शीङः सार्वधातुके गुणः

7-4-21 शीङः सार्वधातुके गुणः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

शीङः अङ्गस्य सार्वधातुके परतः गुणो भवति। शेते, शयाते, शेरते। सार्वधातुके इति किम्? शिश्ये।

Siddhanta Kaumudi

Up

क्ङिति च- <{SK2217}> इत्यस्यापवादः । शेते । शयाते ॥

Laghu Siddhanta Kaumudi

Up

क्ङिति चेत्यस्यापवादः। शेते। शयाते॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<शीङः सार्वधातुके गुणः>> - शीङः सार्वधातुके । स्पष्टम् ।सार्वधातुकार्धधातुकयो॑रित्येव सिद्धे किमर्थमिदमित्यत आह — क्ङिति चेत्यस्यापवाद इति । झस्य अदादेशे सति शे-अते इति स्थिते —

Padamanjari

Up

अनुबन्धनिर्देशो यङ्लुकि मा भूदिति - शेशीतः, शेश्यतीति ।'शीङ् एः' इत्युच्यमाने सानुबन्धकात् षष्ठयुच्चारिता, अनुबन्धश्च निवृत्तिधर्मा, तस्य लोपेन निवृतौ प्राप्तायामयमन्यः प्रकारो विज्ञायेत, नास्य लोपे निवर्तकः, किं तर्हि ? एकार इति । गुणग्रहणं त्विकं निवर्तयति । ङ्कारस्तु स्वनेनैव हेतुना निवर्तते । तस्माद् गुणग्रहणम् ॥