6-1-28 प्यायः पी सम्प्रसारणं निष्ठायाम् विभाषा
विभाषेत्येव। <<ओप्यायी वृद्धौ>> इत्यस्य धातोर्निष्ठायां विभाषा पीत्ययमादेशो भवति। पीनं मुखम्। पीनौ बाहू। पीनमुरः। इयमपि व्यवस्थितविभाषैव। तेनानुपसर्गस्य नित्यं भवति, सोपसर्गस्य तु नैव भवति। आप्यानश्चन्द्रामाः। आङ्पूर्वस्यान्धूधसोर्भवत्येव — आपीनोऽन्धुः, आपीनमूध इति॥
वा स्यान्निष्ठायाम् । व्यवस्थितविभाषेयम् । तेन स्वाङ्गे नित्यम् । पीनं सुखम् । अन्यत्र प्यानः पीनः स्वेदः ॥<!सोपसर्गस्य न !> (वार्तिकम्) ॥ प्रप्यानः ॥<!आङ्पूर्वस्यान्धूधसोः स्यादेव !> (वार्तिकम्) ॥ आपीनोन्धुः । आपीनमूधः ॥
<<प्यायः पी>> - प्यायः पी । वा स्यान्निष्ठायामिति । शेषपूरणमिदम् ।विभाषाऽभ्यवपूर्वस्ये॑त्यतो विभाषेति,स्फायः स्फी॑त्यतो निष्ठायामिति चानुवर्तते इति भाव- । व्यवस्थतविभाषेति । अत्र व्याख्यानमेव शरणम् ।सोपसर्गस्य ने॑त्यादि भाष्ये स्पष्टम् ।
अन्धुः कूपः ॥