मुचोऽकर्मकस्य गुणो वा

7-4-57 मुचः कर्मकस्य गुणः वा सि सनि

Kashika

Up

index: 7.4.57 sutra: मुचोऽकर्मकस्य गुणो वा


मुचोऽकर्मकस्य गुणो वा भवति सनि सकारादौ परतः। हलन्ताच् च 1.2.10 इति कित्त्वप्रतिषेधो विकल्प्यते। मोक्षते वत्सः स्वयम् एव, मुमुक्षते वत्सः स्वयम् एव। अकर्मकस्य इति किम्? मुमुक्षति वत्सं देवदत्तः। कर्मकर्तरि मुचिरकर्मको भवति, कर्मविशेषस्य अविवक्षिताद्वा।

Siddhanta Kaumudi

Up

index: 7.4.57 sutra: मुचोऽकर्मकस्य गुणो वा


सादौ सनि । अभ्यासलोपः । मोक्षते मुमुक्षते वा वत्सः स्वयमेव । अकर्मकस्य किम् । मुमुक्षति वत्सं कृष्णः ।न वृद्भ्यश्चतुर्भ्यः <{SK2348}> । विवृत्सति । तङि तु । विवर्तिषते । सेऽसिचि - <{SK2506}> इति वेट् । निनर्तिषति । निनृत्सति ॥

Laghu Siddhanta Kaumudi

Up

index: 7.4.57 sutra: मुचोऽकर्मकस्य गुणो वा


णिज्विज्विषामभ्यासस्य गुणः स्यात् श्लौ। नेनेक्ति। नेनिक्तः। नेनिजति। नेनिक्ते। निनेज, निनिजे। नेक्ता। नेक्ष्यति, नेक्ष्यते। नेनेक्तु। नेनिग्धि॥

Balamanorama

Up

index: 7.4.57 sutra: मुचोऽकर्मकस्य गुणो वा


मुचोऽकर्मकस्य गुणो वा - मुचोऽकर्मकस्य । सादौ सनीति । शेषपूरणमिदम् ।सः सी॑त्यतः सीत्,सनि मीमे॑त्यतः सनीति चानुवृत्तेरिति भावः ।हलन्ताच्चे॑ति कित्तवाद्गुणनिषेधे प्राप्ते वचनम् । अभ्यासलोप इति । 'अत्र लोपः' इत्यनेने॑ति शेषः । मोक्षते इति । 'अत्र लोपः' इत्यभ्यासलोपः । तङि त्विति । 'न वृद्भ्यः' इत्यत्र परस्मैपदग्रहणानुवृत्तेरुक्तत्वादिति भावः । निनृत्सतीति । इडभावपक्षेहलन्ताच्चे॑ति कित्त्वान्न गुणः ।

Padamanjari

Up

index: 7.4.57 sutra: मुचोऽकर्मकस्य गुणो वा


मुमुक्षत इति ।'भूषाकर्मकिरादिसनां चान्यत्रात्मनेपदात्' इति कर्मकर्तरि यगभावः । अतिदेशेन स्वश्रयस्यानिवृतेः कर्तरि शब्भवति; यथा - नमते दण्डः स्वयमेवेति । कर्मविशेषस्याविवक्षितत्वाद्वेति । उक्तं हि - 'प्रसिद्धेरविवक्षातः कर्मणो' कर्मिका क्रिया ।ऽ इति ॥