ऋदृशोऽङि गुणः

7-4-16 ऋदृशः अङि गुणः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ऋवर्णान्तानां दृशेश्च अङि परतो गुणो भवति। शकलाङ्गुष्ठकोऽकरत्। अहं तेभ्योऽकरं नमः। असरत्। आरत्। जरा। दृशेः अदर्शत्, अदर्शताम्, अदर्शन्।

Siddhanta Kaumudi

Up

ऋवर्णान्तानां दृशेश्च गुणः स्यादङि । अदर्शत् । अङभावे ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ऋदृशोऽङि गुणः>> - ऋदृशोऽङि । 'ऋ' इत्यङ्गविशेषणत्वात्तदन्तविधिः । तदाह — ऋवर्णान्तानामिति । अङभावे इति । अङभावपक्षे 'शल इगुपधा' दिति क्सादेशे प्राप्ते सतीत्यर्थः ।

Padamanjari

Up

ठृऽ इति वर्णग्रहणम्; व्याख्यानात् । अकरदित्यादौ'कृमृदॄउहिभ्यश्च्छन्दसि' इति च्लेरङ् । असरदिति ।'सर्तिशास्त्यर्तिभ्यश्च' इत्यङ् । अदर्शदिति । ठिरितो वाऽ इत्यङ् । गुणग्रहणं किम्, नाकार एवोच्येत - ठृदृशोङ्यःऽ इति ? नैव शक्यम्; दृशेरन्त्यस्यत्वं स्यात्, गुणग्रहणात्विको भवति । यदि त्वण् इत्यनुवर्तते, शक्यं गुणग्रहणमकर्तुम् । तथा तु न कृतमित्येव ॥