7-4-29 गुणः अतिसंयोगाद्योः यि अकृत्सार्वधातुकयोः ऋतः शयग्लिङ्क्षु
index: 7.4.29 sutra: गुणोऽर्तिसंयोगाद्योः
ऋतः यकि लिगि इति वर्तते। श इत्यसम्भवात् निवृत्तम्। गुणो भवति अर्तेः संयोगादीनाम् ऋकारान्तानां यकि परतो लिगि च यकारादौ असार्वधातुके। अर्यते। अर्यात्। स्मर्यते। स्मर्यात्। इह संस्क्रियते, संस्क्रियातिति सुटो बहिरङ्गलक्षणस्य असिद्धत्वातभक्तत्वात् वा संयोगादित्वमङ्गस्य न अस्तीति गुणो न प्रवर्तते। यि इत्येव, स्वृषीष्ट। ध्वृषीष्ट। असार्वधातुके इत्येव, इयृयात्।
index: 7.4.29 sutra: गुणोऽर्तिसंयोगाद्योः
अर्तेः संयोगादेर्ऋदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च । ह्वर्यात् । अह्वर्षीत् । अह्वार्ष्टाम् ।{$ {!932 स्वृ!} शब्दौपतापयोः$} । स्वरतिसूति - <{SK2279}> इति वेट् । सस्वरिथ । सस्वर्थ । वमयोस्तु ॥
index: 7.4.29 sutra: गुणोऽर्तिसंयोगाद्योः
अर्तेः संयोगादेरृदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च। ह्वर्यात्। अह्वार्षीत्। अह्वरिष्यत्॥ {$ {! 19 श्रु !} श्रवणे $} ॥
index: 7.4.29 sutra: गुणोऽर्तिसंयोगाद्योः
गुणोऽर्तिसंयोगाद्योः - आशीर्लिङि ह्वृ यादिति स्थिते कित्त्वाद्गुणनिषेधे प्राप्ते — गुणोऽर्ति । भौवादिको जौहोत्यादिकश्च ऋधातुरर्तीत्यनेन गृह्रते । लुका निर्देशस्तु न विवक्षितः । अङ्गस्येत्यधिकृतम् । 'रीङृतः' इत्यत ऋत इत्यनुवर्तते । तच्च अङ्गविशेषणं, तदन्तविधिः । ऋदन्तस्याङ्गस्येति लभ्यते । संयोगाद्योरित्यपि तद्विशेषणम् ।अकृत्सार्वधातुकयो॑रित्यतोऽसार्वधातुकग्रहणमनुवर्तते । आर्धधातुके इति लभ्यते । 'रिङ् शयग्लिङ्क्षु' इत्यतो यकि लिङीति च लभ्यते ।अयडि क्ङिती॑त्यतो यीति सप्तम्यन्तमनुवर्तते । आर्धधातुकविशेषणत्वात्तदादिविधिः । तदाह — अर्तेरित्यादिना । तथ् च ह्वृ-यात् इतिस्थिते गुणे रपरत्वे रूपमाह — ह्वर्यादिति । अह्वार्षीदिति । सिचि वृद्धिः । रपरत्वं । षत्वम् । अह्वरिष्यत् । स्वृ इति । अयमप्यनिट् । स्वरति । लिटि तु कित्यपि गुणः । णलि तु कृते गुणे रपत्वे उपधावृद्धिः । सस्वार सस्वरतुः सस्वरुः । थलि तु क्रादिनियमप्राप्तस्य इटःअचस्तास्व॑दित,ऋतो भारद्वाजस्ये॑ति च नित्यनिषेधे प्राप्ते आह — स्वरतिसूतीति वेडिति । सस्वरिथ सस्वर्थेति । सस्वरथुः सस्वर । सस्वार-सस्वर । इत्यपि ज्ञेयम् । वमयोस्त्विति । क्रादनियमान्नित्यमिडित्यन्वयः ।
index: 7.4.29 sutra: गुणोऽर्तिसंयोगाद्योः
ठृ गतिप्रापणयोःऽ भूवादिः, ठृ सृ गतौऽ जौहोत्यादिकः - द्वयोरप्ययं छान्दसत्वाल्लुका निर्देशः; ऋच्छतीति निर्देशे इयर्तर्न स्यात्, इयर्तीति निर्द्देशे ऋच्छतेर्न स्यात् । ऋग्रहणमेव तु न कृतम्, वैचित्र्यार्थम् । न चैवमुच्यमाने वर्णग्रहणशङ्का ? ठृतःऽ इत्यनुवृतेः । श इत्येतदिहासम्भवान्निवृतमिति । न ह्यर्तिः, संयोगादिर्वा धातुस्तुदादिषु पठ।ल्ते । संस्क्रियते, संस्क्रियादित्यत्र सुटि कृते संयोगाद्यङ्गमिति गुणप्रसङ्गः ? इत्यत आह - इहेति । बहिरङ्गत्वं सुटो द्विपदाश्रयत्वात्, इदं तु'पूर्वं धातुः साधनेन युज्यते' इत्याश्रित्योक्तम् । पक्षान्तरेऽप्याह - अभक्तत्वाद्वेति । इयृयादिति । विध्यादिलिङ्, शपः श्लुः, द्विर्वचनम्, ठर्तिपिपर्त्योश्चऽ इत्यभ्यासस्येत्वम्, ठभ्यासस्यासवर्णेऽ इतीयङ् । अकार एव वक्तव्ये गुणग्रहणं चिन्त्यप्रयोजनम् ॥