6-1-126 आङः अनुनासिकः छन्दसि संहितायाम् प्रकृत्या अचि नित्यम्
वैदिकप्रक्रियायाम् आङ् इत्यस्य संहितायाम् अच्-वर्णे परे अनुनासिकादेशः भवति, ततः च अच्-वर्णेन सह सन्धिः न भवति ।
In the context of संहिता and in the derivation of the वैदिक forms, when आङ् is followed by an अच् letter, आङ् becomes अनुनासिक and does not undergo sandhi with the अच् letter.
आङोऽचि परतः संहितायां छन्दसि विषयेऽनुनासिकादेशो भवति, स च प्रकृत्या भवति। अ॒भ्र आँ अ॒पः (ऋ० ५.४८.१)। ग॑॑भी॒र आँ उग्॑॑रपुत्रे॒ जिघां॑सतः (ऋ० ८.६७.११)। केचिदाङोऽनुनासिकश्छन्दसि बहुलमित्यधीयते। तेनेह न भवति — इन्द्रो बाहुभ्यामातरत्। आ अतरत्॥
आङोऽचि परेऽनुनासिकः स्यात् स च प्रकृत्या । अभ्र आँ अपः (अ॒भ्र आँ अ॒पः) । गभीर आँ उग्रपुत्रे (गभी॒र आँ उ॒ग्रपु॑त्रे) ।<!ईषाअक्षादीनां छन्दसि प्रकृतिभावो वक्तव्यः !> (वार्तिकम्) ॥ ईषाअक्षो हिरण्यः । ज्या इयम् (ज्या इ॒यम्) । पूषा अविष्टु (पू॒षा अ॒विष्टु) ॥
वैदिकप्रयोगेषु संहितायाम् सत्याम् 'आङ्' इति निपातः अचि परे अनुनासिकत्वं प्राप्य प्रकृतिभावम् अपि प्राप्नोति (इत्युक्ते, अग्रे सन्धिम् न करोति) । उदाहरणद्वयम् एतादृशम् —
1) अभ्र आँ अपः (ऋग्वेदे 5.48.1) — अत्र
तेनेह न भवतीति। अनर्थकस्यैवाकारस्य भवति, अभ्र आÄ अप इत्यादौ सप्तम्यैव तदर्शस्योक्तत्वातदर्यवृत्तिराङ्नर्थकः; अनुर्थान्तरवाचित्वात्। आतरदित्यत्र तु क्रियाविशेषणत्वादर्थवान्। कथं पुनरनर्थकस्य ङ्त्विम्, यावता - ठीषदर्थे क्रियायोगे मर्यादाऽभिविधौ च यः। एतमातं ङ्तिं विद्याद्वाक्यस्मरणयोरङ्त्ऽ ॥ इत्युक्तिम् ? सत्यम्;'वाक्यस्मरणयोरङ्त्' इत्यित्रैव तात्पर्यम्, अन्यत्र सर्वत्र आङ् ङ्द्वेइदितव्यः -एवं तावद्भाष्ये स्थितम् ॥