विड्वनोरनुनासिकस्यात्

6-4-41 विड्वनोः अनुनासिकस्य आत् असिद्धवत् अत्र आभात् नलोपः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

विटि वनि च प्रत्यये परतोऽनुनासिकान्तस्याङ्गस्याकार आदेशो भवति। अ॒ब्जा गो॒जा ऋ॑त॒जा अ॑दि्॒रजाः (ऋ० ४.४०.५) । गो॒षा इ॑न्दो नृ॒षा अ॑सि (ऋ० सं० ९.२.१०)। कूपखाः। शतखाः। सहस्रखाः। दधिक्राः। अग्रेगा उन्नेतृणाम्। <<जनसनखनक्रमगमो विट्>> ३.२.६७ इति विट् प्रत्ययः। <<सनोतेरनः>> ८.३.१०६ इति षत्वं गो॒षा इ॑न्दो नृ॒षा अ॑सीत्यत्र। वन् विजावा। अग्रेजावा। <<अन्येभ्योऽपि दृश्यन्ते>> ३.२.७५ इति वनिप् प्रत्ययः। अनुनासिकस्येति वर्तमाने पुनरनुनासिकग्रहणमनुनाकिमात्रपरिग्रहार्थम्, अन्यथा ह्यनुदात्तोपदेशवनतितनोत्यादीनामेव स्यात्॥

Siddhanta Kaumudi

Up

अनुनासिकस्य आत्स्यात् । विजायत इति विजावा । ओणृ । अवावा । विच् । रोट् । रेट् । सुगण् ॥

Laghu Siddhanta Kaumudi

Up

अनुनासिकस्याऽत्स्यात्। विजायत इति विजावा॥ ओणृ अपनयने॥ अवावा। विच्॥ रुष रिष हिंसायाम्॥ रोट्। रेट्। सुगण्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<विड्वनोरनुनासिकस्यात्>> - विड्वनोरनुनासिकस्याऽऽत् । विड्वनोरिति सप्तमी । अनुनासिकस्य — आदिति छेदः । विजावेति । जनेर्वनिप् । जनेर्नकारस्य आकारः । सवर्णदीर्घः । अवावेति । ओणेर्वनिप् । णकारस्य आकारः । अवादेशः । विजिति । 'उदाह्यियते' इति शेषः । रोट् रेडिति ।रुष, रिष हिंसायाम् विच् ।वेरपृक्तस्ये॑ति वलोपः । सुगण्णिति । गमएर्विच् ।

Padamanjari

Up

अग्रेगा इत्यादि । यद्यप्यकारविधानेऽपि सवर्णदीर्घेण सिद्ध्यति, अतो गुणे इति पररुपत्वे हि अतोलोपमेव विदध्यात् । ये त्वकारोपधा न भवन्ति, तदर्थ दीर्घोच्चारमम् - घुण घूर्ण भ्रमणे, अन्यभ्योऽपि दृश्यन्ते इति वनिप्, ध्वावा, धूरावा । क्षिणु - क्षावा, ऋणु - रावा, ओणृ - अवावा ॥