औतोऽम्शसोः

6-1-93 आ औत् अम्शसोः संहितायाम् अचि एकः पूर्वपरयोः आद् उपसर्गात् धातौ

Sampurna sutra

Up

index: 6.1.93 sutra: औतोऽम्शसोः


ओतः अम्-शसोः अचि एकः पूर्वपरयोः आ

Neelesh Sanskrit Brief

Up

index: 6.1.93 sutra: औतोऽम्शसोः


ओकारात् अम्/शस्-प्रत्यये परे पूर्वपरयोः एकः आकारादेशः भवति ।

Neelesh English Brief

Up

index: 6.1.93 sutra: औतोऽम्शसोः


When an ओकार is followed by the अम्-प्रत्यय or the शस्-प्रत्यय, both the letters are replaced by single आकार.

Kashika

Up

index: 6.1.93 sutra: औतोऽम्शसोः


ओतः अमि शसि च परतः पूर्वपरयोः आकारः आदेशो भवति। गां पश्य। गाः पश्य। द्यां पश्य। द्याः पश्य। द्योशब्दोऽपि ओकारान्त एव विद्यते, ततोऽपि परं सर्वनामस्थानं णितिष्यते, तेन नाप्राप्तायां वृद्धौ अयमाकारो विधीयमानस्तां बाधते। अम् इति द्वितीयैकवचनं गृह्यते, शसा साहचर्यात्, सुपि इति चाधिकारात्। तेन अचिनवम्, असुनवम् इत्यत्र न भवति।

Siddhanta Kaumudi

Up

index: 6.1.93 sutra: औतोऽम्शसोः


आ ओत इति छेदः । ओकारादम्शसोरचि परे आकार एकादेशः स्यात् । शसा साहचर्यात्सुबेव अम् गृह्यते । नेह । अचिनवम् । असुनवम् । गाम् । गावौ । गाः । गवा । गवे । गोः । गोः । इत्यादि ॥<!ओतो णिदिति वाच्यम् !> (वार्तिकम्) ॥ विहितविशेषणं च । तेन सुद्यौः । सुद्यावौ । सुद्यावः इत्यादि । ओकारान्ताद्विहितं सर्वनामस्थानमिति व्याख्यानान्नेह । हे भानो । हे भानवः । उः शम्भुः स्मृतो येन सः स्मृतौः । स्मृतावौ । स्मृतावः । स्मृताम् । स्मृतावौ । स्मृताः । इत्यादि । इत्योदन्ताः ॥

Laghu Siddhanta Kaumudi

Up

index: 6.1.93 sutra: औतोऽम्शसोः


ओतोऽम्शसोरचि आकार एकादेशः। गाम्। गावौ। गाः। गवा। गवे। गोः। इत्यादि॥

Neelesh Sanskrit Detailed

Up

index: 6.1.93 sutra: औतोऽम्शसोः


ओकारान्तशब्दात् पर: द्वितीया-एकवचनस्य अम्-प्रत्ययः / द्वितीयाबहुवचनस्य शस्-प्रत्ययः विधीयते चेत् पूर्वपरवर्णयोः एकः आकारादेशः भवति ।

अम्-प्रत्ययस्य / शस्-प्रत्ययस्य आदौ अकारः एव विद्यते, अतः अत्र ओ + अ → आ इति भवति इत्याशयः ।

अस्य सूत्रस्य प्रयोगः ओकारान्तशब्दानाम् रूपसिद्धौ एव भवति, नान्यत्र । उदाहरणे एते —

  1. गो-शब्दस्य द्वितीयैकवचनस्य अम्-प्रत्यये परे 'गाम्' इति रूपं इत्थं सिद्ध्यति —

गो + अम् [द्वितीयैकवचनस्य प्रत्ययः]

→ गाम् [औतोऽम्शसोः 6.1.93 इत्यनेन ओकार-अकारयोः एकादेशः आकारः । अत्र वस्तुतः गोतो णित् 7.1.90 इत्यनेन 'अम्' इति णिद्भावं प्राप्नोति, अतः णित्-प्रत्यये परे अचो ञ्णिति 7.2.115 इति सूत्रेण अत्र अङ्गस्य वृद्धिः प्राप्नोति । एतां वृद्धिं बाधित्वा अत्र सूत्रनिर्माणसामर्थ्यात् औतोऽम्शसोः 6.1.93 इत्यनेन ओकार-अकारयोः एकादेशः आकारः विधीयते ।]

शस्-प्रत्ययस्य साहचर्यात् 'अम्' इत्यनेन द्वितीयैकवचनस्य अम्-प्रत्ययः एव गृह्यते, न हि लङ्-लकारस्य अम्-प्रत्ययः ।

  1. द्यो-शब्दस्य द्वितीयाबहुवचनस्य शस्-प्रत्यये परे 'द्याः' इति रूपं इत्थं सिद्ध्यति —

द्यो + शस् [द्वितीयैकवचनस्य प्रत्ययः]

→ द्यो + अस् [शकारस्य लशक्वतद्धिते 1.3.8 इति इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः]

→ द्यास् [औतोऽम्शसोः 6.1.93 इत्यनेन ओकार-अकारयोः एकादेशः आकारः ]

→ द्याः [ससजुषो रुः 8.2.66 इति रुत्वम्, खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

Balamanorama

Up

index: 6.1.93 sutra: औतोऽम्शसोः


ओतोऽम्शसोः - औतोऽम्शसोः । छेद इति । आ-ओत इति च्छेदः, व्याख्यानादिति भावः । 'ओत' इति तपरकरणम् । ओकारादित्यर्थः । अम्च शश्च अम्शसौ, तयोरिति विग्रहः । अवयवषष्ठन्तमेतत् ।इको यणची॑त्यतोऽचीत्यनुवर्तते । 'एकः पूर्वपरयोः' इत्यधिकृतम् । तदाह — ओकारादित्यादिना । शस इह सुबेव गृह्रते ननु बह्वल्पार्थादिति तद्धितः शंस्, अचीत्यनुवृत्तेः, तद्धितस्य च शसोऽजादित्वाऽसंभवात्, 'लशक्वतद्धिते' इत्यत्र तद्धितपर्युदासात् । ननु 'चिञ् चयने' लङ्, अडागमः, उत्तमपुरुषो मिप् ।तस्थस्थमिपा॑मिति तस्य अमादेशः । श्नुर्विकरणः ।सार्वधातुकार्घधातुकयोः॑ इति गुण ओकारः । अचिनो इति स्थितेऽवादेशे अचिनवमिति रूपम् । तत्र अचिनो अम् इति स्थिते अवादेशं बाधित्वा 'औतोऽम्शसोः' इत्यात्वे 'अचिताम्' इति स्यादित्यत आह — शसेति । गामिति । परापिअञ्चोणिती॑ति वृद्धिरिह न भवति, आत्वस्य निरवकाशतया तदपवादत्वादिति भाष्यम् । नहि वृद्धिविषयादन्यत्राऽऽत्वस्य प्रवृत्तिरस्तीति तदाशयः । नच द्योशब्दादमि आत्वं सावकाशंगोतोणि॑दिति णित्त्वस्य तत्राऽभावे वृद्धेरप्रसक्तेरिति वाच्यम् । अस्मादेव भाष्यादोतोणिदिति णित्त्वस्य वक्ष्यमाणत्वेन तस्यापि वृद्धिविषयत्वादिति भावः । गा इति । असर्वनामस्थानत्वान्न णिद्वत्त्वम् । नापि वृद्धिः । 'औतोऽम्शसोः' इत्यात्वमिति भावः । टादावच्यावादेशं मत्वाह — गवा गवे इति । गोरिति ।ङसिङसोश्चे॑ति पूर्वरूपमिति भावः । इत्यादीति । गवोः गवाम् । गवि इत्यादिशब्दार्थः । द्योशब्दओकारान्तः स्त्रीलिङ्गः ।सुरलोको द्योदिवौ द्वे स्त्रिया॑मित्यमरः । सु=शोभना द्यौर्यस्येति बहुव्रीहौ पुंलिङ्गः । सुद्योस् इत्यादिसर्वनामस्थानेगोतो णि॑दित्यप्राप्ते ।ओतो णिदिति वाच्यं । गोत इति गकारमपनीय 'ओतो णित्' इति वाच्यमित्यर्थः । तत्र प्रमाणमनुपदमेवोक्तम् । नत्विदं वार्तिकम् । तत्र ओत इति तपरकरणम् । ओकारात् सर्वनामस्थानं णिदिति लभ्यते ।विहितेति । ओकारद्विहितं सर्वनामस्थानमित्येवमोत इत्येतद्विहिताविशेषणमाश्रयणीयमित्यर्थः । तेनेति । गोत इति गकारमपनीय ओत इति वचनेनेत्यर्थः । सुद्यामित्यादीति । गोशब्दवद्रूपाणीति भावः । हे भानो इति ।ओकारात्परं सर्वनामस्थानं णि॑दिति व्याख्याने तु भानुशब्दात्सम्बुद्धौ 'ह्रस्वस्य गुणः' इति गुणे ओकारे सति सोरोकारात् परत्वाण्णिद्वत्त्वे वृद्धौ औकारे एङः परत्वाऽभावात्सुलोपाऽभावे रुत्वविसर्गयोः हेभानौ॑रिति स्यात् । अतो विहितविशेषणमित्यर्थः । ननुएह्ह्रस्वात्सम्बुद्धेः॑ इत्यत्र-एङ्ग्रहणसामर्थ्यादेव हे भानो इत्यत्र णित्त्वं तत्प्रयुक्तवृद्धिश्च न भवति । अन्यथा 'एङ्ह्रस्वात्' इत्येव ब्राऊयात् । अतो विहितविशेषणमनर्थकमित्यस्वारस्यादाह — हे भानव इति । तत्रजसि चे॑ति गुणे भानो अस् इति स्थिते ओतः परत्वाणिद्वत्त्वे वृद्धौ आवादेशे 'भानावः' इति स्यात् । अतो विहितविशेषणमिति भावः । वस्तुतस्तु लक्षणप्रतिपदोक्तपरिभाषया हे भानो हे भानव इत्यत्र णिद्वत्त्वाऽभावोपपत्तेर्विहितविशेषणत्वाश्रयणं व्यर्थमेव । उः शम्भुरिति । उरित्यस्य विवरणं शम्भुरिति । उः स्मृतो येनेति विग्रहे बहुव्रीहिः ।निष्ठ॑ति स्मृतशब्दस्य पूर्वनिपातः ।आद्गुणः॑ । स्मृतो इति रूपम् । ततः सुबुत्पत्तौ गोशब्दवद्रूपाणि । वस्तुतस्तुगोतो णि॑दिति सूत्रशेषतयाद्योश्च वृद्धिवक्तव्ये॑त्येव वार्तिकं भाष्ये दृश्यते । 'औतोऽम्शसोः' इत्यत्र ओतो णिदिति तु न दृश्यते । अतोऽन्यदोकारान्तं प्रातिपदिकं नास्तीत्याहुः । इत्योदन्ताः । अथैदन्ताः । रैशब्दो धनवाची । 'अर्थरैविभवा अपि' इत्यमरः ।

Padamanjari

Up

index: 6.1.93 sutra: औतोऽम्शसोः


गां पश्येति। ननु चात्र'गोतो णित्' इति णित्वे सति परत्वा द्वद्धौ कृतायामोकाराभावादात्वेन न भाव्यम्, आत्वविधानं तु द्योशब्दार्थं स्यात्, न हि तत्र णित्वमस्ति,'गोतः' इति वचनादित्यत आह-द्योशब्दोऽपीत्यादि। सत्यं यदि णित्वं न स्यात्, अस्ति तु तत्रापि णित्वम्,'गोतः' इत्यस्यौकारान्तोपलक्षणत्वात्, वर्णनिर्द्देशेषु तपरत्वप्रसिद्धेः। ततः किम्? इत्याह -तेनेति। शसा साहचर्यादिति। सुप एव हि शशोऽत्र सम्भवः, नान्यस्य;ठचिऽ इत्यधिकारात्। अचितवमसुनवमिति। चिनोतेः, सुनोतेश्च लङ्,'तस्थस्थमिपाण्' इत्यमि कृते विकरणस्य गुणावादेशौ ॥