स्त्रियाः

6-4-79 स्त्रियाः असिद्धवत् अत्र आभात् अचि इयङ्

Sampurna sutra

Up

स्त्रियाः अङ्गस्य अचि इयङ्

Neelesh Sanskrit Brief

Up

'स्त्री' शब्दस्य अजादिप्रत्यये परे इयङ्-आदेशः भवति ।

Neelesh English Brief

Up

The word 'स्त्री' gets an इयङ्-आदेश when followed by an अजादि प्रत्यय.

Kashika

Up

स्त्री इत्येतस्याजादौ प्रत्यये परत इयङादेशो भवति। स्त्री, स्त्रियौ, स्त्रियः। स्त्रीणामित्यत्र परत्वाद् नुडागमः। पृथग्योगकरणमुत्तरार्थम्॥

Siddhanta Kaumudi

Up

स्त्रीशब्दस्येयङ् स्यादजादौ प्रत्यये परे । स्त्रियौ । स्त्रियः ॥

Laghu Siddhanta Kaumudi

Up

अस्येयङ् स्यादजादौ प्रत्यये परे। स्त्रियौ। स्त्रियः॥

Neelesh Sanskrit Detailed

Up

'स्त्री' अयम् दीर्घ-ईकारान्तशब्दः । अस्य शब्दस्य अजादि प्रत्यये परे 'इयङ्' आदेशः भवति । <<अलोऽन्त्यस्य>> 1.1.52 इत्यनेन स्त्री-शब्दस्य अन्तिम-ईकारस्य अयमादेशः भवति । यथा - 1. स्त्री + औ/औट् [प्रथमा/द्वितीया-द्विवचनस्य प्रत्ययः] → स्त्र् इयङ् + औ [<<स्त्रियाः>> 6.4.79 इति इयङ्-आदेशः] → स्त्र् इय् औ [ङकारस्य इत्संज्ञा, अकारः उच्चारणार्थः । तयोः लोपः] → स्त्रियौ 2. स्त्री + टा [तृतीयैकवचनस्य प्रत्ययः] → स्त्र् + इयङ् + आ [<<स्त्रियाः>> 6.4.79 इति इयङ्-आदेशः] → स्त्रिया ज्ञातव्यम् - षष्ठी-बहुवचनस्य आम्-प्रत्यये परे <<ह्रस्वनद्यापो नुट्>> 7.1.54 इत्यनेन नुडागमे कृते 'नाम्' प्रत्ययः सिद्ध्यति । अयं प्रत्ययः अजादिः नास्ति, अतः अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।

Balamanorama

Up

<<स्त्रियाः>> - स्त्रियाः । अचि श्नुधात्वित्यतोऽचीति इयङिति चानुवर्तते । तदाह — स्त्रीशब्दस्येत्यादिना । स्त्रियौ स्त्रिय इति । औजसोः रूपम् । अमि शसि च स्त्रियां स्त्रिय इति नित्यमियङि प्राप्ते ।

Padamanjari

Up

स्त्री इत्येतस्येति । स्त्रीप्रत्ययान्तानं स्त्र्यर्थवॄतर्वा शब्दस्य ग्रहणं न भवति आण्नद्या, कुमार्या वयसि इत्यादिनिर्देशात् । उतरार्थमिति । उतरत्र स्त्रियाः एवानुवृत्तिर्यर्था स्यात्, श्नुधातुभ्रुवां मा भूत् ॥