निजां त्रयाणां गुणः श्लौ

7-4-75 निजां त्रयाणां गुणः श्लौ अभ्यासस्य

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

निजादीनां त्रयाणां अभ्यासस्य गुणो भवति श्लौ सति। णिजिर्नेनेक्ति। विजिर्वेवेक्ति। विष्लृ वेवेष्टि। त्रिग्रहणमुत्तरार्थम्, एषां हि वृत्करणम् समाप्त्यर्थं पठ्यते एव इति। श्लौ इति किम्? निनेज।

Siddhanta Kaumudi

Up

णिज्विज्विषामभ्यासस्य गुणः स्यात श्लौ । नेनेक्ति । नेनिक्तः । नेनिजति । निनेज । नेक्ता । नेक्ष्यति । नेनेक्तु । नेनिग्ध ॥

Laghu Siddhanta Kaumudi

Up

णिज्विज्विषामभ्यासस्य गुणः स्यात् श्लौ । नेनिक्तः । नेनिजति । नेनिक्ते । निनेज, निनिजे । नेक्ता । नेक्ष्यति, नेक्ष्यते । नेनेक्तु । नेनिग्धि ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

निजिरि, विजिर, विष्लृ व्याप्तौ जुहोत्यादिष्वमी त्रयः । त्रयाणां ग्रहणमुतरार्थमिति ।'भृञामित्' इतीत्वं त्रयाणामेव यता स्यात् । अथेहार्थमपि कस्मान्न भवति ? तत्राह - एषां हीति । यदि तर्ह्युतरार्थं त्रिग्रहणं कर्तव्यम्, तदेवास्तु, वृत्करणं तु निजामन्ते शक्यमकर्तुम् ? सत्यम्; तदपि कृतमित्येव । गुणग्रहणमिक्परिभाषोपस्थानार्थम्, तेन हलादिशेषे कृते गुणो भवति; अन्यथा तदपवादो हल एव एकारः स्यात् । अथ ठभ्यासविकारेष्वपवादो नोत्सर्गान् बाधतेऽ इत्याश्रीयेत ? तदा विस्पष्टार्थं गुणग्रहणम् ॥