स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः

6-4-156 स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणांयणादिपरं पूर्वस्य च गुणः असिद्धवत् अत्र आभात् भस्य इष्ठेमेयस्सु

Kashika

Up

index: 6.4.156 sutra: स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः


स्थूल दूर युव ह्रस्व क्षिप्र क्षुद्र इत्येतेषां यणादिपरं लुप्यते इष्ठेमेयस्सु परतः, पूर्वस्य च गुणो भवति। स्थूल स्थविष्ठः। स्थवीयान्। दूर दविष्ठः। दवीयान्। युवन् यविष्ठः। यवीयान्। ह्रस्व ह्यसिष्ठः। ह्यसिमा। ह्यसीयान्। क्षिप्र क्षेपिष्ठः। क्षेपिमा। क्षेपीयान्। क्षुद्र क्षोदिष्ठः। क्षोदिमा। क्षोदीयान्। ह्रस्वक्षिप्रक्षुद्रशब्दाः पृथ्वादिषु पठ्यन्ते। परग्रहणं किम्? यविष्ठः, यवीयान्, ह्यसिष्ठः, ह्यसीयानित्यत्र पूर्वस्य यणादेर्लोपो मा भूत्। पूर्वग्रहणं विस्पष्टार्थम्।

Siddhanta Kaumudi

Up

index: 6.4.156 sutra: स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः


एषां यणादिपरं लुप्यते पूर्वस्य च गुण इष्ठादिषु । स्थविष्ठः । दविष्ठः । यविष्ठः । ह्रसिष्ठः । क्षेपिष्ठः । क्षोदिष्ठः । एवमीयम् । ह्रस्वक्षिप्रक्षुद्राणां पृथ्वादित्वात् ह्रसिमा । क्षेपिमा । क्षोदिमा ॥

Balamanorama

Up

index: 6.4.156 sutra: स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः


स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः - स्थूलदूर । एषामिति । स्थूल, दूर, युवन् ह्रस्व, क्षिप्र, क्षुद्र इत्येतेषामित्यर्थः । यणादीति । यण् — आदिर्यस्येति विग्रहः ।पर॑मितियणादी॑त्यस्य विशेषणम् । परभूतंयणादीत्यर्थः । लुप्यत इति । 'अल्लोपोऽनः' इत्यतोऽनुवृत्तं लोपपदमिह कर्मणि घञन्तमाश्रीयत इत्यर्थः । भावसाधनत्वे परमित्यनेन सामानाधिकरण्याऽसंभवात् । पूर्वस्येति । पूर्वत्वं यणपेक्षया बोध्यम् । इष्ठादिष्विति । 'तुरिष्ठेमेयस्सु' इत्यतस्तदनुवृत्तेरिति । भावः । स्थविष्ठ इति । स्थूलशब्दादिष्ठनि ल इत्यस्य लोपे ऊकारस्य गुण ओकारः । अवादेश इति भावः । ओर्गुणस्तु न प्रवर्तते, यणादिलोपस्याऽऽभीयत्वेनासिद्धत्वात् । एवमग्रेऽपि । दविष्ठ इति । दूरशब्दादिष्ठनि र इत्यस्य लोपे ऊकारस्य गुणे अवादेशः । यविष्ठ इति । युवन्शब्दादिष्ठनिव॑न्नित्यस्य लोपे गुणे अवादेशः ।पर॑मित्यनुक्तौ 'यु' इत्यस्यापि यणादेर्लोपः स्यात् । ह्यसिष्ठ इति । ह्रस्वशब्दादिष्ठनि 'व' इत्यस्य लोपः ।पर॑मित्यनुक्तावत्र रादेर्लोपः स्यात् । क्षेपिष्ठ इति । क्षिप्रशब्दादिष्ठनि र इत्यस्य लोपः, उकारस्य गुणः । एवमीयसिति । स्थवीयान्, दवीयान्, यवीयान्, ह्यसीयान्, क्षेपीयान्, क्षोदीयान् । इमनिजनुवृत्तेः प्रयोजनमाह — ह्रस्वक्षिप्रेति ।