1-1-9 तुल्यास्यप्रयत्नं सवर्णम्
तुल्य-आस्य-प्रयत्नम् सवर्णम्
ययोः वर्णयोः मुखस्थितम् उच्चारणस्थानम् आभ्यन्तरप्रयत्नश्च समानौ स्तः तौ वर्णौ परस्परयोः 'सवर्णौ' उच्येते ।
Two letters are called सवर्ण of each other if their mouth-based location of pronunciation and their आभ्यन्तरप्रयत्न are same as of each other.
तुल्यशब्दः सदृशपर्यायः । आस्ये भवमास्यम्, ताल्वादिस्थानम्। प्रयतनं प्रयत्नः स्पृष्टतादिर्वर्णगुणः। तुल्य आस्ये प्रयत्नो यस्य वर्णस्य येन वर्णेन सह स समानजातीयं प्रति सवर्णसंज्ञो भवति। चत्वार आभ्यन्तराः प्रयत्नाः सवर्णसंज्ञायामाश्रीयन्ते। स्पृष्टता, ईषत्स्पृष्टता, संवृतता, विवृतता चेति। अ अ अ इति त्रयोऽकारा उदात्तानुदात्तस्वरिताः प्रत्येकं सानुनासिका निरनुनासिकाश्च ह्रस्वदीर्घप्लुतभेदादष्टादशधा भिद्यन्ते। तथेवर्णः। तथोवर्णः। तथा ऋवर्णः। ऌवर्णस्य दीर्घा न सन्ति। तं द्वादशप्रभेदमाचक्षते। सन्ध्यक्षराणां ह्रस्वा न सन्ति, तान्यपि द्वादशप्रभेदानि। अन्तःस्था द्विप्रभेदा रेफवर्जिता यवलाः सानुनासिका निरनुनासिकाश्च। रेफोष्मणां सवर्णा न सन्ति। वर्ग्यो वर्ग्येण सवर्णः। दण्डाग्रम्। खट्वाग्रम्। आस्यग्रहणं किम्? कचटतपानां तुल्यप्रयत्नानां भिन्नस्थानानां मा भूत्। किं च स्यात् ? तर्प्ता, तर्प्तुमित्यत्र <<झरो झरि सवर्णे>> ८.४.६५ इति पकारस्य तकारे लोपःस्यात् । प्रयत्नग्रहणं किम् ? इचुयशानां तुल्यस्थानानां भिन्नप्रयत्नानां मा भूत् । किं च स्यात् ? अरुश्श्च्योततीत्यत्र <<झरो झरि सवर्णे>>८.४.६५ इति शकारस्य चकारे लोपः स्यात्॥ ऋकारऌकारयोः सवर्णसंज्ञा वक्तव्या॥ होतृ ऌकारः — होतृृकारः। उभयोर्ऋवर्णस्य ऌवर्णस्य चान्तरतमः सवर्णो दीर्घो नास्तीति ऋकार एव दीर्घो भवति। सवर्णप्रदेशाः — <<अकः सवर्णे दीर्घः>> ६.१.१०१ इत्येवमादयः॥
ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात् । अकुहविसर्जनीयानां कण्ठः । इचुयशानां तालु । ऋटुरषाणां मूर्धा ।ऌतुलसानां दन्ताः । उपूपध्मानीयानामोष्ठौ । ञमङणनानां नासिका च । एदैतोः कण्ठतालु । ओदौतोः कण्ठोष्ठम् । वकारस्य दन्तोष्ठम् ॥ जिह्वामूलीयस्य जिह्वामूलम् । नासिकानुस्वारस्य । इति स्थानानि । यत्नो द्विधा - आभ्यन्तरो बाह्यश्च । आद्यश्चतुर्धा - स्पृष्टेषत्स्पृष्टविवृतसंवृतभेदात् । तत्र स्पृष्टं प्रयतनं स्पर्शानाम् । ईषत्स्पृष्टमन्तस्थानाम् । विवृतमूष्मणां स्वराणां च । ह्रस्वस्याऽवर्णस्य प्रयोगे संवृतम् । प्रक्रियादशायां तु विवृतमेव । एतच्च सूत्रकारेण ज्ञापितम् । तथाहि ॥
ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात्। <!ऋऌवर्णयोर्मिथः सावर्ण्यं वाच्यम्!> । अकुहविसर्जनीयानां कण्ठः। इचुयशानां तालु। ऋटुरषाणां मूर्धा। ऌतुलसानां दन्ताः। उपूपध्मानीयानामोष्ठौ। ञमङणनानां नासिका च। एदैतोः कण्ठतालु। ओदौतोः कण्ठोष्ठम्। वकारस्य दन्तोष्ठम्। जिह्वामूलीयस्य जिह्वामूलम्। नासिकाऽनुस्वारस्य। यत्नो द्विधा - आभ्यन्तरो बाह्यश्च। आद्यः पञ्चधा - स्पृष्टेषत्स्पृष्टेषद्विवृतविवृतसंवृतभेदात्। तत्र स्पृष्टं प्रयतनं स्पर्शानाम्। ईषत्स्पृष्टमन्तःस्थानाम्। ईषद्विवृतमूष्मणाम्। विवृतं स्वराणाम्। ह्रस्वस्यावर्णस्य प्रयोगे संवृतम्। प्रक्रियादशायां तु विवृतमेव। बाह्यप्रयत्नस्त्वेकादशधा - विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति। खरो विवाराः श्वासा अघोषाश्च। हशः संवारा नादा घोषाश्च। वर्गाणां प्रथमतृतीयपञ्चमा यणश्चाल्पप्राणाः। वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणाः। कादयो मावसानाः स्पर्शाः। यणोऽन्तःस्थाः। शल ऊष्माणः। अचः स्वराः। ≍क≍ख इति कखाभ्यां प्रागर्धविसर्गसदृशो जिह्वामूलीयः। ≍प≍फ इति पफाभ्यां प्रागर्धविसर्गसदृश उपध्मानीयः। अं अः इत्यचः परावनुस्वारविसर्गौ॥
इदम् सूत्रम् अष्टाध्याय्याः 'सवर्ण'संज्ञा विधायकम् सूत्रम् अस्ति । द्वयोः वर्णयोः मुखस्थितम् उच्चारणस्थानम् तथा च आभ्यन्तरप्रयत्नाः समानाः सन्ति चेत् तौ वर्णौ परस्परयोः 'सवर्णौ' भवतः — इति अस्य सूत्रस्य आशयः ।
(1) अकुहविसर्जनीयानां कण्ठः — अ, क्, ख्, ग्, घ्, ङ् , ह् , विसर्गः - एतेषाम् उच्चारणस्थानम् कण्ठः ।
(2) इचुयशानां तालु — इ, च्, छ्, ज्, झ्, ञ्, य् , श् - एतेषाम् उच्चारणस्थानम् तालु ।
(3) ऋटुरषाणां मूर्धा — ऋ, ट्, ठ्, ड्, ढ्, ण्, र्, ष् - एतेषाम् उच्चारणस्थानम् मूर्धा ।
(4) ऌतुलसानां दन्ताः — ऌ, त्, थ्, द्, ध्, न्, ल्, स् - एतेषाम् उच्चारणस्थानम् दन्ताः ।
(5) उपूपध्मानीयानाम् ओष्ठौ — उ, प्, फ्, ब्, भ्, म्, उपध्मानीयः - एतेषाम् उच्चारणस्थानम् ओष्ठौ ।
(6) ञमङणनानां नासिका च — ञ्, म्, ङ्, ण्, न् - एतेषाम् उच्चारणस्थानम् नासिका अपि अस्ति । परन्तु एतत् 'मुखस्थितम्' उच्चारणस्थानम् नास्ति, अतः सवर्णसंज्ञार्थम् अस्य चर्चा न क्रियते ।
(7) एदैतोः कण्ठतालु — ए, ऐ एतयोः उच्चारणस्थाने कण्ठः तथा तालु इति द्वे ।
(8) ओदौतोः कण्ठोष्ठम् — ओ, औ एतयोः उच्चारणस्थाने कण्ठः तथा ओष्ठौ इति द्वे ।
(9) वकारस्य दन्तोष्ठम् — व् वर्णस्य उच्चारणस्थाने दन्ताः तथा ओष्ठौ इति द्वे ।
(10) जिह्वामूलीयस्य जिह्वामूलम् — जिह्वामूलीयवर्णस्य उच्चारणस्थानम् जिह्वामूलम् ।
(11) नासिका अनुस्वारस्य — अनुस्वारस्य उच्चारणस्थानम् नासिका इति । एतदपि मुखस्थितम् उच्चारणस्थानम् नास्ति, अतः सवर्णसंज्ञार्थम् अस्य अपि चर्चा न क्रियते ।
(1) स्पृष्टं प्रयतनं स्पर्शानाम् — सर्वेषाम् वर्गीयव्यञ्जनानाम् आभ्यन्तरप्रयत्नः स्पृष्टः इति स्वीक्रियते ।
(2) ईषत्स्पृष्टम् अन्तःस्थानाम् — अन्तःस्थवर्णानाम् (य्, व्, र् ,ल् एतेषाम्) आभ्यन्तरप्रयत्नः ईषत्स्पृष्टः इति स्वीक्रियते ।
(3) विवृतम् ऊष्मणां स्वराणां च - सर्वेषाम् स्वराणाम्, तथा च ऊष्मणाम् (श्, ष्, स्, ह् एतेषाम् वर्णानाम्) आभ्यन्तरप्रयत्नः विवृतः इति स्वीक्रियते ।
(4) ह्रस्वस्य अवर्णस्य प्रयोगे संवृतम् । प्रक्रियादशायां तु विवृतमेव - ह्रस्वः अकारः प्रयोगे (इत्युक्ते, भाषायाम्) संवृतः स्वीक्रियते, परन्तु प्रक्रियायाम् (इत्युक्ते सूत्राणां प्रयोगसमये) सः विवृतः अस्ति इत्येव मन्यते ।
<<तुल्यास्यप्रयत्नं सवर्णम्>> - अथअणुदित्सवर्णस्य चाप्रत्ययः॑ इति अ इ उ इत्यादिसंज्ञां वक्ष्यन्सवर्णसंज्ञामाह — तुल्यास्य । आस्यं = मुखम्, तत्साम्यस्य सर्ववर्णेष्वविशिष्टत्वादव्यावर्तकत्वादास्यशब्दोऽत्र न मुखमात्रपरः । किन्तु आस्ये मुखे भवमास्यं = ताल्वादिस्थानम् । 'शरीरावयवाद्यत्' इति भवार्थे यत्प्रत्ययः । 'यस्येति च' इति प्रकृत्यन्त्यस्य अकारस्य लोपः । प्रकृष्टो यत्नः प्रयत्नः । आस्यं च प्रयत्नश्च-आस्यप्रयत्नौ, तुल्यौ आस्यप्रयत्नौ यस्य वर्णजालस्य तत्तुल्यास्यप्रयत्नं परस्परं सवर्णसंज्ञकं स्यादिति भावः । तदाह — ताल्वादिस्थानमित्यादिना । मिथ इति । परस्परमित्यर्थः । कस्य किं स्थानमित्याकाङ्क्षायां तद्व्यवस्थापकानि पाणिन्यादिशिक्षावचनान्यर्थतः संगृह्णाति — अकुहेत्यादिना । 'अ' इत्यष्टादश भेदा गृह्यन्ते, 'कु' इतदि कादिपञ्चकात्मकः कवर्गः । न चाणुदित्सूत्रस्येदानीमप्रवृत्तेः कथमत्र 'अ' इत्यष्टादशभेदानां ग्रहणमिति वाच्यम् । लौकिकप्रसिद्धिमाश्रित्यैव एतत्प्रवृत्तेः । एवमग्रेऽपि कथञ्चित्समाधानं बोध्यम् । अश्च कुश्च हश्च विसर्जनीयश्चेति विग्रहः । विसर्जनीयशब्दोऽपि विसर्गपर्यायः । इचुयशेति । इ इत्यष्टादश भेदाः । चु इति चवर्गः । इश्च चुश्च यश्च शश्चेति विग्रहः । तालु = काकुदम् ।ऋटुरषेति । ऋ इत्यष्टादश भेदाः । टु इति टवर्गः । आ च टुश्च रश्च षश्चेति विग्रहः । ऋ शब्दस्य आ इति प्रथमैकवचनान्तं धाता इति वत् । लृतुलशेति । लृ इत्यस्य द्वादश भेदाः । तु इति तवर्गः । आ च तुश्च लश्च सश्चेति विग्रहः । लृशब्दस्यापि आ इत्येव प्रथमैकवचनान्तम् । आ अलौ अलः । दन्तशब्देन दन्तमूलप्रदेशो विवक्षितः । अन्यथा भग्नदन्तस्य तदुच्चारणाऽनुपपत्तेः । उपूपेति । उ इत्यष्टादश भेदाः । पु इति पवर्गः उश्च पुश्च उपध्मानीयश्चेति विग्रहः । उपध्मानीयशब्दमनुपदमेव स्वयं व्याख्यास्यति । ञमङणनेति । ञश्च मश्च ङश्च णश्च नश्चेति विग्रहः । चकारेण स्वस्ववर्गीयस्थानसमुच्चयः ।एदैतोरिति । एच्च ऐच्च एदैतौ । तपरकरणमसंदेहार्थम् । नतु 'तपरस्तत्कालस्य' इति तत्कालमात्रग्रहणार्थम् । तेन प्लुतयोरपि संग्रहः । कण्ठश्च तालु चेति प्राण्यङ्गत्वात्समाहारद्वन्द्वः, एकवत्त्वं नपुंसकत्वं च । ओदौतोरिति । ओच्च औच्च ओदौतौ । तपरकरणं पूर्ववदसंदेहार्थमेव । कण्ठश्च ओष्टौ चेति प्राण्यङ्गत्वात्समाहारद्वन्द्वः, एकवद्भावो नपुंसकत्वं च । वकारस्येति । दन्ताश्च ओष्ठौ चेति समाहारद्वन्द्वः । एकवत्त्वं नपुंसकत्वं च जिह्वामूलीयस्येति । जिह्वामूलीयशब्दमग्रे व्याख्यास्यति । एवमनुस्वारशब्दमपि । इति स्थानानीति । इति = एवंप्रकारेण वर्णाभिव्यक्तिस्थानानि प्रपञ्चितानीत्यर्थः ।ननु किमिह तुल्यास्यसूत्रे यत्कचित्स्थानसाम्यं विवक्षितम् , उत यावत्स्थानसाम्यम् । न तावदाद्यः, तथा सति इकारस्य एकारस्य च तालुस्थानकतया सावण्र्यापत्तौभवत्येवे॑त्यत्र इकारादेकारे परे सवर्णदीर्घापत्तेः । न च एकारस्य वर्णसमाम्नाये पाठसामर्थ्यादिकारेण न सावण्र्यमिति वाच्यम्, एकारपाठस्य अक् इक् उक् इति प्रत्याहारेषु एकारग्रहणनिवृत्त्यर्थत्वसम्भवात् । किं च वकारलकारयोर्दन्तस्थानसाम्येन सावण्र्यापत्तौ 'तोर्ल' इत्यत्र लकारेण वकारस्यापि ग्रहणात्तद्वानित्यत्र दकारस्य परसवर्णापत्तिः । 'यवलपरे यवला वा' इत्यत्र लकारग्रहणं तु यथासंख्यार्थं भविष्यति । न द्वितीयः, तथा सति कङयोः कण्ठस्थानसाम्येऽपि ङकारस्य नासिकास्थानाधिक्येन सावण्र्याभावापत्तौचोः कुः॑, क्विन्प्रत्ययस्य॑ इत्यत्र ङकारस्य ग्रहणानापत्त्या प्राङित्यादौ नुमो नकारस्य 'क्विन्प्रत्ययस्य' इति कुत्वेन ङकाराऽनापत्तेः । तस्मात्स्थ्ानसाम्यं दुर्निरूपमिति चेत्, अत्र ब्राऊमः — यावत्स्थानसाम्यमेव सावण्र्यप्रयोजकम् । एवं च इकारस्य एकारस्य च तालुस्थानसाम्येऽपि एकारस्य कण्ठस्थानाधिक्यान्न सावण्र्यम् । वलयोश्च न सावण्र्यम् । वकारस्य ओष्ठस्थानाधिक्यात् । एवं च ' तद्वानासाम्' 'यजुष्येकेषाम्' इत्यादिनिर्देशा उपपन्नाः । ङकारस्य नासिका स्थानाधिक्येऽपि ककारेण सावण्र्यमस्त्येव, आस्यमवस्थानसाम्यस्यैव सावण्र्यप्रयोजकत्वात्, नासिकायाश्च आस्यानन्तर्गतत्वात् । उक्तं च भाष्ये-किं पुनरास्यं, लोकिकमोष्ठात्प्रभृति प्राक्काकलकात् इति ।काकलको नाम चुबुकस्याधस्तात् ग्रीवायामुन्नतप्रदेशः॑ इति कैयटः । तस्मादास्यभवयावत्स्थानसाम्यं सावण्र्यप्रयोजकमिति शब्देन्दुशेखरे विस्तरः ।ननु तुल्यास्यसूत्रे प्रयत्नशब्देन प्रशब्दबलादाभ्यन्तरयत्नो विवक्षित इति स्थितम् । तत्राभ्यन्तरत्वविशेषणं किमर्थम्, व्यावर्त्त्याऽभावादित्यत आह-यत्नो द्विधेति । यत्नानामाभ्यन्तरत्वं बाह्रत्वं च वर्णोत्पत्तेः प्रागूध्र्वभावित्वमिति पाणिन्यादिशिक्षासु स्पष्टम् । आद्य इति । आभ्यन्तयत्न इत्यर्थः । कथं चातुर्विध्यमित्यत आह-स्पृष्टेति ।कस्य कः प्रयत्न इत्याकाङ्क्षायां तद्व्यवस्थापकशिक्षावचनानि पठति — तत्रेति । तेषु मध्य इत्यर्थः । प्रयतनमिति । प्रयत्न इत्यर्थः । स्पर्शादिशब्दानग्रे व्याख्यास्यति । ह्रस्वस्यावर्णस्य संवृतमित्यन्वयः । एतावदेव शिक्षावचनम् । नन्वेवं दण्ड-आढकमित्यत्र अकारस्य च विवृतसंवृतप्रयत्नभेदेन सावण्र्याऽभावात्सवर्णदीर्घो न स्यादित्यत आह-प्रयोग इति । शास्त्रीयप्रक्रियाभिः परिनिष्ठितानां रामः कृष्ण इत्यादिशब्दानां प्रयोगे क्रियमाण एव ह्रस्वस्याऽवर्णस्य संवृतत्वमित्यर्थः । प्रक्रियेति । शास्त्रीयकार्यप्रवृत्तिसमये तु ह्रस्वस्याप्यवर्णस्य विवृतत्वमेवेत्यर्थः । शिक्षावचनसिद्धं स्वाभाविकं ह्रस्वावर्णस्य संवृतत्वं प्रच्याव्य शास्त्रमूलभूते वर्णसमाम्नाये तस्य विवृतत्वेनैवोपदिष्टतया कृत्स्नशास्त्रीयप्रक्रियासमये ह्रस्वस्याप्यवर्णस्य विवृतत्वेन दण्डाठतमिच्यादौ सवर्णदीर्घादिकार्यं निर्बाधकमिति ऐउणिति सूत्रभाष्ये स्पष्टम् । एवंचह्रस्वस्याऽवर्णस्य संवृत॑मिति शिक्षावचनं परिशेषात्परिनिष्ठतदशायामेव पर्यवस्यतीति न तदानर्थक्यमिति भावः । अयं च शिक्षावचनसङ्कोचः सूत्रकारस्यापि संमत इत्याह-एतच्चेति॥ तदेवोपपादयितुं प्रतिजानीते-तथा हीति । यथा एतज्ज्ञापितं भवति तथा स्पष्टमुपपाद्यत इत्यर्थः ।
तुल्यशब्दोऽयं यद्यपि तुलया संमितं तुल्यमिति ङौवयोधर्म' इति यतमुत्पाद्य व्युत्पाद्यते, तथापि व्युत्पत्यर्थमेव तुलोपादीयते, रूढशब्दस्त्वयं प्रवीणः, प्रतिलोमादिवदित्याह-ऽतुल्यशब्दः सदृशपर्यायऽ इति । ननु ङौवयोधर्म' इत्यत्र वक्ष्यति - 'यथा तुला द्रव्यान्तरं परिच्छिनति, तथा तुल्यामपि सादृश्येन परिच्छिनतीत्येततुलया तुल्यस्य साधर्म्यम्' इति, सत्यम्; न ह्यएवं लौकिकाः प्रतियन्ति । तथा हि -'तुल्य' इत्युक्ते शदृश' इति प्रत्ययो भवति, न तु कश्चिदवयवार्थः प्रतीयते । ऽआस्ये भवमास्यमिऽति । लोकसिद्धं तावदास्यमोष्ठात्प्रभृति प्राक्काकलकाद्-अस्यन्ते क्षिप्यन्तेऽनेन वर्णा इति कृत्वा । काकलकं नाम ग्रीवाया उन्नतप्रदेशः । इह तु तस्मिन्नास्ये भवमास्यमित्यर्थः । 'दिगादिभ्यो यत्' 'शरीरावयवाच्च' इति यत्प्रत्ययः । किं पुनस्तदित्याह - ऽताल्वादिस्थानमिऽति । यस्मिन्वर्णा निष्पद्यन्ते तत् स्थानम् । आदिश्ब्देन नासिकादीनां ग्रहणम् । नासिकापि न बाह्या वर्णोत्पतिनिमितम्, किं तर्हि ? अन्तरास्ये चर्मविततमस्ति, पणवचर्मवत्, तत्संबद्धा रेखा नासिका, तस्यां वायुनाऽभिहतायां वर्णोत्पतिः । यदि पुनर्लौकिकमास्यं गःह्यएत, तदा तुल्यास्यप्रयत्नमिति द्वन्द्वगर्भो बहुव्रीहिः स्यात्-आस्यं च प्रयत्नश्च आस्यप्रयत्नौ, तौ तुल्यौ यस्येति; त्रिपदो वा बहुव्रीहिः - तुल्य आस्य प्रयत्नो यस्येति । तत्र द्वन्द्वगर्भे आस्यग्रहणं व्यर्थं स्यात्, सर्वेषां हि ततुल्यम् । विसर्जनीयस्यैकीयमतेनोरस्यत्वात् सावर्ण्याभावेऽपि न दोषः, त्रिपदे तु बहुव्रीहावास्येन प्रयत्नस्य विशेषितत्वादास्याद्वाह्याः प्रयत्ना हापिता भवन्ति, किन्तु ताल्वादिस्थानं तुल्यत्वेनाविशेषितं स्यात् । ततश्च भिन्नस्थानानामपि जबगडदानां सवर्णसंज्ञा प्राप्नोति । तत ऊर्ग्ज इति 'झरो झरि' इति गकारस्य जकारे लोपः स्याद् । अतस्तद्धितान्तस्यैव ग्रहणम् । तत्रापि यदि द्वन्द्वगर्भो बहुव्रीहिः स्यात्, स्थानेन प्रयत्नो न विशेषितः स्यात्; ततश्च ककारङ्कारयोर्मिथः सवर्णसंज्ञा न स्यात्; बाह्यप्रयत्नस्य भिन्नत्वात् । ततश्च शङ्कितेति 'अनुस्वारस्य ययि परसवर्णः' इति ङ्कारो न स्यात् । अथ सत्यपि बाह्यप्रयत्नभेदे आभ्यन्तरस्य प्रयत्नस्याभेदमाश्रित्य संज्ञा स्यात्, चकारशकारयोरपि सत्याभ्यन्तरभेदे बाह्याभेदमाश्रित्य सवर्णसंज्ञा प्राप्नोति । ततश्च अरुश्च्योततीति वक्ष्यमाणप्रत्युदाहरणं नोपपद्यते इतीमं दोषं दृष्ट्वा त्रिपदोऽयं बहुव्रीहिरिति दर्शयति - ऽतुल्य आस्ये प्रयत्नो यस्येऽति । तद्धितान्त आस्यशब्दो न स्वाङ्गवाच्येवेति'अमूर्द्धमस्तकात्' इत्यलुङ्न भवति । नन्वस्मिन्नपि पक्षे भिन्नविभक्तिकत्वात् प्राधान्याच्चास्यं तुल्यत्वेनाविशेषितं स्याद्; नैवात्रास्यं तुल्यतया विशेष्यते, भेदनिबन्धना हि तुल्यता । न च कखगघङं भिन्नं स्थानम्, एकत्वात्कण्ठस्य, किन्तु तद्धितान्तस्यास्यशब्दस्याश्रयणसामर्थ्यादस्य इत्येकत्वं विवक्षितम् । तेनैकस्मिन्नेव ताल्वादिके स्थाने यः प्रयत्नः, स तुल्यो ययोरित्याश्रयणान्न कश्चिद्दोषः । ऽसमानजातीयं प्रतीऽति । एतच्च संज्ञाविधानसामर्थ्याल्लभ्यते, अन्यथा यत्किञ्चनवर्णापेक्षया तुल्यास्याप्रयत्नत्वेन सवर्णत्वे लब्धे तदाश्रयमन्यस्यापि कार्यं स्यात्, सवर्णसंज्ञाविधानमनर्थकं स्यात् । न च रेफोष्मनिवृत्यर्थं वचनम्; रेफस्यापि रेफः सवर्ण एव, एवमूष्मस्वपि द्रष्टव्यम् । संबन्धिशब्दत्वाद्वा सम्बन्धिशब्दो हि तुल्यास्यप्रयत्नशब्दः, ततश्च यथा तुल्याय कन्या दातव्येत्युक्ते दात्रा तुल्यायेति गम्यते, तथेहापि । अथ वा, महती संज्ञा क्रियते; अन्वर्था यथा विज्ञायेत-समानएऽस्य वर्णः सवर्ण इति । यदि च समानजातीयमेव प्रति सवर्णसंज्ञा भवति, एवं समानोऽस्य वर्णो भवति । ऽचत्वारऽ इत्यादि । द्विविधाः प्रयत्नाः-बाह्याः, आभ्यन्तराश्च । तत्राभ्यन्तराश्चत्वारो वृतौ दर्शिताः । आभ्यन्तरत्वं पुनरेषाम्-स्थानकरणव्यापारेण; उत्पत्तिकाल एव भावात् । स्थानं ताल्वादि, करणं जिह्वाया अग्रोपाग्रमध्यमूलानि । बाह्याः पुनरेकादश-विवारः, संवारः, श्वासः, नादः, घोषः, अघोषः, अल्पप्राणः, महाप्राणः, उदातः, अनुदातः, स्वरितश्चेति । बाह्यत्वं पुनरेतेषाम् - वर्णनिष्पतिकालादूर्ध्वं वायुवशेनोत्पतेः । तत्र स्पृष्टकरणाः स्पर्शाः, कादयो मावसानाः स्पर्शाः । स्पृष्ट्ंअ स्पृष्टतागुणः, करणं कृतिरुच्चारणप्रकारः, स्पृष्टतानुगतं करणं येषां ते तथोक्ताः । एवमन्यत्रापि - ईषत्स्पृष्टकरणा अन्तःस्थाः; यरलवा अन्तःस्थाः । विवृतकरणा ऊष्माणः स्वराश्च; शपसहा ऊष्माणः, स्वराः सर्व एवाचः । वर्गाणां प्रथमद्वितीयाः; शषसविसर्जनीयजिह्वामूलीयोपध्मानीयाः; यमौ च प्रथमद्वितीयौ; विवृतकण्ठाः, श्वासानुप्रदानाः अघोषाः; वर्गयमानां प्रथमेऽल्पप्राणाः, इतरे महाप्राणाः । वर्गाणां तृतीयचतुर्थाः, अन्तःस्थाः, हकारानुस्वारौ,यमौ तृतीयचतुर्थौ संवृतकण्ठा नादानुप्रदाना घोषवन्तश्च । वर्गयमानां तृतीया अन्तःस्था अल्पप्राणाः, इतरे महाप्राणाः । यथा तृतीयास्तथा पञ्चमाः, आनुनासिक्यमेषामधिको गुणः । तत्र यमा नाम वर्गेष्वादितश्चतुर्णां पञ्चमेषु परतः त एव नासिक्या भवन्ति । तद्यथा - पलिक्रीरिन्, चख्नतुः, आग्मन्नायः, जघ्नतुः, अप्नस्वतीमित्यादि? । य एते द्विविधाः प्रयत्नाः, तेषामिह सवर्णसंज्ञायामाभ्यन्तराः स्पृष्टतादयश्चत्वार एवाश्रीयन्ते, न विवारादयो बाह्याः; आस्यग्रहणेन तेषां निवर्तितत्वात् । अ अ अ इत्यादि । अत्र सवर्णसंज्ञो भवतीति प्रकृतं बहुवचनान्तं विपरिणतमनुषज्यते, त्रयोऽकारा मिथः सवर्णंसंज्ञा भवन्तीत्यर्थः । कथं त्रयोऽकाराः, यावता प्रत्युच्चारणं भेदेऽनन्ताः, अभेदे त्वेक एव ? तत्राह - ऽउदातेऽति । अनेन प्रकारेण त्रय इत्यर्थः । एवं च 'त्रयः' इत्यस्य 'त्रिविधा'इत्यर्थो भवति । तत्राकुहविसर्जनीयाः कण्ठयाः, इचुयशास्तालव्याः, उपूपध्मानीया ओष्ठयाः, ऋटुअरषा मूर्द्धन्याः, लृतुलसा दन्त्याः, एऐ कण्ठ।ल्तालव्यौ, ओऔ कण्ठ।लेष्ठयौ, वकारो दन्तोष्ठयः-इत्येवं तुल्यस्थानप्रयत्नाः सर्वेऽकारादयो मिथः सवर्णसंज्ञा भवन्तीति । ऽअन्तःस्था । द्विप्रभेदाऽ इति । अत्रापि पूर्ववदनुषङ्गः, अन्तःस्था इत्युक्तेऽपि रेफनिवृत्यर्थं स्वरूपेण पठति । ऽयवला ऽइति । ऽरेफोष्मणां सवर्णा न सन्तीऽति । विजातीयाभिप्रायमेतत् । सजातीयास्तु रेफोष्माणस्तुल्यस्थानप्रयत्नास्सवर्णा भवन्त्येव । तत्र रेफस्य तावद्यवला भिन्नस्थाना ऋटुअरषा भिन्नप्रयत्ना अन्ये भिन्नस्थानप्रयत्नाः । एवमूष्मणामपि सवर्णाभावो वेदितव्यः । ऽवर्ग्यऽ इत्यादि । वर्गे भवो वर्ग्यः, दिगादित्वाद्यत् । ऽवर्ग्येणऽ - स्ववर्गान्तःपातिना । तद्यथा ककारः खकारेण । ऽतर्प्तेऽति । 'तृप् प्रीणने' । ऽइचुयशानामिऽति । एषां मध्ये येषां प्रसङ्गः, तेषां मा भूदित्यर्थः । ऽअरुश् श्च्योततीऽति । 'श्च्युतिर् क्षरणे' । अरुःशब्दस्य रुत्वविसर्जनीययोः 'वा शरि' इति सकारः, तस्यापि श्चुत्वे शकारः । ऽऋकारऌकारयोरिऽति । स्थानभेदान्न प्राप्नोतीत्यारम्भः । श्रुतत्वाच्चानयोरेवमिथः सवर्णसंज्ञा विधीयते, न त्वेतयोरन्येन सह । ऽहोतृकारऽ इति । कथं पुनरत्र समुदायिनोऽन्तरतमो भवति न समुदायस्य, तत्रापि ऋकारस्यैव न ऌकारस्येत्यत आह-ऽउभयोरिऽत्यादि । उभयोरन्तरतमो दीर्घो न सम्भवति, ऌकारस्यापि दीर्घो न सम्भवतीत्यत आञ्कार एव भवत्युभयोरित्यर्थः । ननु च नैतत्सवर्णसंज्ञायाः प्रयोजनम्, कथम् ? 'अकः सवर्णे' इत्यत्र तु वक्ष्यति 'ऋति ऋ वा वचनम्, लृति लृ वा वचनम्' इति । तत्र चायमर्थः-अकां सवर्णे ऋति परतो वा ऋ भवति; द्विमात्रोऽयम्, मध्ये द्वौ रेफौ तयोरेका मात्रा,अभितोऽज्भक्तेरपरा, ईषत्स्पृष्टश्चायम् । तत्र प्रयत्नभेदादृकारेणाग्रहणाद् अनण्त्वाद्दीर्घसंज्ञाया अभावादप्राप्तोऽयं विधीयते । लृति लृ वा वचनमित्ययमपि द्विमात्र ईषत्स्पृष्टश्च, मध्ये द्वौ लकारौ, तयोरेका मात्राऽभितोऽज्भक्तेरपरा । पूर्ववदप्राप्तौ विधीयते । तत्र ऋति ऋ वा वचनमित्यत्र वाशब्दो दीर्घस्य समुच्चयार्थः, तेनाप्राप्त एव दीर्घो भविष्यति । ननु यद्यविधायैव सवर्णसंज्ञां तदुच्यते, ततोऽक इति सम्बन्धादङ्मात्रस्य लृति तत्कार्य स्याद् दध्य्ऌकारो मध्व्ऌकार इति, संज्ञाविधाने तु ऋकार ऋकारस्यैव सवर्ण इति तत्रैव व्यवस्थितं भवति । तस्मादविधेया सवर्णसंज्ञा ? न विधेया, यदेतद् ऋतीति 'एतदृत इति वक्तव्यम्, सवर्ण इत्येव, ऋकारस्य ऋकार एव सवर्णः' इति ऋत्येव भविष्यति । तत लृति, ऋत इत्येव । इदं चासवर्णार्थम्, तेन लृति रूपद्वयं सिद्धम्-होतृकारः, होत्ऌकार इति । तन्न वक्तव्यं भवति । कथम् ? ऋ वा वचनम्, लृ वा वचनमिति ब्रुवतापि तयोरच्त्वं वक्तव्यम्; अन्यथा विधानमात्रमनयोः स्याद्, न त्वच्कार्यः प्लुतः । सति त्वच्त्वे ताभ्यां त्रिमात्रयोरपि सावर्ण्याद् ग्रहणे सति प्लुतसंज्ञा भवतीति प्लुतसिद्धिः । एवं च होतृ ऋकार इति ऋकारयो रेफद्वययुक्तत्वाद्विवृतत्वाच्च कदाचिद्रेफद्वययुक्त ऋ भविष्यति, कदाचिद्विवृतः शुद्धो दीर्घः । ऌकारेऽपि कदाचिदृकारान्तरतम ऋकारः, कदाचिद् ऌकारान्तरतम ऌकार इति, सत्यम्; सवर्णसंज्ञायां तन्न वक्तव्यं भवति, तद्वोच्येत, इदं वा, को न्वत्र विशेषः । इदं वाऽवश्यं वक्तव्यम्, इदमपि सिद्धं भवति 'ऋत्यकः' - खट्वाऌकारः, मातृऌकारः । 'वा सुप्यापिशलेः'-उपऌकारीयति, उपाल्कारीयतीति । ऋदिताम्लृदितां च धातूनां पृथगुपदेशसामर्थ्यादनुबन्धकार्याणअमसङ्करः ॥