ह्रस्वस्य गुणः

7-3-108 ह्रस्वस्य गुणः सम्बुद्धौ

Sampurna sutra

Up

ह्रस्वस्य अङ्गस्य सम्बुद्धौ सुपि गुणः

Neelesh Sanskrit Brief

Up

ह्रस्वान्तस्य अङ्गस्य सम्बोधन-एकवचनस्य सुँ-प्रत्यये परे गुणादेशः भवति ।

Neelesh English Brief

Up

If an अङ्ग ends in ह्रस्व letter, that ह्रस्व letter gets a गुणादेश in presence of the सुँ-प्रत्यय of सम्बोधन एकवचन.

Kashika

Up

संबुद्धाविति वर्तते। ह्रस्वान्तस्याङ्गस्य गुणो भवति संबुद्धौ परतः। हे अग्ने। हे वायो। हे पटो। हे कुमारि, हे ब्रह्मबन्धु इत्येवमादीनां ह्रस्वविधानसामर्थ्याद् गुणो न भवति। यदि गुण इष्टः स्यात्, अम्बार्थानां ह्रस्व इत्युक्त्वा नदीह्रस्वयोर्गुण इत्येवं ब्रूयात ॥

Siddhanta Kaumudi

Up

ह्रस्वस्य गुणः स्यात्संबुद्धौ ।एङ्ह्रस्वा <{SK193}>दिति संबुद्धिलोपः । हे हरे । हरिम् । हरी । हरीन् ॥

Laghu Siddhanta Kaumudi

Up

सम्बुद्धौ। हे हरे। हरिम्। हरी। हरीन्॥

Neelesh Sanskrit Detailed

Up

हस्वान्तस्य अङ्गस्य अन्तिमवर्णस्य सम्बोधनैकवचनस्य सुँ-प्रत्यये परे गुणादेशः भवति । इत्युक्ते, इकारस्य एकारः तथा उकारस्य ओकारः आदेशः भवति । यथा - 1) मुनि + सुँ [सम्बुद्धिः] → मुने + सुँ [<<ह्रस्वस्य गुणः>> 7.3.108 इति इकारस्य गुणः एकारः] → मुने [<<एङ्ह्रस्वात् सम्बुद्धेः>> 6.1.69 इति सुँ-प्रत्ययस्य लोपः ] 2) साधु + सुँ [सम्बुद्धिः] → साधो + सुँ [<<ह्रस्वस्य गुणः>> 7.3.108 इति उकारस्य गुणः ओकारः] → साधो [<<एङ्ह्रस्वात् सम्बुद्धेः>> 6.1.69 इति सुँ-प्रत्ययस्य लोपः ] ज्ञातव्यम् - <<अम्बाऽर्थनद्योर्ह्रस्वः>> 7.3.107 इत्यनेन नदीसंज्ञकस्य ह्रस्वादेशे कृते अनेन सूत्रेण पुनः तस्य गुणादेशः न भवति, यतः एवं कुर्मश्चेत् <<अम्बाऽर्थनद्योर्ह्रस्वः>> 7.3.107 अस्मिन् सूत्रे 'नदी' शब्दस्य किमपि प्रयोजनं न अवशिष्यते । यदि पाणिनिः नदीसंज्ञकस्यापि गुणम् एव एषिष्यत्, तर्हि सः पूर्वसूत्रम् 'अम्बार्थस्य ह्रस्वः' इति लिखित्वा एतत् सूत्रम् 'नदीह्रस्वयोर्गुणः' इति अलेखिष्यत् । अतः 'पूर्वसूत्रे नदीशब्दस्य ह्रस्वविधानसामर्थ्यात् अत्र तस्य गुणः न भवति' इति उच्यते ।

Balamanorama

Up

<<ह्रस्वस्य गुणः>> - हे हरि स् इति स्थिते ह्रस्वस्य गुणः ।सम्बुद्धौ चे॑त्यतः सम्बुद्धावित्यनुवर्तते । तदाह — ह्रस्वस्येत्यादिना । अनेन रेफादिकारस्य गुण एकारः । सम्बुद्धिलोप इति । एङः परत्वादिति भावः । नत्वत्र ह्रस्वात्परत्वमस्ति, परत्वान्नित्यत्वाच्च सम्बुद्धिगुणे कृते ह्रस्वात्परत्वाऽभावात् । हरिमिति । अमि पूर्वरूपे रूपम् । हरीनिति । पूर्वसवर्णदीर्घे 'तस्माच्छसः' इति नत्वम् ।

Padamanjari

Up

ह्रस्वविधानसामर्थ्यादिति । ननु ह्रस्वविधानं तस्य गुणविधानार्थमेव स्यात्, अन्यथा ह्रस्वत्वाभावाद् गुणो न स्यादत आह - यदीति । ह्रस्वं विधाय गुणे विधीयमाने प्रक्रियागौरवं भवतीति लाघवार्थं साक्षादेव गुणं विदध्यादित्यर्थः । ननु'नदीह्रस्वयोर्गुणः' इत्युच्यमाने'जसि च' इत्यत्र नद्या अप्यनुवृत्तिः स्यात्, एकसमासनिर्दिष्टत्वात् ? नैष दोषः; एकसमासनिर्दिष्टयोरप्येकदेशोऽनुवर्तते, तद्यथा -'संख्याव्ययादेर्ङीप्' ,'दामहायनान्ताच्च' इत्यत्र संख्याग्रहणमनुवर्तते, नाव्ययग्रहणम् ॥