7-2-2 अतः ल्र अन्तस्य सिचि वृद्धिः परस्मैपदेषु
index: 7.2.2 sutra: अतो ल्रान्तस्य
रेफलकारौ यावतः अन्तौ समीपौ तदन्तस्य अङ्गस्य अत एव स्थाने वृद्धिः भवति। क्षर अक्षारीत्। त्सर अत्सारीत्। ज्वल अज्वालीत्। ह्मल अह्मालीत्। अतो हलादेर्लघोः 7.2.7 इति विकल्पस्य अयमपवादः। अतः इति किम्? न्यखोरीत्। न्यमीलीत्। ल्रान्तस्य इति किम्? मा भवानटीत्। मा भवानशीत्। अन्तग्रहणं किम्? अवभ्रीत्। अश्वल्लीत्। अत्र यौ रेफलकारौ अङ्गस्य अन्तौ न तावतः समीपौ।
index: 7.2.2 sutra: अतो ल्रान्तस्य
ल्रेति लुप्तषष्ठीकम् । अतः समीपौ यौ ल्रौ तदन्तस्याङ्गस्यातो वृद्धिः स्यात्परस्मैपदपरे सिचि । नेटि <{SK2268}> इति निषेधस्याअतो हलादेः - <{SK2284}> इति विकल्पस्य चापवादः । मा भवानालीत् । अयं स्वरितेदित्येके । तन्मते, अलते इत्याद्यपि ।{$ {!516 ञिफला!} विशरणे$} । तॄफल - <{SK2301}> इत्येत्वम् । फेलतुः । फेलुः । अफालीत् ।{$ {!517 मील!} {!518 श्मील!} {!519 स्मील!} {!520 क्ष्मील!} निमेषणे$} । निमेषणं संकोचः । द्वितीयस्तालव्यादिः । तृतीयो दन्त्यादिः ।{$ {!521 पील!} प्रतिष्टम्भे $}। प्रतिष्टम्भो रोधनम् ।{$ {!522 णील!} वर्णे$} ।{$ {!523 शील!} समाधौ$} । शीलति ।{$ {!524 कील!} बन्धने {!525 कूल!} आवरणे $}।{$ {!526 शूल!} रुजायां संघोषे च$} ।{$ {!527 तूल!} निष्कर्षे$} । निष्कर्षो निष्कोषणम् । तच्चान्तर्गतस्य बहिर्निः सारणम् । तुतूल ।{$ {!528 पूल!} संघाते$} ।{$ {!529 मूल!} प्रतिष्ठायाम्$} ।{$ {!530 फल!} निष्पत्तौ $}। फेलतुः । फेलुः ।{$ {!531 चुल्ल!} भावकरणे$} । भावकरणमभिप्रायाविष्कारः ।{$ {!532 फुल्ल!} विकसने$} ।{$ {!533 चिल्ल!} शैथिल्ये भावकरणे च$} ।{$ {!534 तिल!} गतौ$} । तेलति । तिल्ल इत्येके । तिल्लति ।{$ {!535 वेलृ!} {!536 चेलृ!} {!537 केलृ!} {!538 खेलृ!} {!539 क्ष्वेलृ!} {!540 वेल्ल!} चलने $}। पञ्च ऋदितः । षष्ठो लोपधः ।{$ {!541 पेलृ!} {!542 फेलृ!} {!543 शेलृ!} गतौ$} । षेलृ इत्येके ।{$ {!544 स्खल!} संचलने$} । चस्काल । अस्खालीत् ।{$ {!545 खल!} संचये$} ।{$ {!546 गल!} अदने$} । गलति । अगालीत् ।{$ {!547 षल!} गतौ$} । सलति ।{$ {!548 दल!} विशरणे$} ।{$ {!549 श्वल!} {!550 श्वल्ल!} आशुगमने$} । शश्वाल । अश्वालीत् । अश्वल्लीत् ।{$ {!551 खोलृ!} {!552 खोर्ऋ!} गतिप्रतिघाते$} । खोलति । खोरति ।{$ {!553 धोर्ऋ!} गतिचातुर्ये$} । धोरति ।{$ {!554 त्सर!} छद्मगतौ$} । तत्सार । अत्सारीत् ।{$ {!555 क्मर!} हूर्च्छने$} । चक्मार ।{$ {!556 अभ्र!} {!557 वभ्र!} {!558 मभ्र!} {!559 चर!} गत्यर्थाः$} । चरतिर्भक्षणेऽपि । अभ्रति । आनभ्र । मा भवानभ्रीत् । अङ्गान्त्यरेफस्यातः समीपत्वाभावान्नवृद्धिः ।{$ {!560 ष्ठिवु!} निरसने $}। ष्ठिवुक्लमु - <{SK2320}>इति दीर्घः । ष्ठीवति । अस्य द्वितीयस्थकारष्ठकारो वेति वृत्तिः । तिष्ठेव । तिष्ठिवतुः । तिष्ठिवुः । टिष्ठेव । टिष्ठिवतुः । टिष्ठिवुः । हलि च <{SK354}> इति दीर्घः । ष्ठीव्यात् ।{$ {!561 जि!} जये$} । अयमजन्तेषु पठितुं युक्तः । जय उत्कर्षप्राप्तिः । अकर्मकोऽयम् । जयति ॥
index: 7.2.2 sutra: अतो ल्रान्तस्य
अतो ल्रान्तस्य - अतो ल्रान्तस्य ।सिचि वृद्धिः परस्मैपदेषु॑ इत्यनुवृत्तम् । अङ्गस्येत्यधिकृतम् । तद्विशेषणत्वात्तदन्तविधिनैव सिद्धेऽन्तग्रहणं व्यर्थम् । तत्राह - ल्रेति लुप्तषष्ठीकमिति । ल्र अन्तस्य इति छेदः । ल् च रश्चेति समाहारद्वन्द्वात्षष्ठएकवचनं लुप्तम् । ल्रस्यान्तस्येति सामानाधिकरण्येनान्वयः । 'अत' इति व्यधिकरणषष्ठन्तम् — अन्तस्येत्यत्रान्वेति । अन्तशब्दः समीपवर्तिवाची । तथा च अतः समीपवर्तिनो ल्रस्येति लभ्यते । ल्रस्येत्यङ्गविशेषणत्वात्तदन्तविधिः । ततश्च अत्समीपवर्तिरेफलकारान्तस्य अङ्गस्य सिचि वृद्धिरिति लभ्यते । 'अत' इत्यावृत्तं वृद्धौ स्थानित्वेनान्वेति तदाह — अतः समीपावित्यादिना । अतः समीप इति किम् । अखोरीत् । अमीलीत् । ल्रान्तस्येति किम् । मा भवनातीति । अतो वृद्धिरुत्युक्ता अतः समीपावित्यनुक्तौ तु अवभ्रीत् अआल्लीदित्यत्रातिपव्याप्तिः । अत्र अङ्गस्यान्तौ रेफलकारौ नातः समीपाविति न वृद्धिः । न चात्र अतो भकारेण लकारेण च व्यवहितत्वादेव न वृद्धिः, आलीदित्यादौ एकव्यवधाने चरितार्थत्वादिति वाच्यं, सिचि परे यदङ्गं तदकारस्य वृद्धिरित्यर्थाश्रयणेऽतिव्याप्तवारणार्थत्वात् । ञि फलेति । विशरणं — शिथिलीभावः । 'आदिर्ञिटुडवःर' इति ञिरित् । 'ञीतः क्तः' इति प्रयोजनम् ।आदितश्चे॑ति तीण्निषेधार्थमादित्त्वम् । लिण्निमित्तादेशादित्वादप्राप्ते आह -तृफलेति । मील श्मीलेति । निमेषणं — नेत्रसंकोचः । संकोचेति पाठेऽप्ययमेवार्थः । णील वर्ण इति । वर्णक्रियायामित्यर्थः । फल निष्पत्ताविति । ञि फलेति पूर्वं पठितम् । अनुबन्धभेदात्पुनः पाठः । खोलृ खोरृ इति । द्वितीयो रेफान्त ऋदित् । इत आरभ्यष्ठिवेः प्राग्रेफान्ताः । धोरृगतिचातुर्य इति । अआगतिविशेष इत्यर्थः । रेपान्तोऽयम्, ऋदित् । त्सर छद्मगताविति । कपटगतावित्यर्थः । क्मर हूर्छन इति । कुटिलीभवन इत्यर्थः । ष्ठिवु निरसन इति । इदुपधः, उदित् । इत आरभ्य ऊष्मान्तेभ्यः प्राग्वकारान्ताः । तिपि शपि लघूपधगुणे प्राप्ते आह -ष्विनुक्लम्वितीति । ल्युटि तु शित्परकत्वाऽभावाद्धीर्घऽभावे लघूपधगुणः । 'ष्ठीवन' मिति तु पृषोदरादित्वात्समाधेयम् । अस्येति । ष्ठिनुधातोर्द्वितीयो वर्णस्थकार इत्यर्थः । कृतष्टुत्वस्य निर्देश इति भावः । षोपदेशोऽयं, केवलदन्त्यथकारपरकसादित्वात् । षोपदेशत्वेऽपि न सत्वम्, 'सुब्धातुष्ठिवु' ति निषेधात् । लिटि तु 'शर्पूर्वाः खयःर' इति षकारवकारयोर्निवृत्त्या ष्टुत्वनिवृत्तौ रूपमाह — तिष्ठेवेति । ठकारस्य स्वाभाविकत्वे तु टिष्ठेवेति रूपम् । जि जय इति । जिधातुरनिट्कः । सँल्लिटोर्जेः ।अभ्यासाच्चे॑ति सूत्रादभ्यासादित्यनुवर्तते ।चजोः कुघिण्यतो॑रित्यस्मात्कु इति च ।संल्लिटो॑रिति निमित्तसप्तमी अभ्यासे अन्वेति । तदाह - संल्लिण्निमित्तो योऽभ्यास इत्यादि ।सनि लिटि च अभ्यासात् परस्य कुत्व॑मिति व्याख्याने तु यङ्लुगन्तात्सनि जेजयिषतीत्यत्र कुत्वं स्यात् । अतःसंल्लिण्निमित्तो योऽभ्यास॑ इति व्याख्येयमिति माधवः । जिगायेति । णलि द्वित्वे वृद्धौ उत्तरखण्डे जस्य कुत्वेन गः । जिग्यतुरिति । कित्त्वाद्गुणाऽभावः । लिटि 'एकाच' इति इण्निषेधं बाधित्वा क्रादिनियमादिटि प्राप्ते,थलिअचस्तास्व॑दिति तन्निषेधस्य भारद्वाजनियमाद्विकल्पः । तदाह — जिगयिथ जिगेथेति । जिग्यथुः । जिग्य ।णलुत्तमो वे॑ति मत्वा आह — जिगाय जिगयेति । क्रादिनियमादिटं मत्वा आह — जिग्यिव जिग्यिमेति । जेतेति । जेष्यति । जयतु ।अजयत् । आशीर्लिङिअकृत्सार्वधातुकयो॑रिति दीर्घ मत्वा आह — जीयादिति । अजैषीदिति ।सिचि वृद्धि॑रिति वृद्धिरिति भावः । अजेष्यते । षर्वधातुः षोपदेशः । इविधातोरिदित्त्वान्नुम् । तदाह — इन्वतीति । इन्वांचकारेति । नुमि इजादिगुरुमत्त्वादमिति भाव- । पिवि मिवीत्यादय इदितः ।
index: 7.2.2 sutra: अतो ल्रान्तस्य
अन्तशब्दोऽयमस्त्यवयववचनः - वस्त्रान्तः, वसनान्त इति , अस्ति समीपवचनः - उदकान्तं गत इति तत्राद्ये पक्षे लरन्तस्य इति बहुव्रीहिः, अङ्गमन्यपदार्थः, अन्यस्यार्थस्यासम्भवात् । तत्र वर्णग्रहणे सर्वत्र बहुव्रीहिः अङ्गमन्यपदार्थः अन्यस्यार्थस्यासम्भवात् । तत्र वर्णग्रहणे सर्वत्र तदन्तविधिरित्येव सिद्धत्वादन्तग्रहणमतिरिच्यते । तस्मात्समीपवचनोऽन्तशब्दः । तत्रापि यदि षष्ठीसमासः स्यात - रेफलकारयोः समीपभूतस्यातो वृद्धिर्भवतीति, ततो लषिरणिप्रभृतिष्वेव स्यात् । यदि परसमीपवचनोऽन्तशब्दः, अथ तु समीपमात्रवचनसतदा इष्टविष्ये तावत्सिध्यति, अनिष्टेऽपि तु विषये प्राप्नोति, तथा अखल्लीदित्यत्रापि प्रसङ्गः । तस्मात्कर्मधायः, निपातनाच्च विशेषणस्य परनिपातः । समीपभूतौ रेफलकारौ लरन्तशब्देन एविवक्षितौ । कस्य समीपभूतावित्यपेक्षायामत इत्यनेन सम्बन्धः । एवं विशेषिताभ्यां रेफलकाराभ्यामङ्गस्य विशेषणातदन्तविधिः । अतः समीपभूतौ यौ रेफलकारौ तदन्तस्याङ्गस्येति । यद्येवम्, एकत्वाद् अतः इत्यस्य तस्य च रेफलकारयोः विशेषणे एवं उपक्षीणत्वान्न वृद्धिभाङ् निर्द्दिष्टः स्यात् विशेषणत्वेनाइ तावदकारस्य श्रुतत्वातस्यैव वृद्धिर्भवतीत्यदोषः, तदिदमुक्तम् - रेफलकारौ यावतः समीपभूतावित्यादि । वयं तु ब्रूमः - समीपभूतरेफलकारान्तस्याङ्गस्यातः स्थाने वृद्धिर्भवतीत्येवा क्षरव्यापारः । तत्र कस्य समीपभूतावित्यपेक्षायां सन्निधानादतः समीपभूताविति गम्यते इति । अपर आह - रश्च लश्च लर्म्, आगन्तुकोऽकारः, षष्ठ।ल लुका निर्द्देशः, अत्र लरेणाङ्गस्य विशेषणातदन्तविधौ लरन्तस्याङ्गस्य योऽकारस्तत्र वृद्धिर्भवति । कीदृशस्यातः समीपभूतस्य । सन्निधानाच्च लर्ं प्रति समीपभूतस्येति । अन्यशब्दश्च समीपमात्रवचनो न तु परमसीपवचनः इति । उदाहरणेषु , क्षर सञ्चलने, त्सर च्छद्म गतौ, ज्वल दीप्तौ, ह्वल चलने । न्यखोरीत्, न्यमीलीदिति । खुर छेदने, मील निमेषणे । मा भवानित्यादि । अट गतौ, अश भोजने माङ्ः प्रयोग अडागमनिवृत्यर्थः । अवम्रीत्, अखल्लीदिति । वभ्रिर्गत्यर्थः, खल्लिराशु गमने । अथान्तग्रहणं किमर्थम्, न ल्रः इत्यवोच्येत इहापि तर्हि प्रप्नोति - अवभ्रीत्, अखल्लीदिति अकारमेव सिच्परत्वेन विशेषयिष्यामः लरन्तस्याङ्गस्य योऽकारस्तस्य सिच्यनन्तरे वृद्धिर्भवतीति । न च रेफलकारन्तस्याङ्गस्य योऽकारस्तस्य सिजव्यवहितः सम्भवतीति सामर्थ्यात् येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यादित्येकेन वर्णेन व्यवधानमाश्रयिष्यते । अथ वा अतो हलादेर्लघोः इत्यस्यानन्तर मिदं कर्तव्यम्, तत्रायमप्यर्थः अत इत्यपि न वक्तव्यं भवति, तत्र लघोः, त्यिनुवृतेरखल्लीदित्यादौ न भविष्यति । एवमपि चतुश्शब्दादाचारिक्विपि लुङ् इसिचि चकारस्यापि प्राप्नोति तत्रापि सिचाऽऽनन्तर्यं विशेषयिष्यामः, तत्र यथा अचकासीदित्यत्र अतो हलादेर्लघोः इति चकाराकारस्य वृद्धिर्न भवति, तत्कस्य हेतोः सिचा आनन्तर्थं विशेष्यत इति । एवं चतुश्शब्देऽपि न भविष्यति । एवं च कृत्वा लघोः इत्यपि न वक्तव्यं भवति तथा तु न कृतमित्येव ॥