6-3-90 इदंकिमोः ईश्की उत्तरपदे दृग्ददृशवतुषु
index: 6.3.90 sutra: इदङ्किमोरीश्की
इदं किम् इत्येतयोरीश् की इत्येतौ यथासङ्ख्यमादेशौ भवतो दृग्दृशवतुषु। ईदृक्। ईदृशः। इयान्। कीदृक्। कीदृशः। कियान्। किमिदंभ्यां वो घः 5.2.40 इति वतुप्। दृक्षे चेति वक्तव्यम्। ईदृक्षः। कीदृक्षः।
index: 6.3.90 sutra: इदङ्किमोरीश्की
दृग्दृशवतुषु इदम् ईश् किमः की स्यात् । ईदृक् । ईदृशः । कीदृक् । कीदृशः । वतूदाहरणं वक्ष्यते । दृक्षे च ॥ ईदृक्षः । कीदृक्षः । आ सर्वनाम्नः <{SK430}> । दृक्षे च ॥ तादृक् । तदृशः । तावान् । तादृक्षः । दीर्घः । मत्वोत्वे । अमूदृक् । अमूदृशः । अमूदृक्षः ॥
index: 6.3.90 sutra: इदङ्किमोरीश्की
दृग्दृशवतुषु इदम ईश् किमः किः। कियान्। इयान्॥
index: 6.3.90 sutra: इदङ्किमोरीश्की
इदङ्किमोरीश्की - इदंकिमोरीश्की । 'ईश्'की॑ति द्वे पदे । ईदृक् ईदृश इति । 'इदमिव दृश्यते' इत्यर्थे त्यदादिषु दृशेः क्विन्कञौ । ईशः शित्त्वं सर्वादेशत्वाय । वक्ष्यत इति । तद्धितप्रकरणे इयानित्युदाहरणं वक्ष्यत इत्यर्थः । दृक्षे चेति । इदंकिमोरीश्की वक्तव्यौ॑ इति शेषः ।आ सर्वनाम्न इति । 'आ' इति लुप्तप्रथमाकम् । तादृक् तादृश इति । तदिव दृश्यत इत्यर्थे 'त्यदादिषु दृशः' इति क्विन्कञौ । तदो दकारस्य आत्वे सवर्णदीर्घः । तावानिति । तत्परिमाणमस्येति विग्रहे यत्तदेतेभ्य॑ इतिं वतुप् । तादृक्ष इति । तदिव दृश्यते इति विग्रहः । अमूदृगित्यत्र प्रक्रियां दर्शयति — दीर्घ इति । अदस आत्त्वे कृते सवर्णदीर्घः । तत ऊत्त्वमत्वे इत्यर्थः ।अः से॑रिति व्याख्यानेऽपि अकारेम आकारस्यापि ग्रहणादूत्त्वमत्वे ।
index: 6.3.90 sutra: इदङ्किमोरीश्की
इयान्कियानिति । घस्येयादेशे कृते यस्येति च इतीकारलोपः । किमिदम्म्यां वो घ इति वतुबीति । नासतो वतुपो वकारस्य घकारः शक्यो विधातुमिति वतुपोऽप्यनेनैव विधानमिति भावः ॥