गुणोऽपृक्ते

7-3-91 गुणः अपृक्ते पिति सार्वधातुके हलि ऊर्णोतेः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ऊर्णोतेर्धारतोरपृक्ते हलि पिति सार्वधातुके गुणो भवति। प्रौर्णोत्। प्रौर्णोः। हलीति वर्तमाने यदपृक्तग्रहणं क्रियते, तेनैव ज्ञाप्यते भवत्येषा परिभाषा — <<यस्मिन् विधिस्तदादावल्ग्रहणे>> इति॥

Siddhanta Kaumudi

Up

ऊर्णोतेर्गुणः स्यादपृक्ते हलादौ पिति सार्वधातुके । वृद्ध्यपवादः । और्णोत् । और्णोः । ऊर्णुयात् । ऊर्णुयाः । इह वृद्धिर्न । ङिच्च पिन्न इति भाष्यात् । ऊर्णूयात् । ऊर्णविषीष्ट । ऊर्णुविषीष्ट । और्णवीत् । और्णुविष्टाम् ॥

Laghu Siddhanta Kaumudi

Up

ऊर्णोतेर्गुणोऽपृक्ते हलादौ पिति सार्वधातुके। वृद्ध्यपवादः। और्णोत्। और्णोः। ऊर्णुयात्। ऊर्णुयाः। ऊर्णुवीत। ऊर्णूयात्। ऊर्णुविषीष्ट, ऊर्णविषीष्ट॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<गुणोऽपृक्ते>> - गुणोऽपृक्ते ।ऊर्णोतेविभाषे॑त्यत ऊर्णोतेरिति,नाभ्यस्तस्ये॑त्यतः पिति सार्वधातुके इति,उतो वृद्धि॑रित्यतो हलीति चानुवर्तते । तदाह — ऊर्णोतेरित्यादि । वृद्ध्यपवाद इति ।ऊर्णोतेर्विभाषे॑ति वृद्धिविकल्पस्यापवाद इत्यर्थः । ऊर्णुयादित्यत्रविभाषोर्णो॑रिति वृद्धिविकल्पमाशङ्क्याह — इह वृद्धिर्नेति । भाष्यादिति । तथा च यासुटो ङित्त्वेन पित्त्वाऽभावान्न वृद्धिविकल्प इति भावः । नचैवं सति गुणनिषेधोऽपि न स्यादिति शङ्क्यं, विशेषविहितेन यासुटो ङित्त्वेनङिच्च पिन्ने॑ति पित्त्वप्रयुक्तङित्त्वनिषेधस्य बाध इति 'यु मिश्रणे' इति धातावेवोक्तत्वादिति भावः । परस्मैपदे आशीर्लिङ्याह — ऊर्णूयादिति ।अकृत्सार्वधातुकयो॑रिति दीर्घः । ऊर्णूयास्तामित्यादि । आत्मनेपदे लिडआह — ऊर्णविषीष्ट ऊर्णुविषीष्टेति ।विभाषोर्णो॑रिति ङित्त्वविकल्प इति भावः । लुङि परस्मैपदे और्णु — ईदिति स्थितेविभाषोर्णो॑रिति ङित्त्वपक्षे गुणाऽभावे उवङि रूपमाह — और्णुवीदिति । ङित्त्वाऽभावपक्षे गुणे नित्यं प्राप्ते ।

Padamanjari

Up

ननु च'हलि' इति वर्तते,'पिति' इति च, अङ्गेन च प्रत्यय उपस्थाप्यते; तत्र हलात्मके प्रत्यये पिति विधायमानो गुणोऽपृक्त एव भविष्यति, नार्थोऽपृक्तग्रहणेन ? इत्यत आह - हलीति वर्तमान इति । अपृक्तग्रहणं ह्यएवमर्थं क्रियते - हलादौ मा भूदिति, यदि चेयं परिभाषा न स्यात्, अपृक्तग्रहणं न कुर्यात्, कृतं तु, ज्ञापयति - भवत्येषा परिभाषेति । इदं त्वत्र वक्तव्यम् - तदन्तविधिनिवृत्यर्थमपृक्तग्रहणं कस्मान्न भवतीति, तदन्तविधौ हि लङ् इमिपोऽम्भावेऽपि प्रसङ्गः स्यात् । ननु भवत्येव तत्र गुणः, कथं भवति ? यदा पूर्वत्र वृद्धिविधावपि तदन्तविधिरेव भवति । तदेतदपृक्तग्रहणं कथं तदादिविधेर्ज्ञापकमिति चिन्त्यम् ।'नापृक्ते' इत्युच्यमानेऽनन्तराया विभाषिताया वृद्धेः प्रतिषेधः स्यात्, नित्या तु वृद्धैः स्यादेव । तस्माद् गुणग्रहणम् ॥