ऋतश्च संयोगादेर्गुणः

7-4-10 ऋतः च संयोगादेः गुणः लिटि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ऋकारान्तस्य अङ्गस्य संयोगादेः गुणो भवति लिटि परतः। स्वृ सस्वरतुः। सस्वरुः। ध्वृ दध्वरतुः। दध्वरुः। स्मृ सस्मरतुः। सस्मरुः। ऋतः इति किम्? चिक्षियतुः। चिक्षियुः। संयोगादेः इति किम्? चक्रतुः। चकृउः। प्रतिषेधविषयेऽपि गुणो यथा स्यातित्ययमारम्भः। वृद्धिविषये तु पूर्वविप्रतिषेधेन वृद्धिरेव इष्यते। सस्वार। सस्मार। लिटि इत्येव, स्मृतः। स्मृतवान्। संयोगादेर्गुणविधाने संयोगोपधग्रहणं कृञर्थं कर्तव्यम्। सञ्चस्करतुः, सञ्चस्करुः इति। अत्र हि पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेण इत्यत्र दर्शने लिति कृते, तदाश्रये च द्विर्वचने, पश्चादुपसर्गयोगे सति, <<अडभ्यासव्यवायेऽपि>> 6.1.136 इति सुत् क्रियते। एवं च कृत्वा संस्कृषीष्ट, उपस्कृषीष्ट इत्यत्र सुटो बहिरङ्गलक्षणस्य असिद्धत्वातृतश्च संयोगादेः इति इडागमो न भवति।

Siddhanta Kaumudi

Up

ऋदन्तस्य संयोगादेरङ्गस्य गुणः स्याल्लिटि । किदर्थमपीदंपरत्वाण्णल्यपि भवति । रपरत्वम् । उपधावृद्धिः । जह्वार । जह्वरतुः । जह्वरुः । जह्वर्थ । ह्वर्ता । ऋद्धनोः स्ये <{SK2366}> ह्वरिष्यति ॥

Laghu Siddhanta Kaumudi

Up

ऋदन्तस्य संयोगादेरङ्गस्य गुणो लिटि। उपधाया वृद्धिः। जह्वार। जह्वरतुः। जह्वरुः। जह्वर्थ। जह्वरथुः। जह्वर। जह्वार, जह्वर। जह्वरिव। जह्वरिम। ह्वर्ता॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ऋतश्च संयोगादेर्गुणः>> - ऋतश्च । लिटीति ।दयतेर्दिगि लिटी॑त्यतस्तदनुवृत्तेरिति भावः । ननु तिप्सिप्मिप्सु सार्वधातुकार्धधातुकयोरित्येव गुणे सिद्धे किमर्थमिदमित्यत आह — किदर्थमपीदमिति । अतुसादिकिदर्थं णलाद्यकिदर्थं चेत्यर्थः । ननु अस्य गुणस्य अतुसादिषु चरितार्थत्वाण्णलिअचो ञ्णिती॑ति वृद्धिप्रसङ्गात्कथं णल्ययं गुण इत्यत आह — परत्वाण्णल्यपि भवतीति ।अचो ञ्णिती॑ति वृद्ध्यपेक्षया अस्य गुणस्य परत्वादित्यर्थः । तर्हिजह्वारे॑ति कथमित्यत आह — उपधावृद्धिरिति ।अत उपधाया इत्यनेने॑ति शेषः । जह्वर्थेति । क्रादिनियमप्राप्तस्य इटःअचस्तास्व॑दिति,ऋतो भारद्वाजस्ये॑ति च निषेधादत भावः । जह्वरथुः जह्वर । जह्वार-जह्वर जह्वरिम । क्रादिनियमादिट् । ह्वरतु । अह्वरत् । ह्वरेत् ।

Padamanjari

Up

सस्वरतुरित्यादि ।'स्वृ शब्दोपतापयोः' ,'ध्वृ हूर्च्छने' ,'स्मृ चिन्तायाम्' । अत्र परत्वाद् गुणे कृते पश्चाद् द्विर्वचनमिति गुणविधानसमये संयोगादित्वमङ्गस्य । यद्वा - द्विर्वचने हलादिशेषे कृते साम्प्रतिकासम्भावाद् भूतपूर्वसंयोगादित्वमाश्रित्य गुणः ॥ प्रतिषेधविषय इति । थलि, उतमे णलि णित्वाभावपक्षे च सामान्यलक्षणो नैव गुणः सिद्धः - सस्वर्थ, अहं किल सस्वर । वृद्धिविषये तर्हि परत्वादयमेव गुणः प्राप्नोति ? तत्राह - वृद्धिविषये त्वित्यादि । गुणस्यावकाशः - सस्वरतुः, णिति वृद्धेरवकाशः - कारकः, हारकः; सस्वारेत्यादौ वृद्धिविषये पूर्वविप्रतिषेधः । ननु च परत्वाद् गुणेऽपि कृते तस्मिन् ठत उपधायाःऽ इति सिद्धम् ? सत्यम्; परिहारान्तरं त्विदं द्रष्टव्यम् - तपरकरणं निर्देशार्थम् । दीर्घस्य तु आतस्तरुरित्यादावुतरसूत्रेण गुणो भवत्येव । न च तस्या अपि प्राप्तेः संयोगादिषु तपरकरणसामर्थ्याद्व्यावृत्तिः; निर्देशार्थतया तस्योपपतेः । संयोगादेरित्यादि । अङ्गस्यासंयोगादित्वाद्वचनम् । उपधाग्रहणं देशविशेषोपलक्षणम्, अल्मात्रस्योपधासंज्ञाविधानात् संयोगस्योपधात्वासम्भवात्, संयोगावयवे वा संयोगशब्दो वर्तते, उपधात्वं तु मुख्यम् । सञ्चस्करतुरिति ।'सम्पर्युपेभ्यः करोतौ भूषणे' , ठडभ्यासव्यवायेऽपिऽ इति सुट् । यदि संयोगोपधग्रहणं क्रियते, नार्थः संयोगादिग्रहणेन; इहापि सस्वरतुः, सस्वरुरिति'संयोगोपधस्य' इत्येव सिद्धम् ? भवेत्सिद्धम् - सस्वरतुः, सस्वरुरिति; इदं तु न सिद्ध्यति - सञ्चस्करतुः, सञ्चस्करुरिति, किं कारणम् ? बहिरङ्गलक्षणत्वात् - बहिरङ्गः सुट्, अन्तरङ्गो गुणः । कथं सुटो बहिरङ्गत्वम् ? अत आह - अत्र हीति । अत्र दर्शने साधनाभिधायी लिट् तावद्भवति, ततश्च तावत्येव निमितमस्तीति गुणः प्राप्नोति, सुट् तु पश्चादुपनतमुपसर्गमपेक्षत इति बहिरङ्गः, तेनासौ गुणे कर्तव्येऽसिद्ध इति असंयोगोपधत्वाद् गुणो न स्यात् । सस्वरतुरित्यादौ च सावकाशं वचनम् । संयोगादिग्रहणे तु क्रियमाणे संयोगोपधग्रहणस्यानन्यार्थत्वादसिद्धत्वं बाध्यत इति गुणसिद्धैः । अवश्यं च सुटो बहिरङ्गत्वमेषितव्यमित्याहएवं च कृत्वेति ।'सुट्कात्पूर्वः' इत्यत्रोक्तम् - कात्पूर्वग्रहणं सुटोऽभक्तत्वज्ञापनार्थमिति, इह तु भाष्यकारपक्षावलम्बनेन भक्तत्वेऽपि परिहार उक्त इति न विरोधः ॥