दधस्तथोश्च

8-2-38 दधः तथोः च पदस्य पूर्वत्र असिद्धम् झलि अन्ते धातोः बशः भष् स्ध्वोः

Sampurna sutra

Up

index: 8.2.38 sutra: दधस्तथोश्च


दधः तथोः झषन्तस्य एकाचः बशः भष् स्वोः तथोः च

Neelesh Sanskrit Brief

Up

index: 8.2.38 sutra: दधस्तथोश्च


धा-धातोः 'दध्' इत्यस्य रूपस्य झषन्तस्य एकाच्-अवयवस्य बश्-वर्णस्य तकारे, थकारे, सकारे, ध्वप्रत्यये च परे भष् भवति ।

Neelesh English Brief

Up

index: 8.2.38 sutra: दधस्तथोश्च


The बश्-letter of the the झषन्त-एकाच्-अवयव present in the 'दध्' form of the verb root 'धा' is converted to a corresponding भष् letter when followed by तकार, थकार, सकार, or the word ध्व.

Kashika

Up

index: 8.2.38 sutra: दधस्तथोश्च


दधः इति दधतिः कृतद्विर्वचनो निर्दिश्यते। तस्य झलन्तस्य बशः स्थाने भषादेशो भवति तकारथकारयोः परतः, चकारात् स्ध्वोश्च परतः। धत्तः। धत्थः। धत्से। धद्ध्वम्। वचनसामर्थ्यादातो लोपस्य स्थानिवद्भावो न भवति। अभ्यासजश्त्वस्य च असिद्धत्वम्। तथोः इति किम्? आनन्तर्यात् स्ध्वोरेव विज्ञायेत। चकारः तयोरनुवृत्त्यर्थः। झषन्तस्य इत्येव, दधाति।

Siddhanta Kaumudi

Up

index: 8.2.38 sutra: दधस्तथोश्च


द्विरुक्तस्य झषन्तस्य धाञो बशो भष् स्यात्तथयोः स्ध्वोश्च परतः । वचनसामर्थ्यादालोपो न स्थानिवदिति वामनमाधवौ । वस्तुतस्तु पूर्वत्रासिद्धीये न स्थानिवत् । धत्तः । दधति । धत्थः । दध्वः । धत्ते । धत्से । धद्ध्वे । धेहि । अधित ॥ अथ त्रयः स्वरितेतः ॥{$ {!1093 णिजिर्!} शौचपोषणयोः$} ॥

Laghu Siddhanta Kaumudi

Up

index: 8.2.38 sutra: दधस्तथोश्च


द्विरुक्तस्य झषन्तस्य धाञो बशो भष् स्यात्तथोः स्ध्वोश्च परतः। धत्तः। दधति। दधासि। धत्थः। धत्थ। धत्ते। दधाते। दधते। धत्से। धद्ध्वे। घ्वसोरेद्धावभ्यास लोपश्च। धेहि। अदधात्, अधत्त। दध्यात्, दधीत। धेयात्, धासीष्ट। अधात्, अधित। अधास्यत्। अधास्यत॥ {$ {! 11 णिजिर् !} शौचपोषणयोः $} ॥ इर इत्संज्ञा वाच्या (वार्त्तिकम्) ॥

Neelesh Sanskrit Detailed

Up

index: 8.2.38 sutra: दधस्तथोश्च


एतत् सूत्रम् 'डुधाञ् (धारणपोषणयोः) अस्य धातोः विषये अस्ति । केषुचन लकारेषु अस्य धातोः द्वित्वं भवति (यथा, लट्लकारे 'दधाति' इति रूपं भवति।) केवलं एतेषु स्थलेषु एव अनेन सूत्रेण धातोः एकाच्-झषन्तस्य यः बश्-वर्णः तस्य तकारे, थकारे, सकारे, ध्वशब्दे च परे भष्-आदेशः भवति । एतत् निर्देष्टुम् एव अस्मिन् सूत्रे 'दधः' इति उक्तमस्ति ।

अत्र अन्यः एकः विशेषः ज्ञातव्यः । धा-धातोः द्वित्वे कृते धकारस्य दकारः अभ्यासे चर्च्च 8.4.54 अनेन सूत्रेण विधीयते । एतत् सूत्रमष्टमाध्यायस्य चतुर्थपादे अस्ति, अतः वस्तुतः दधस्तथोश्च 8.2.38 इत्यस्य कृते एतत् जश्त्वमसिद्धम् स्यात् । परन्तु अस्मिन् सूत्रे 'दधः' इत्येव उक्तमस्ति, अतः 'वचनसामर्थ्यात्' अभ्यासे चर्च्च 8.4.54 एतत् सूत्रम् दधस्तथोश्च 8.2.38 अस्य कृते असिद्धम् नास्ति ।

उदाहरणानि एतानि -

  1. धा-धातोः परस्मैपदस्य लट्-लकारस्य प्रथमपुरुष-द्विवचनस्य रुपसिद्धौ -

धा + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ धा + तस् [तिप्तस्... 3.4.78 इति प्रथमपुरुषद्विवचनस्य तस्-प्रत्ययः]

→ धा + शप् + तस् [कर्तरि शप् 3.1.68 इति औत्सर्गिकं विकरणम् शप् ]

→ धा धा + तस् [जुहोत्यादिभ्यः श्लुः 2.4.75 इति विकरणस्य श्लुः (इत्युक्ते लोपः) । श्लौ 6.1.10 इति धातोः एकाचः अङ्गस्य द्वित्वम्]

→ ध धा तस् [ह्रस्वः 7.4.59 इति अभ्यासस्य ह्रस्वः]

→ ध ध् तस् [श्नाभ्यस्तयोरातः 6.4.112 इति आकारलोपः]

→ द ध् तस् [अभ्यासे चर्च्च 8.4.54 इति अभ्यासस्य जश्त्वम्]

→ धध् तस् [धा-धातोः एकाच्-झषन्त-अवयवः 'दध्', तस्य बश्-वर्णः दकारः । अस्य दकारस्य 'तस्' प्रत्ययस्य तकारे परे दधस्तथोश्च 8.2.38 इत्यनेन धकारः भवति ।]

→ ध त् तः [विसर्गनिर्माणम् ; खरि च 8.4.55 इत्यनेन धकारस्य तकारः]

  1. धा-धातोः परस्मैपदस्य लङ्-लकारस्य मध्यमपुरुष-एकवचनस्य रुपसिद्धौ -

धा + लङ् [अनद्यतने लङ् 3.2.111 इति लङ् ]

→ अट् धा लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

→ अ + धा थास् [तिप्तस्... 3.4.78 इति आत्मनेपदस्य मध्यमपुरुषैकवचनस्य थास्-प्रत्ययः]

→ अ धा शप् थास् [कर्तरि शप् 3.1.68 इति औत्सर्गिकं विकरणम् शप् ]

→ अ धा धा थास् [जुहोत्यादिभ्यः श्लुः 2.4.75 इति विकरणस्य श्लुः (इत्युक्ते लोपः) । श्लौ 6.1.10 इति धातोः एकाचः अङ्गस्य द्वित्वम्]

→ अ ध धा थास् [ह्रस्वः 7.4.59 इति अभ्यासस्य ह्रस्वः]

→ अ ध ध् थास् [श्नाभ्यस्तयोरातः 6.4.112 इति आकारलोपः]

→ अ द ध् थास् [अभ्यासे चर्च्च 8.4.54 इति अभ्यासस्य जश्त्वम्]

→ अ ध ध् थास् [धा-धातोः एकाच्-झषन्त-अवयवः 'दध्', तस्य बश्-वर्णः दकारः । अस्य दकारस्य 'थस्' प्रत्ययस्य थकारे परे दधस्तथोश्च 8.2.38 इत्यनेन धकारः भवति ।]

→ अ ध त् थाः [विसर्गनिर्माणम् ; खरि च 8.4.55 इत्यनेन धकारस्य तकारः]

  1. धा-धातोः आत्मनेपदस्य लोट्-लकारस्य मध्यमपुरुष-एकवचनस्य रूपसिद्धौ -

धा + लोट् [लोट् च 3.3.162 इति लोट्]

→ धा + थास् [तिप्तस्... 3.4.78 इति आत्मनेपदस्य मध्यमपुरुषैकवचनस्य थास्-प्रत्ययः]

→ धा + शप् + थास् [कर्तरि शप् 3.1.68 इति औत्सर्गिकं विकरणम् शप् ]

→ धा धा + थास् [जुहोत्यादिभ्यः श्लुः 2.4.75 इति विकरणस्य श्लुः (इत्युक्ते लोपः) । श्लौ 6.1.10 इति धातोः एकाचः अङ्गस्य द्वित्वम्]

→ ध धा थास् [ह्रस्वः 7.4.59 इति अभ्यासस्य ह्रस्वः]

→ ध ध् थास् [श्नाभ्यस्तयोरातः 6.4.112 इति आकारलोपः]

→ ध ध् से [थासस्से 3.4.80 इति थास्-इत्यस्य से-आदेशः]

→ ध ध् स्व [सवाभ्यां वामौ 3.4.91 इति सकारात् परस्य एकारस्य व्-आदेशः]

→ द ध् स्व [अभ्यासे चर्च्च 8.4.54 इति अभ्यासस्य जश्त्वम्]

→ धध् स्व [धा-धातोः एकाच्-झषन्त-अवयवः 'दध्', तस्य बश्-वर्णः दकारः । अस्य दकारस्य 'सिप्' प्रत्ययस्य सकारे परे दधस्तथोश्च 8.2.38 इत्यनेन धकारः भवति ।]

→ ध त् स्व [खरि च 8.4.55 इत्यनेन धकारस्य तकारः]

→ धत्स्व

  1. धा-धातोः आत्मनेपदस्य लट्-लकारस्य मध्यमपुरुष-बहुवचनस्य रूपसिद्धौ -

धा + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ धा + ध्वम् [तिप्तस्... 3.4.78 इति मध्यमपुरुषबहुवचनस्य ध्वम्-प्रत्ययः]

→ धा + शप् + ध्वम् [कर्तरि शप् 3.1.68 इति औत्सर्गिकं विकरणम् शप् ]

→ धा धा + ध्वम् [जुहोत्यादिभ्यः श्लुः 2.4.75 इति विकरणस्य श्लुः (इत्युक्ते लोपः) । श्लौ 6.1.10 इति धातोः एकाचः अङ्गस्य द्वित्वम्]

→ ध धा ध्वम् [ह्रस्वः 7.4.59 इति अभ्यासस्य ह्रस्वः]

→ ध ध् ध्वम् [श्नाभ्यस्तयोरातः 6.4.112 इति आकारलोपः]

→ ध ध् ध्वे [टित आत्मनेपदानां टेरे 3.4.79 इति टि-संज्ञकस्य एकारादेशः]

→ द ध् ध्वे [अभ्यासे चर्च्च 8.4.54 इति अभ्यासस्य जश्त्वम्]

→ धध् ध्वे [धा-धातोः एकाच्-झषन्त-अवयवः 'दध्', तस्य बश्-वर्णः दकारः । अस्य दकारस्य 'सिप्' प्रत्ययस्य सकारे परे दधस्तथोश्च 8.2.38 इत्यनेन धकारः भवति ।]

→ ध द् ध्वे [झलां जशोऽन्ते 8.2.39 इत्यनेन धकारस्य दकारः]

→ धद्ध्वे

Balamanorama

Up

index: 8.2.38 sutra: दधस्तथोश्च


दधस्तथोश्च - दधस्तथोश्च । धाधातोः कृतद्वित्वस्य दधा इत्यस्य 'दधः' इति षष्ठन्तम् । 'एकाचो बशः' इत्यतो झषन्तस्य बशो भष् इत्यनुवर्तते । त थ् अनयोद्र्वन्द्वात् सप्तमीद्विवचनम् । तकारादकार उच्चारणार्थः । तकारथकारयोरिति लभ्यते । चकारात्स्ध्वोरिति समुच्चीयते । सकारे ध्वशब्दे चेति लभ्यते । तदाह — द्विरुक्तस्येत्यादिना । तथा च अभ्यासे दकारस्य धकारः, तकारपरकत्वात् । ननुश्नाभ्यस्तयो॑रित्याल्लोपः । धत्थधत्त इति । धस्य चर्त्वेन त इति भावः । दधतीति ।अदभ्यस्ता॑दित्यदादेशेश्नाभ्यस्तयो॑रित्याल्लोपः । धत्थ इति । थकारपरकत्वाद्भष् । धत्थ । दधामि । दध्व इति । परनिमित्ताऽभावान्न भष् । दध्मः । धत्ते इति । दधाते दधते । धत्से इति । सकारपरकत्वाद्भषिति भावः । दधाथे । धद्ध्वे इति । दध् ध्वे इति स्थिते ध्वशब्दपरकत्वाद्भषिति भावः । दधे दध्वहे दध्महे । दधौ । दधे । धाता । धास्यति धास्यते । दधातु — धत्तात् दधतु । धेहीति ।ध्वसो॑रित्येत्त्वाभ्यासलोपाविति बावः । धत्तात् धत्तम् धत्त । दधानि दधाव दधाम । धत्ताम् दधाताम् दधताम् । धत्स्व दधाथाम् धद्ध्वम् । दधै दधावहै दधामहै । अदधात् अदधात् अधत्त । दध्यात् दधीत । धेयात् धासीष्ट । अधात् । अधितेति ।स्थाध्वोरिच्चे॑ति इत्त्व#एह्रस्वादङ्गा॑दिति सिचो लोप इति भावः । अधास्यत् अधास्यत । णिजिर्धातुः । अनिडयं णोपदेशः । इरित् । इकारस्य प्रत्येकमित्त्वाऽभावान्न नुम् । इकारस्य स्वरितत्वप्रतिज्ञाबलादात्मगे फले आत्मनेपदं भवत्येव । तस्मादयमप्युभयुपदी । एवं विजिरपि ज्ञेयः । निजां त्रयाणाम् । निजां त्रयाणाम् । निजामिति बहुवचनात्तदादीनां ग्रहणम् । 'अत्र लोपः' इत्यतोऽभ्यासस्येत्यनुवर्तते । तदाह — णिजिरित्यादिना । नेनेक्तीति । श्लौ द्वित्वे हलादिशेषे उत्तरखण्डस्य तिपमाश्रित्य गुणे पूर्वखण्डस्यानेन गुणे चोः कुत्वमिति भावः । अभ्यस्तत्वाददादेशं मत्वा आह — नेनिजतीति । नेनेक्षि नेनिक्थः नेनिक्थ । नेनेज्मि नेनिज्मः । नेनिक्ते नेनिजाते नेनिजते । नेनिक्षे नेनिजाथे नेनिध्वे । नेनिजे नेनिजवहे नेनिज्महे । निनेज निनिजतुः निनिजुः । निनेजिथ निनिजथुः निनिज । निनेज निनिजिव निनिजिम । निनिजे निनिजाते निनिजिरे । निनिजिषे निनिजाथे निनिजिध्वे । निनिजे निनिजिवहे निनिजिमहे । नेक्ता । नेक्ष्यति । नेनेक्तु नेनिक्तात् नेनिक्ताम् नेनिजतु । नेनिग्धीति । अपित्त्वेन ङित्त्वान्न गुणः । हेर्धिः । नेनिक्तात् नेनिक्तम् नेनिक्त । 'आडुत्तमस्य' इति पित्त्वेन अङित्त्वाल्लघूपधगुमे प्राप्ते

Padamanjari

Up

index: 8.2.38 sutra: दधस्तथोश्च


दधातिर्निर्दिश्यत इति ।'दध धारणे' इत्यस्य ग्रहणं न भवति; शपा तयोर्व्यवायात् । ननु यङ्लुकि व्यवायो नास्ति, ततश्च तस्यैव ग्रहणप्रसङ्गः, एवं च वर्चनसामर्थ्यादिति वक्ष्यमाणं नाश्रयितव्यं भवति ? तस्माद्व्याख्यानमेवात्र शरणम् । वचनसामर्थ्यादिति । न हि दधातिराकारलोपेन विना झषन्तो भवति । एतच्च'पूर्वत्रासिद्धे न स्थानिवत्' इत्यनाश्रित्योक्तम् । अभ्यासजश्त्वस्य चासिद्दत्वमिति । वचनसामर्थ्यान्न भवतीत्यपेक्षते । न ह्यभ्यासस्य जश्त्वेन विना दधातेर्बश् क्वचित् सम्भवति । तथोरिति किमिति ।'झलि' इति वर्तते,'झषन्तस्य' इति च; न च तकारथकाराभ्यामन्यो दधो झलस्ति, स्ध्वोस्तावदिष्टमेव । तस्मातथोरिति न वक्तव्यम् । एवं च कृत्वा चकारोऽपि न कर्तव्यः, सर्वत्र झलीत्येव सिद्धमिति प्रश्नः । आनन्तर्यादिति । ननु च स्ध्वोः पूर्वेणेव सिद्धम् ? न सिध्यति; आल्लोपस्यस्थानिवद्भावे सति अझषन्तत्वात् । ननु च पूर्वत्रासिद्धे नास्ति स्थानिवद्भावः ? एवमप्यभ्यासजश्त्वस्यासिद्धत्वान्न सिध्यति । यदि तु ठभ्यासजश्त्वचर्त्वमेत्वतुकोः सिद्धं वक्तव्यम्ऽ इत्यत्र एत्वतुकोरित्यपनीयाविशेषेण सिद्धत्वमुच्येत, फलिभजिग्रहणं वा सामान्येन ज्ञापकमाश्रीयेत, न त्वेत्वविषयमेव; ततः'तथोश्च' इति शक्यमकर्तुम् । कथम् ? स्ध्वोः पूर्वेणैव सिद्धम्, इदं तु व्यतिरिक्ते झलि यथा स्यादित्येवमर्थं भविष्यति ॥