डः सि धुट्
8-3-29 डः सि धुट् पदस्य पूर्वत्र असिद्धम् संहितायाम् वा शरि
Sampurna sutra
Up
पदस्य डः सि धुट् वा
Neelesh Sanskrit Brief
Up
पदान्तडकारात् परस्य सकारस्य संहितायाम् विकल्पेन धुडागमः भवति ।
Neelesh English Brief
Up
In the context of संहिता, a सकार present after a पदान्त डकार optionally gets a धुट् आगम.
Kashika
Up
डकारान्तात् पदादुत्तरस्य सकारादेः पदस्य वा धुडागमो भवति। श्वलिट्त्साये, श्वलिट् साये। मधुलिट्त्साये, मधुलिट् साये। परादिकरणं <<न पदान्ताट्टोरनाम्>> ८.४.४२ इति ष्टुत्वप्रतिषेधार्थम्॥
Siddhanta Kaumudi
Up
डात्परस्य सस्य धुड्वा स्यात् । षट्त्सन्तः । षट्सन्तः ॥
Laghu Siddhanta Kaumudi
Up
डात्परस्य सस्य धुड्वा। षट्त्सन्तः, षट् सन्तः॥
Neelesh Sanskrit Detailed
Up
पदान्त-डकारात् परस्य सकारस्य संहितायाम् विकल्पेन 'धुट्' इति आगमः भवति । अयम् टित्-आगमः, अतः <<आद्यन्तौ टकितौ>> 1.1.46 इत्यनेन अयम् सकारात् पूर्वम् विधीयते ।
द्वे उदाहरणे एतादृशे —
1. षड् + सन्तः इत्यत्र प्रकृतसूत्रेण धुडागमः —
षड् सन्तः
→ षड् धुट् सन्तः [<<डः सि धुट्>> 8.3.29 इत्यनेन सकारस्य पाक्षिकः धुडागमः । <<आद्यन्तौ टकितौ>> 1.1.46 इति अयम् आद्यवयवरूपेण विधीयते ।]
→ षड् ध् सन्तः [टकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः । धकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ]
→ षड् त् सन्तः [डकारात् परस्य धकारस्य ष्टुत्वे प्राप्ते <<न पदान्ताट्टोरनाम्>> 8.4.42 इति तत् निषिध्यते । अतः धकारस्य <<खरि च>> 8.4.55 इति चर्त्वे तकारः सिद्ध्यति । अस्य चर्त्वस्य असिद्धत्वात् अग्रे <!चयो द्वितीया शरि पौष्करसादेरिति वाच्यम्!> इत्यनेन पाक्षिकः थकारादेशः न भवति ।]
→ षट् त् सन्तः [डकारस्य <<खरि च>> 8.4.55 इति चर्त्वे टकारः ।]
→ षट्त्सन्तः
<<डः सि धुट्>> 8.3.29 इत्यनेन उक्तः धुडागमः विकल्पेनैव भवति, अतः पक्षे धुडागमं विना षड् + सन्तः इत्यवस्थायां <<खरि च>> 8.4.55 इति चर्त्वे कृते षट्सन्तः इत्यपि सिद्ध्यति । अत्रापि चर्त्वस्य असिद्धत्वात् अग्रे <!चयो द्वितीया शरि पौष्करसादेरिति वाच्यम्!> इत्यनेन पाक्षिकः ठकारादेशः न भवति ।
2. लिह्-शब्दस्य सप्तमीबहुवचस्य प्रत्यये परे प्रकृतसूत्रेण धुडागमः भवति ।
लिह् + सुप् [सप्तमीबहुवचनस्य प्रत्ययः]
→ लिढ् + सु [<<हो ढः>> 8.2.31 इति झलि परे हकारस्य ढकारादेशः]
→ लिड् + सु [<<झलां जशोऽन्ते>> 8.2.39 इति पदान्तढकारस्य जश्त्वे डकारः]
→ लिड् + धुट् + सु [<<डः सि धुट्>> 8.3.29 इति धुडागमः । <<आद्यन्तौ टकितौ>> 1.1.46 इति अयम् आद्यवयवरूपेण विधीयते ।]
→ लिड् + ध् + सु [टकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः । धकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ]
→ लिड् + त् + सु [<<खरि च>> 8.4.55 इति धकारस्य चर्त्वम् तकारः । अस्य चर्त्वस्य असिद्धत्वात् अग्रे <!चयो द्वितीया शरि पौष्करसादेरिति वाच्यम्!> इत्यनेन पाक्षिकः थकारादेशः न भवति ।]
→ लिट् + त् + सु [<<खरि च>> 8.4.55 इति डकारस्य चर्त्वम् टकारः ।]
→ लिट्त्सु ।
पक्षे धुडागमस्य अभावे लिट्सु इत्यपि रूपं सिद्ध्यति । अत्रापि चर्त्वस्य असिद्धत्वात् अग्रे <!चयो द्वितीया शरि पौष्करसादेरिति वाच्यम्!> इत्यनेन पाक्षिकः ठकारादेशः न भवति ।
सूत्रे स्थानिनिर्णयः
प्रकृतसूत्रे
डः इति पदम् पञ्चमीविभक्तौ विद्यते,
सि इति पदम् च सप्तमीविभक्तौ विद्यते । इत्युक्ते, अत्र षष्ठ्यन्तम् पदम् नास्ति । अस्यां स्थितौ, पञ्चमीविभक्तिनिमित्तकम् कार्यम् कर्तव्यम् उत सप्तमीविभक्तिनिमित्तकम् कार्यम् कर्तव्यम् इति सन्देहे जाते (इत्युक्ते,
डः इति पूर्वनिमित्तम् स्वीकृत्य सकारः स्थानिरूपेण ग्रहीतव्यः, उत
सि इति परनिमित्तम् स्वीकृत्य डकारः स्थानिरूपेण ग्रहीतव्यः इति प्रश्ने जाते) <<विप्रतिषेधे परं कार्यम्>>
1.4.2 इत्यस्याः परिभाषायाः साहाय्यं स्वीक्रियते । अष्टाध्याय्याम् <<तस्मादित्युत्तरस्य>>
1.1.67 इति पञ्चमीनिमित्तकम् कार्यम् <<तस्मिन्निति निर्दिष्टे पूर्वस्य>>
1.1.66 इति सप्तमीनिमित्तकात् कार्यात् अनन्तरम् पाठितम् अस्ति, अतः
विप्रतिषेधेन अत्र पञ्चमीनिमित्तकम् कार्यं बलवत् स्वीकृत्य डः इति पूर्वनिमित्तरूपेण स्वीक्रियते, अतश्च सि इत्यनेन निर्दिष्टः सकारः स्थानित्वं गृह्णाति । अतएव अयम् धुडागमः
सि इति स्थानिनः पूर्वम् भवति ।
अयमेव विषयः <<उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् >> इति परिभाषायाः स्वरूपेण परिभाषेन्दुशेखरे पाठितः अस्ति । तत्र नागेशेन उच्यते —
यत्र तु डः सि धुट् इत्यादौ उभयोः अपि अचारितार्थ्यम् तत्र 'तस्मिन्' इति सूत्रापेक्षया 'तस्मादित्युत्तरस्य' इत्यस्य परत्त्वात् तेन एव व्यवस्था । — परिभाषेन्दुशेखरे 'उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्' इत्यत्र नागेशः ।
प्रकृतसूत्रे
डः इत्यस्य पञ्चमीविभक्तिः तथा च
सि इत्यस्य सप्तमीविभक्तिः — एते द्वे अपि अन्यत्र चारितार्थ्यं नैव प्राप्नुतः । इत्युक्ते, अग्रिमसूत्रेषु न हि
डः इत्यस्य पञ्चमीनिर्देशः उपयुज्यते, न च
सि इत्यस्य सप्तमीनिर्देशः ।
डः इत्यस्य अनुवृत्तिः अग्रिमसूत्रे नैव भवति,
सि इत्यस्य यद्यपि अनुवृत्तिः तथापि तत्र तस्य सप्तमीविभक्तिः न उपयुज्यते इति अत्र आशयः । अतः एतयोः द्वयोः अपि पदयोः विभक्ती अनुपयोगिन्यौ एव स्तः । अतश्च अस्मिन् स्थले <<उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् >> इति परिभाषाम् उपयुज्य स्थानिनिर्णयः क्रियते । अस्याः मूलम् तु <<तस्मिन्निति निर्दिष्टे पूर्वस्य>>
1.1.66 तथा च <<तस्मादित्युत्तरस्य>>
1.1.67 इत्येतयोः मध्ये विद्यमानः विप्रतिषेधः — इति अस्ति ।
टित्-आगमस्य प्रयोजनम्
अस्मिन् सूत्रे
डकारम् निमित्तरूपेण स्वीकृत्य
सकारस्य धुट् इति टित् आगमः विधीयते । यदि अत्र
सकारम् निमित्तरूपेण स्वीकृत्य
डकारस्य धुक् इति कित् आगमः पाणिनिना उच्येत, तर्हि सः डकारात् अनन्तरम् विधीय
ड् + ध् + स् इति डकारसकारयोः मध्ये एव उपतिष्ठेत । परन्तु एतादृशं क्रियते चेत् <<यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते>> इत्यनया परिभाषया आगमरूपेण विहितः धकारः पदान्तत्वं स्वीकुर्यात् (अत्र 'पदस्य' इति अधिकारः विद्यते, अतः पदान्तडकारस्य विहितः आगमः डकारस्य पदान्तत्वम् अपि गृह्णाति इत्याशयः), येन अपदान्तडकारात् परस्य धकारस्य अनिष्टम् ष्टुत्वम् आपद्येत, येन धकारस्य अनिष्टम् ढत्वं प्रसज्येत । तत् तथा मा भूत् इति हेतुना अत्र धकारः परस्य (सकारस्य) अवयवरूपेण स्थाप्यते, येन सः सकारस्य आद्यवयवरूपेण कार्यं करोति, न हि डकारस्य अन्त्यावयवरूपेण ।
Balamanorama
Up
<<डः सि धुट्>> - ङः सि धुट् । 'ड' इति पञ्चमी । ततश्च तस्मादित्युत्तरस्येति परिभाषयासी॑ति सप्तमी षष्ठी सम्पद्यते-डात्परस्य सस्येति ।हे मपरे वे॑त्यतो वेत्यनुवर्तते । तदाह — डात्परस्येत्यादिना ।तस्मिन्निति निर्दिष्टे॑ इति नेह भवति,उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् परत्वा॑दिति न्यायात् । धुट् चतुर्थधकारनिर्देशः । टकार इत् । उकार उच्चारणार्थः । थुडिति द्वितीयविधौ तत्सामर्थ्याच्चत्वं न स्यात् । अन्यथा तकारमेव विदध्यात् । चतुर्थविधेस्तु न तत्सामर्थ्यम्, प्रथमविधौ तस्य चयो द्वितीया इत्यापत्तौ तन्निवृत्त्या चरितार्थत्वात् । षट् सन्त इति । षषिति षकारस्य जश्त्वेन डः, षड्-सन्त इति स्थिते चर्त्वस्यासिद्धत्वाड्डात्परत्वात्सस्य धुट् आद्यवयवः । तस्य चर्त्वेन तकारः । 'चयो द्वितीया' इति तु नेह, चर्त्वस्यासिद्धत्वात् । ततो लक्ष्यभेदाड्डस्य चर्त्वेन टः ।
Padamanjari
Up
ठुभयनिर्देशे पञ्चमीनिर्देशो बलीयान्ऽ इति'डः' इति पञ्चम्या सीति सप्तम्याः षष्ठी प्रकल्प्यत इति मत्वाऽऽह - डकारान्तादिति । सप्तमीनिर्देशस्तु लाघवार्थः । उदाहरणेषु धुटि कृते चर्त्वम् -तकारः, तस्य पूर्ववत्पक्षे थकारः । अथ किमर्थं धुट् परादिः क्रियते - न धुगेव पूर्वान्तः क्रियेत, एवं हि'शितुक्' इत्यत्र तुग्ग्रहणं न कर्तव्यं भवति, एष धुक् तत्रानुवर्तिष्यते ? अत आह - परादिकरणमिति । प्रक्रियालाघवार्थं तुडिति वक्तव्ये धुड्ग्रहणमुतरार्थम् -'नश्च' इति धुड।ल्थास्यात्, तुण्मा भौउत् । किञ्च स्यात्, भवान्त्साय इत्यत्र'नश्च्छव्यप्रशान्' इति रुत्वं प्रसज्येत ? नैतदस्ति; अम्पर इति तत्रानुवर्तते । किञ्च - तुटोऽसिद्धत्वादपि रोरप्रसङ्गः । तस्मातुडेव वक्तव्यः ॥