्य 'अतो गुणे' इति पररूपं भवति । एकारस्यातद्भावितस्योदाहरणम्-ऽअहं पचे ऽइति । ओकारस्य तु न संभवति ॥