मुखनासिकावचनोऽनुनासिकः
1-1-8 मुखनासिकावचनः अनुनासिकः
Sampurna sutra
Up
मुख-नासिका-वचनः अनुनासिकः
Neelesh Sanskrit Brief
Up
यस्य वर्णस्य उच्चारणार्थम् मुखेन सह नासिकायाः अपि प्रयोगः भवति, सः वर्णः अनुनासिकसंज्ञां प्राप्नोति ।
Neelesh English Brief
Up
A letter whose pronunciation needs the usage of nose as well as mouth is called an अनुनासिक.
Kashika
Up
मुखसहिता नासिका मुखनासिका, तया च उच्चार्यते वर्णः सोऽनुनासिकसंज्ञो भवति। <<आङोऽनुनासिकश्छन्दसि>> ६.१.१२६ — अ॒भ्र आँ अ॒पः (ऋ० ५.४८.१)। ग॒भी॒र आँ उग्र॑पुत्रे (ऋ० ८.६७.११)। च न आँ इन्द्रः। मुखग्रहणं किम्? अनुस्वारस्यैव हि स्यात्। नासिकाग्रहणं किम्? कचटतपानां मा भूत्। अनुनासिकप्रदेशाः — <<आङोऽनुनासिकश्छन्दसि>> ६.१.१२६ इत्येवमादयः॥
Siddhanta Kaumudi
Up
मुखसहितनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात् । तदित्थम् - अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादशभेदाः । ऌवर्णस्य द्वादश, तस्य दीर्घाभावात् । एचामपि द्वादश, तेषां ह्रस्वाभावात् ॥
Laghu Siddhanta Kaumudi
Up
मुखसहितनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात् । तदित्थम् - अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः । ऌवर्णस्य द्वादश तस्य दीर्घाभावात् । एचामपि द्वादश तेषां ह्रस्वाभावात् ॥
Neelesh Sanskrit Detailed
Up
अष्टाध्याय्यां पाठितासु अनेकासु संज्ञासु अन्यतमा वर्तते 'अनुनासिकः' इति संज्ञा । यस्य वर्णस्य उच्चारणे मुखेन सह नासिकायाः अपि प्रयोगः क्रियते, तत्र सः वर्णः अनुनासिकः इति संज्ञां प्राप्नोति । सर्वेषाम् वर्णानाम् उच्चारणार्थम् सामान्यरूपेण मुखस्य (तत्रस्थानाम् कण्ठादीनाम् अवयवानाम्) प्रयोगः तु अवश्यम् भवति । परन्तु यत्र तस्मिन् उच्चारणे नासिकायाः अपि प्रयोगः क्रियते, तत्र तस्य वर्णस्य 'अनुनासिकः' इति शब्देन अपि निर्देशः भवितुम् अर्हति, इति अस्य सूत्रस्य आशयः ।
अनुनासिकः इति पृथक् वर्णः नास्ति । विद्यमानस्य वर्णस्यैव नासिकया सह उच्चारणं क्रियते चेत् तस्य अनुनासिकसंज्ञा भवति ।
संस्कृते सर्वेषाम् वर्णानाम् नासिकया सह उच्चारणम् कर्तुं न शक्यते । केवलम् केषाञ्चन वर्णानाम् एव नासिकया सह उच्चारणं सम्भवति । आवली एतादृशी —
1) सर्वे स्वराः — सर्वेषाम् स्वराणाम् उच्चारणम् नासिकया सह अपि कर्तुं शक्यते, नासिकया विना अपि सम्भवति । अतः सर्वे स्वराः 'अनुनासिकाः' तथा 'निरनुनासिकाः' उभयथा भवितुम् अर्हन्ति ।
2) यकारः, वकारः, लकारः — 'य्', 'व्', 'ल्' एतेषाम् त्रयाणाम् व्यञ्जनानाम् उच्चारणम् अपि नासिकया सह , तथा च नासिकया विना — उभयथा सम्भवति । अतः यकार-वकार-लकाराणाम् अपि 'अनुनासिकाः' तथा 'निरनुनासिकाः' एतादृशौ भेदौ विद्येते ।
3) वर्गपञ्चमाः (ञ्, म्, ङ्, ण्, न्) — वर्गपञ्चमवर्णानाम् उच्चारणसमये मुखस्य तथा नासिकायाः - द्वयोः अपि प्रयोगः भवत्येव । इत्युक्ते, सर्वे वर्गपञ्चमवर्णाः नित्यम् अनुनासिकसंज्ञकाः एव सन्ति । एतेषाम् निरनुनासिकभेदाः न विद्यन्ते ।
4) अनुस्वारः — अनुस्वारः इति संस्कृतभाषायाम् विद्यमानः पृथग् वर्णः अस्ति । अस्य उच्चारणम् केवलम् नासिकया एव भवति । अनुस्वारस्य उच्चारणे मुखस्य प्रयोगः न क्रियते । अतः अनुस्वारस्य अनुनासिकः इति संज्ञा न भवति ।
यस्य वर्णस्य अनुनासिक-निरनुनासिकभेदौ विद्येते, तत्र तस्य वर्णस्य अनुनासिकभेदस्य पृथग् रूपेण निर्देशार्थम् लेखनसमये तस्य उपरि चन्द्रबिन्दुः संस्थाप्यते इति सामान्यः नियमः । यथा, अकारस्य अनुनासिकभेदं दर्शयितुम् 'अँ' इति चन्द्रबिन्दुना सह र्निदेशः क्रियते । तथैव 'य्ँ' इत्येन यकारस्य अनुनासिकभेदः निर्दिश्यते, 'य्' इत्यनेन च निरनुनासिकः भेदः । एवमेव अन्येषां विषये अपि ज्ञातव्यम् ।
वर्णानाम् अनुनासिकभेदस्य उच्चारणस्थानानि
सर्वेषाम् अनुनासिकसंज्ञकवर्णानाम् उच्चारणस्थानानि अधः परिगण्यन्ते —
अँ / आँ / अँ3 - कण्ठः + नासिका
इँ / ईँ / इँ3 - तालु + नासिका
उँ / ऊँ / उँ3 - ओष्ठौ + नासिका
ऋँ / ॠँ / ॠँ3 - मूर्धा + नासिका
ऌँ / ऌँ3 - दन्ताः + नासिका
एँ / एँ 3 / ऐँ / ऐँ3 - कण्ठतालु + नासिका
ओँ / ओँ3 / औँ / औँ3 - कण्ठोष्ठम् + नासिका
ङ् - कण्ठः + नासिका
ञ् - तालु + नासिका
ण् - मूर्धा + नासिका
न् - दन्ताः + नासिका
म् - ओष्ठौ + नासिका
य्ँ - तालु + नासिका
व्ँ - दन्तोष्ठम् + नासिका
ल्ँ - दन्ताः + नासिका
एतान् विहाय अन्येषाम् वर्णानाम् (क्, ख्, आदीनाम्) अनुनासिकभेदः संस्कृतभाषायां न विद्यते ।
प्रयोजनम्
अनुनासिकसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उच्यन्ते । द्वे उदाहरणे एतादृशे -
1. <<यरोऽनुनासिकोऽनुनासिके वा>>
8.4.45 इत्यनेन पदान्त-यर्-वर्णस्य अनुनासिके परे विकल्पेन अनुनासिकादेशः भवति —
वाक् च मुखम् च अनयोः समाहारः [समासवृत्तिः]
वाक् + मुखम् [<<द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्>> 2.4.2 इति समाहारद्वन्द्वः]
→ वाच् + मुख [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययलोपः]
→ वाक् + मुख [<<चोः कुः>> 8.2.30 इति कुत्वम्]
→ वाग् + मुख [<<झलां जशोऽन्ते>> 8.2.39 इति पदान्ते जश्त्वम्]
→ वाङ् + मुख [<<यरोऽनुनासिकेऽनुनासिको वा>> 8.4.45 इति गकारस्य अनुनासिकादेशः ङकारः]
→ वाङ्मुख
2. <<उपदेशेऽजनुनासिक इत्>>
1.3.2 इत्यनेन उपदेशे विद्यमानस्य अनुनासिकसंज्ञकस्य अच्-वर्णस्य इत्संज्ञा भवति । यथा, ओँप्यायीँ-धातौ विद्यमानानाम् अनुनासिस्वराणाम् इत्संज्ञा, ततश्च तयोः लोपं कृत्वा 'प्याय्' इति यद् दृश्यरूपम् जायते तत्र अग्रे प्रत्ययविधानम् भवति —
ओँप्यायीँ (वृद्धौ, भ्वादिः, <{1.561}>)
→ प्याय् [ <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति अनुनासिकसंज्ञकयोः ओँकार-ईँकारयोः इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः]
→ प्याय् + क्तवतुँ [<<निष्ठा>> 3.2.102 इति क्ववतुँ-प्रत्ययः]
→ प्याय् + तवत् [अनुनासिक-उकारस्य <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति इत्संज्ञा । ककारस्य <<लशक्वतद्धिते>> 1.3.8 इति इत्संज्ञा । उभयोः अपि <<तस्य लोपः>> [1.3.9]] इति लोपः]
→ प्या + तवत् [<<लोपो व्योर्वलि>> 6.1.66 इति सम्प्रसारणम्]
→ पी + तवत् [<<प्यायः पी>> 6.1.28 इति प्या-इत्यस्य पी-आदेशः]
→ पीनवत् [<<ओदितश्च>> 8.2.45 इति निष्ठानत्वम् ।]
अनुनासिकसंज्ञायाः सूत्रेषु प्रयोगः
अष्टाध्याय्यां 'अनुनासिक' इयं संज्ञा एकादशसु सूत्रेषु साक्षात् प्रयुक्ता दृश्यते ।
1. <<उपदेशेऽजनुनासिक इत्>> 1.3.2
2. <<आङोऽनुनासिकश्छन्दसि>> 6.1.126
3. <<अनुनासिकस्य क्विझलोः क्ङिति>> 6.4.15
4. <<च्छ्वोः शूडनुनासिके च>> 6.4.19
5. <<अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति>> 6.4.37
6. <<विड्वनोरनुनासिकस्यात्>> 6.4.41
7. <<नुगतोऽनुनासिकान्तस्य>> 7.4.45
8. <<अत्रानुनासिकः पूर्वस्य तु वा>> 8.3.2
9. <<अनुनासिकात् परोऽनुस्वारः>> 8.3.4
10. <<यरोऽनुनासिकेऽनुनासिको वा>> 8.4.45
11. <<अणोऽप्रगृह्यस्यानुनासिकः>> 8.4.57
अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।
##Balamanorama
<<मुखनासिकावचनोऽनुनासिकः>> - तदेवमनुनासिका नव अचः, अननुनासिकाश्च नवेत्यष्टादशविधत्वमेकैकस्याऽचेति स्थितम् । अथाऽनुनासिकसंज्ञामाह — मुखनासिका । मुखसहिता नासिका मुखनासिका । शाकपार्थिवादित्वात्सहितपदस्य लोपः । उच्यते उच्चार्यते इति वचनः । कर्मणि ल्युट् । मुखनासिकया वचन इतिकर्तृकरणे कृता बहुलम् इति तृतीयासमासः । तदेतदाह — मुखसहितेत्यादिना । मुखं च नासिका चेति द्वन्द्वस्तु न । तथा सतिद्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् इति समाहारद्वन्द्वनियमात्स नपुंसक॑मिति नपुंसकत्वेह्रस्वो नपुंसके प्रातिपदिकस्य॑ इति ह्रस्वत्वे 'मुखनासिकवचन' इत्यापत्तेः । ननु अष्टादश भेदाः किं सर्वेषामचामविशिष्टाः, नेत्याह — तदित्थमिति । इयता प्रबन्धेन यत् अचां भेदप्रपञ्चनं तत् — इत्थं=वक्ष्यमाणप्रकारेण व्यवस्थितं वेदितव्यमित्यर्थः । अष्टादश भेदा इति । अष्टादश प्रकारा इत्यर्थः । दीर्घाभावादिति । तथा च उदात्तऌकारदीर्घः, अनुदात्तऌकारदीर्घः, स्वरितऌकारदीर्घः । ते च अनुनासिकास्त्रयः अननुनासिकास्त्रय इति षड्भेदानामभावे सति ह्रस्वप्रपञ्चः प्लुतप्रपञ्चश्च ,ड्विध इति ऌकारस्य द्वादशविधत्वमेवेति भावः । ऌकारस्य दीर्घाऽभावे होतृ ऌकार इत्यत्र सवर्णदीर्घे कृते होतृकार इति ॠकारस्यैव अकस्सवर्ण इति सूत्रे च भाष्योदाहरणमेव प्रमाणम् । ह्रस्वाभावादिति । यद्येचो ह्रस्वाः स्युस्तर्हि वर्गसमाम्नाये त एव लाघवात् अ इ उ इत्यादिवत् पठ्येरन्, नतु दीर्घाः, गौरवात् । अत एचो ह्रस्वा न सन्तीति विज्ञायते । एवं च ह्रस्वप्रपञ्चषड्भेदाभावाद्द्वादशविधत्वमेवैचामिति भावः ।
##Padamanjari