7-3-109 जसि च ह्रस्वस्य गुणः
ह्रस्वस्य अङ्गस्य जसि सुपि गुणः
ह्रस्वान्तस्य अङ्गस्य जस्-प्रत्यये परे गुणादेशः भवति ।
If an अङ्ग ends in ह्रस्व letter, that ह्रस्व letter gets a गुणादेश in presence of the जस्-प्रत्यय.
जसि परतो ह्रस्वान्तस्याङ्गस्य गुणो भवति। अग्नयः। वायवः। पटवः। धेनवः। बुद्धयः॥ जसादिषु छन्दसि वावचनं प्राङ् णौ चङ्युपधाया ह्रस्व इत्येतस्मात्॥ इतः प्रकरणात् प्रभृति छन्दसि वेति वक्तव्यम्। किं प्रयोजनम्? अम्बे, दर्वि, शतक्रत्वः, पश्वे नृभ्यः, किकिदीव्या। अम्बे, अम्ब॒ (ऋ० १०.९७.२)। पू॒र्णा द॑र्वि॒ (मा०सं०३.४९),पूर्णा दर्वी। अधा॑ शतक्रत्वः(ऋ०१०.९७.२),शतक्रतवः (काठ०सं० १६.१३)। पश्वे॒ नृभ्यः॒ (ऋ०१.४३.२), प॒शवे॑ (ऋ० ३.६२.१४)। किकिदी॒व्या (मै०सं०२.७.१३), किकिदी॒विना॑ (ऋ० १०.९७.१३)॥
ह्रस्वान्तस्याऽङ्गस्य गुणः स्याज्जसि परे । हरयः ॥
ह्रस्वान्तस्याङ्गस्य गुणः। हरयः॥
ह्रस्वान्तस्य अङ्गस्य अन्तिमवर्णस्य प्रथमाबहुवचनस्य जस्-प्रत्यये परे गुणादेशः भवति । इत्युक्ते, इकारस्य एकारः तथा उकारस्य ओकारः आदेशः भवति । यथा - मुनि + जस् → मुने + अस् [<<जसि च>> 7.3.109 इति गुणादेशः] → मुनयः [<<एचोऽयवायावः>> 6.1.78 इति अयादेशः । विसर्गनिर्माणम् ।]
जसादिष्विति । आदिशब्दः प्रकारे, तेन पूर्वयोगनिर्दिष्टानामपि ग्रहणम् । दर्वीति ।'कृदिकारादक्तिनः' इति ङीष्विकल्पमनपेक्ष्यैतदुक्तम्, तत एव तु सिद्धं रूपद्वयम् । शतक्रत्व इति ।'जसि च' इति गुणाभावपक्षे'प्रथमयोः' इति पूर्वसवर्णदीर्घोऽपि'वा च्छन्दसि' इति वचनान्न भवतीति यणादेशः प्रवर्तते । किकिदीव्येति । ठाङे नास्त्रियाम्ऽ इति नाभावो न भवति । किकिदीविशब्दः'कृविधृष्वि' इत्युणादिषु निपातितः ॥