दीर्घं च

1-4-12 दीर्घं च आ कडारात् एका सञ्ज्ञा गुरु

Sampurna sutra

Up

दीर्घम् गुरु च

Neelesh Sanskrit Brief

Up

दीर्घस्वरः गुरुसंज्ञकः भवति ।

Neelesh English Brief

Up

A दीर्घ स्वर gets the term गुरु.

Kashika

Up

संयोग इति नानुवर्तते। सामान्येन संज्ञाविधानम्। दीर्घं चाक्षरं गुरुसंज्ञं भवति। ईहांचक्रे। ईक्षांचक्रे॥

Siddhanta Kaumudi

Up

दीर्घं च गुरुसंज्ञं स्यात् ॥

Laghu Siddhanta Kaumudi

Up

गुरु स्यात्॥

Neelesh Sanskrit Detailed

Up

व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा गुरु इति संज्ञा अनेन सूत्रेण पाठ्यते । यः स्वरः दीर्घः अस्ति, तस्य गुरु इति संज्ञा भवति — इति अस्य सूत्रस्य आशयः । यथा-

  • 1. देवी इति शब्दे दकारोत्तरः एकारः, वकारोत्तरः ईकारः च गुरुसंज्ञकौ स्तः ।
  • 2. पौत्र इति शब्दे पकारोत्तरः औकारः गुरुसंज्ञकः अस्ति ।
  • 3. भूमि इति शब्दे भकारोत्तरः ऊकारः गुरुसंज्ञकः अस्ति । गुरुसंज्ञायाः प्रयोजनम् गुरुसंज्ञायाः प्रयोगं कृत्या अष्टाध्याय्यां भिन्नाः विधयः पाठिताः वर्तन्ते । द्वे उदाहरणे एतादृशे -
  • 1. यस्मिन् हलन्तधातौ गुरुसंज्ञकः स्वरः विद्यते, तस्मात् स्त्रियाम् <<गुरोश्च हलः>> 3.3.103 इति सूत्रेण इति कृत्प्रत्ययः भवति । यथा ईह् इति धातोः अनेन सूत्रेण -प्रत्यये कृते ईहा इति रूपं सिद्ध्यति । प्रक्रिया इयम् — ईहँ (चेष्टायाम्, भ्वादिः, <{1.719}>) → ईह् + अ + टाप् [अयम् हलन्तः धातुः, तथा च अस्मिन् धातौ विद्यमानः आदिस्थः ईकारः <<दीर्घं च>> 1.4.12 इत्यनेन गुरुसंज्ञकः अस्ति । अतः <<गुरोश्च हलः>> 3.3.103 इति सूत्रेण अस्मात् धातोः -प्रत्ययः भवति । अग्रे स्त्रीत्वं द्योतयितुम् <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्ययः अपि विधीयते ।] → ईहा [<<अकः सवर्णे दीर्घः>> 6.1.101 ]
  • 2. यस्मिन् प्रातिपदिके उपधायाम् यकारः अस्ति, तथा च उपोत्तमः स्वरः (second last स्वर) गुरुसंज्ञकः अस्ति, तस्मात् भावार्थे <<योपधाद्गुरूपोत्तमाद्वुञ् >> 5.1.132 इत्यनेन वुञ् इति प्रत्ययः विधीयते । यथा - रमणीयस्य भावः --> रमणीय + वुञ् [रमणीय इति शब्दे उपधायाम् यकारः अस्ति, तथा च उपोत्तमः स्वरः (ईकारः) गुरुसंज्ञकः अस्ति । अतः अस्मात् प्रातिपदिकात् भावार्थे <<योपधाद्गुरूपोत्तमाद्वुञ् >> 5.1.132 इत्यनेन वुञ् इति प्रत्ययः विधीयते] --> रमणीय + अक [<<युवोरनाकौ>> 7.1.1 इति अक-आदेशः] --> रामणीय + अक [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] --> रामणीय् + अक [<<यस्येति च>> 6.4.148 इति अकारलोपः] --> रामणीयक अष्टाध्याय्यां गुरुसंज्ञायाः प्रयोगः अष्टाध्याय्याम् गुरुसंज्ञायाः साक्षात् प्रयोगः पञ्चसु सूत्रेषु कृतः अस्ति — 1. <<गुरोश्च हलः>> 3.3.103 2. <<इजादेश्च गुरुमतोऽनृच्छः>> 3.1.36 3. <<अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे >> 4.1.78 4. <<योपधाद्गुरूपोत्तमाद्वुञ्>> 5.1.132 5. <<गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् >> 8.2.86 अनुवृत्तिरूपेण अन्येषु अपि सूत्रेषु इयं संज्ञा प्रयुक्ता दृश्यते । ##Balamanorama <<दीर्घं च>> - दीर्घं च । संयोग इति नानुवर्तते । दीर्घमपि गुरुसंज्ञकमित्यर्थः । इति संज्ञाप्रकरणमिति । सन्धिकार्योपयोगिप्रथमाध्यायस्थसंज्ञानिरूपणं समाप्तमित्यर्थः । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां संज्ञाप्रकरणं समाप्तम्॥********************अथ सन्नन्तप्रक्रिया ।अथ सन्प्रक्रिया निरूप्यन्ते । ##Padamanjari