श्नाऽभ्यस्तयोरातः

6-4-112 श्नाभ्यस्तयोः आतः असिद्धवत् अत्र आभात् क्ङिति सार्वधातुके लोपः

Sampurna sutra

Up

श्ना-अभ्यस्तयोः अङ्गस्य आतः सार्वधातुके क्ङिति लोपः

Neelesh Sanskrit Brief

Up

श्ना-विकरणस्य तथा अभ्यस्तस्य आकारस्य सार्वधातुके कित्-प्रत्यये ङित्-प्रत्यये च परे लोपः भवति ।

Neelesh English Brief

Up

The आकार of the विकरण श्ना and also of an अभ्यस्त is removed when followed by a सार्वधातुक कित् and ङित् प्रत्यय.

Kashika

Up

श्ना इत्येतस्याभ्यस्तानां चाङ्गानामाकारस्य लोपो भवति सार्वधातुके क्ङिति परतः। लुनते । लुनताम् ।अलुनत। अभ्यस्तानाम् — मिमते। मिमताम्। अमिमत। संजिहते। संजिहताम्। समजिहत। श्नाभ्यस्तयोरिति किम्? यान्ति। वान्ति। आत इति किम् ? बिभ्रति। क्ङितीत्येव — अलुनात्। अजहात्। आद्ग्रहणं स्पष्टार्थम्॥

Siddhanta Kaumudi

Up

अनयोरातो लोपः स्यात् क्ङिति सार्वधातुके । दरिद्रति । अनेकाच्त्वादाम् । दरिद्रांचकार । आत औ णलः <{SK2371}> इत्यत्र ओ इत्येव सिद्ध औकारविधानं दरिद्रातेरालोपे कृते श्रवाणार्थम् । अत एव ज्ञापकादाम्नेत्येके । ददरिद्रौ । ददरिद्रतुरित्यादि । यत्तु णलि ददरिद्रेति तन्निर्मूलमेव ॥<!दरिद्रातेरार्धधातुके विवक्षित आलोपो वाच्यः !> (वार्तिकम्) ।<!लुङि वा !> (वार्तिकम्) ।<!सनि ण्वलि ल्युटि च न !> (वार्तिकम्) ॥ दरिद्रिता । अदरिद्रात् । अदरिद्रिताम् । अदरिद्रुः । दरिद्रियात् । दरिद्र्यात् । अदिरिद्रीत् । इट्सकौ । अदरिद्रासीत् ।{$ {!1074 चकासृ!} दीप्तौ$} । चकास्ति । झस्य अत् । चकासति । चकासांचकार । धिच <{SK2249}> इति सलोपः सिच एवेत्येके । चकाद्धि । चकाधीत्येव भाष्यम् ॥

Laghu Siddhanta Kaumudi

Up

अनयोरातो लोपः क्ङिति सार्वधातुके। जहति। जहौ। हाता। हास्यति। जहातु, जहितात्, जहीतात्॥

Neelesh Sanskrit Detailed

Up

किम् नाम अभ्यस्तम् ? यदा द्वित्वं क्रियते तदा उभयोः शब्दयोः <<उभे अभ्यस्तम्>> 6.1.5 इत्यनेन अभ्यस्तसंज्ञा भवति । अस्य अभ्यस्तसंज्ञकस्य आकारस्य , तथा क्र्यादिगणस्य 'श्ना' विकरणप्रत्ययस्य आकारस्य सार्वधातुके कित्-प्रत्यये परे ङित्-प्रत्यये परे च लोपः भवति । यथा - 1. क्र्यादिगणस्य डुक्रीञ् (द्रव्यविनिमये) अस्य धातोः लट्लकारस्य प्रथमपुरुषबहुवचनस्य इयम् प्रक्रिया भवति - क्री + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → क्री + झि [<<तिप्तस्...>> 3.4.78 इति झि-प्रत्ययः । <<सार्वधातुकमपित्>> 1.2.4 इति झि-प्रत्ययस्य ङित्-भावः] → क्री + श्ना + झि [<<क्र्यादिभ्यः श्ना>> 3.1.81 इति विकरणम् श्ना] → क्री + ना + अन्ति [<<झोऽन्तः>> 7.1.3 इति अन्तादेशः] → क्री + न् + अन्ति [<<श्नाऽभ्यस्तयोरातः>> 6.4.112 इति श्ना-इत्यस्य आकारस्य लोपः] → क्रीणन्ति [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इति णत्वम्] 2. डुदाञ् (दाने) इत्यस्य लट्लकारस्य प्रथमपुरुषबहुवचनस्य इयम् प्रक्रिया भवति - दा + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → दा + झि [<<तिप्तस्...>> 3.4.78 इति झि-प्रत्ययः । <<सार्वधातुकमपित्>> 1.2.4 इति झि-प्रत्ययस्य ङित्-भावः] → दा + शप् + झि [<<कर्तरि शप्>> 3.1.68 इति शप्] → दा + झि [<<जुहित्यादिभ्यः श्लुः>> 2.4.75 इति विकरणस्य श्लुः (लोपः)] → दा दा + झि [<<श्लौ>> 6.1.10 इति द्वित्वम्] → द दा + झि [<<ह्रस्वः>> 7.4.59 इति अभ्यासस्य ह्रस्वः] → द दा + अति [<<अदभ्यस्तात्>> 7.1.4 इति अत्-आदेशः] → दद् + अति [<<श्नाऽभ्यस्तयोरातः>> 6.4.112 इति आकारस्य लोपः] → ददति । ज्ञातव्यम् - <<जक्षित्यादयः षट्>> 6.1.6 इत्यनेन अदादिगणस्य सप्त-धातूनामपि अभ्यस्तसंज्ञा भवति -जक्षँ, जागृ, दरिद्रा, चकासृ, शासु, दीधीङ्, वेवीङ् । अतः एतेषां विषये अपि अस्य सूत्रस्य प्रसक्तिः अस्ति । यथा, 'दरिद्रा' शब्दस्य लोट्-लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् - दरिद्रा + लोट् [<<लोट् च>> 3.3.162 इति लोट्] → दरिद्रा + झि [<<तिप्तस्झि..>> 3.4.78 इति परस्मैपदस्य प्रथमपुरुषबहुवचनस्य विवक्षायाम् 'झि' प्रत्यय'] → दरिद्रा + शप् +झि [<<कर्तरि शप्>> 3.1.68 इति औत्सर्गिकं विकरणम् शप्] → दरिद्रा + झि [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शपः लुक्] → दरिद्रा + अति [<<जक्षित्यादयः षट्>> 6.1.6 इत्यनेन दरिद्रा-धातोः अभ्यस्तसंज्ञा । अभ्यस्तात् परस्य झ्-प्रत्ययस्य <<अदभ्यस्तात्>> 7.1.4 इति 'अत्' आदेशः] → दरिद्रा + अतु [<<एरुः>> 3.4.86 इति इकारस्य उकारः] → दरिद्र् + अतु [<<श्नाऽभ्यस्तयोरातः>> 6.4.112 इति सार्वधातुके ङित्-प्रत्यये परे अभ्यस्तस्य आकारस्य लोपः] → दरिद्रतु

Balamanorama

Up

<<श्नाऽभ्यस्तयोरातः>> - श्नभ्यस्तयोरातः ।गमहने॑त्यतो लोपः क्ङितीत्यनुवर्तते ।अत उ॑दित्यतः सार्वधातुके इति । तदाह — अनयोरिति । स्नाप्रत्ययस्य, अभ्यस्तस्य चेत्यर्थः । दरिद्रतीति । जक्षित्यादित्वादभ्यस्तत्वात्अदभ्यास्ता॑दिति झस्य अदादेशे आकारलोपः । दरिद्रासि दरिद्रिथः । दरिद्रिथ । दरिद्रामि दरिद्रिवः दरिद्रिमः । लिटआह — अनेकाच्त्वादामिति । इदं चकास्प्रत्यया॑दिति सूत्रभाष्ये स्पष्टम् । दरिद्रांचकारेति । आमि सवर्णदीर्घः । कैयटमतमाह — आत इति । 'आत औ णलःर' इत्त्र प्रथमातिक्रमे कारणाऽभावादोकार एव विधातुमुचितः । वृद्धौ स्तयां तावतैव ययौ इत्यादिसिद्धेः । तस्मादौकराविधानं दरिद्राधातोर्णलिदरिद्रातेरार्धधातुके लोपो वक्तव्यः॑ इत्याल्लोपे 'ददरिद्रौ' इत्यौकारश्रवणार्थं संपद्यते । ओकारविधाने तु आल्लोपे सति वृद्धेसंभवाद्दरिद्रातेर्लिटि आम्नेति विज्ञायते । आमि सति णल एवाऽप्रसक्तेरित्यर्थः । इदं चवस्वेकाजाद्धसा॑मिति सूत्रभाष्ये द्वनितं, कैयटेन स्पष्टीकृतम् । तन्निर्मूलमेवेति । ददरिद्र । ददरिद्रौ ददरिद्रिव ददरिद्रिम । आर्धधातुके विवक्षिते इति ।आतो लोप इटि॑चे त्याल्लोपो दरिद्रातेर्भवन् क्ङिति अक्ङिति च अजादावाद्र्धातुके भवति । स च आर्धधातुके विवक्षिते ततः प्रागेव भवतीति वक्तव्यमित्यर्थः । तेन दरिद्रातीति दरिद्रः । आल्लोपे कृते पचाद्यच् सिध्यति । आर्धधातुके परे आल्लोपप्रवृत्तौ तुश्याद्वद्यधे॑त्यादन्तलक्षमो णप्रत्ययः स्यात् । ततश्च कृते णप्रत्यये आल्लोपं बाधित्वाआतो युक् चिण्कृतोरिति युकि 'दरिद्राय' इति स्यात् । आर्धधातुके विवक्षिते ततः प्रागेव आल्लोपे तु कृते आदन्तत्वाऽभावाण्णप्रत्ययाऽभावे पचाद्यच्प्रत्ययो निर्बाधः । तदिदं भाष्ये स्पष्टम् । लुङि वेति । लुङि आल्लोपो वा वक्तव्य इत्यर्थः ।अद्यतन्यां वेति वक्तव्य॑मिति वार्तिकार्थसङ्ग्रहोऽयम् । अद्यतन्यामित्यनेन अद्यतनभूतार्थकविहितलुङ्विभक्तिर्विवक्षिता, भाष्ये तस्या एवोदाहरमात् । सनि ण्वुलि ल्युटि च नेति । एतेषु दरिद्रातेराल्लोपो नेति वक्तव्यमित्यर्थः । ण्वुलि यथा — दरिद्रायकः । आतो युक् । ल्युटि यथा — दरिद्राणः । अनादेशे कृते आल्लोपाऽभावात्सवर्णदीर्घः । सनि यथा — दिदरिद्रासति । अनन्तरस्येति न्यायादस्य वार्तिकप्राप्तस्यैव लोपस्याऽयं निषेधः । तेनतनिपतिदरिद्राणानुपसङ्ख्यान॑मिति दरिद्रातेः सन इट्पक्षेआतो लोप इटि चे॑त्याल्लोपो भवत्येव - दिदरिद्रिषति । तासि इटि उदाहृतव#आर्तिकेन आल्लोपः । 'आतो लोप इटिचे' त्यस्य संभवेऽपि न्यायत्वादत्र वार्तिकोपन्यासः । दरिद्रिष्यति । दरिद्रातु — दरिद्रितात् दरिद्रिताम् दरिद्रतु । दरिद्रितम् दरिद्रित । दरिद्राणि दरिद्राव दरिद्राम । लडआह - अदरिद्रादिति । इत्त्वं मत्वा आह — अदरिद्रितामिति । अदरिद्रुरिति । जक्षित्यादित्वेन अभ्यस्तत्वाज्जुसिति भावः । अदरिद्राः अदरिद्रितमदरिद्रित ।अदरिद्रामदरिद्रव अदरिद्रिम । दरिद्रियादिति । विधिलिङि सार्वधातुकत्वादित्त्वमिति भावः । आशीर्लङ्याह — दरिद्रआदिति । आतो लोप इति भावः । लुङि आतो लोपपक्षे आह — अदरिद्रीदिति । अदरिद्रिष्टामित्यादि । आल्लोपाऽभावपक्षे त्वाह — इट्सकाविति । अदरिद्रिष्यत् । चकासृ दीप्ताविति । ऋदित् । सेट् । चकास्ति चकास्त इतिसिद्धवत्कृत्याह — झस्य अदिति । जक्षित्यादित्वेन अभ्यस्तत्वादिति भावः । चकासतीति । चकास्सि चकास्थः चकास्थ । चकास्मि चकास्वः चकास्मः । चकासांचकारेति । अनेकाच्त्वादामिति भावः । चकासिता.चकासिष्यति । चकास्तु [चकास्तात्] चिकास्ताम् चकासतु । हेर्धिभावे चकास् धि इति स्थितेधिचे॑ति सलोप इति सिद्धन्तः । तत्र मतान्तरमाह -सिच एवेत्येके इति ।धिचे॑ति लोपः सिच एवेत्येके मन्यन्ते इत्यर्थः ।धिसकारे सिचो लोपश्चकाद्धीति प्रयोजन॑मिति वार्तिकादिति तदाशयः । अस्मिन्पक्षे सकारस्य जश्त्वेन दकारः । तदाह — चकाद्धीति । 'एके' इत्यस्वरसोद्भावनम् ।तद्बीजं तुधिसकारे सिचो लोपः इति वार्तिकं प्रत्याख्याय सकारमात्रस्य 'धि चे' ति लोपस्याभ्युपगमः ।तदाह — चकाधीत्येव भाष्यमिति । चकास्तात् चटकास्तम् चकास्त । चकासानि चकासाव चकासाम । लङि अ चकास् त् इति स्थिते —

Padamanjari

Up

लुनत इति । लट्, आत्मनेपदेष्पनतः इति झस्यादादेशः । लुनतामिति । लोटि आमेतः । अलुनतेति । लङ् । मिमते इत्यादौ भृञामित् इतीत्वम् । यान्ति, वान्तीति । असति हि श्नाभ्यस्तग्रहणे अतो गुणे इत्यत्र तपरकरण्सय यानमित्यादावक्ङिति चारितार्थत्वादिह लोप एव स्यादिति भावः । अलुनादिति । अतरसूत्रे क्ङ्तीत्यिस्य सम्बन्धः स्थित एवेति नायमीत्वस्य विषयः । इकहाकारणाभ्यस्तविषेषणादाकारान्तस्य लोपो जाग्रतीत्यत्र न भवति । तत्र निर्द्दिश्यमानस्यादेशाः इति वा अलोऽन्त्यस्य इति वा आकारस्यैव लोप इत्यादि मत्वा व्याख्यातम् - श्न इत्येतस्याभ्यस्तानां चाकारस्यैति । आकारान्तानाम् इति तु व्याख्येयम् । अत्रापि आ सार्वधातुक एव सम्भवति । एवमभ्यस्तमप्याकारान्तम् । ववतुरित्यादौ भवत्येव लोपः ॥