3-1-124 ऋहल्रोः ण्यत् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः
पञ्चम्यर्थे षष्ठी, ऋवर्णान्ताद् धातोर्हलन्ताच्च ण्यत् प्रत्ययो भवति। कार्यम्। हार्यम्। धार्यम्। वाक्यम्। पाक्यम्॥
ऋवर्णान्ताद्धलन्ताच्च धातोर्ण्यत्स्यात् । कार्यम् । वर्ष्यम् ॥
ऋवर्णान्ताद्धलन्ताच्च धातोर्ण्यत्। कार्यम्। हार्यम्। धार्यम्॥
<<ऋहलोर्ण्यत्>> - ऋहलोण्र्यत् । पञ्चम्यर्थे षष्ठी । तदाह — ऋवर्णान्तादिति ।
ऋहलोर्ण्यत्॥ ऋवर्णान्तादिति। अर्तेस्तु ग्रहणं न भवति; हला साहचर्यात्, परं कार्यमिति निर्द्देशाद्, ठीडवन्दवृशंसदुहां ण्यतःऽ इति लिङ्गाच्च॥