1-1-7 हलः अनन्तराः संयोगः
अनन्तराः हलः संयोगः
स्वरस्य विरामस्य च व्यवधानं विना उच्चारितानां व्यञ्जनानां समूहः 'संयोगः' नाम्ना ज्ञायते ।
Group of two or more व्यञ्जनानि pronounced together without any स्वर or a pause between them is referred as संयोग.
भिन्नजातीयैरज्भिरव्यवहिताः श्लिष्टोच्चारिता हलः संयोगसंज्ञा भवन्ति। समुदायः संज्ञी। जातौ चेदं बहुवचनम्, तेन द्वयोर्बहूनां च संयोगसंज्ञा सिद्धा भवति। अग्निरिति गनौ। अश्व इति शवौ। कर्ण इति रणौ। इन्द्रश्चन्द्रो मन्द्र इति नदराः। उष्ट्रो राष्ट्रं भ्राष्ट्रमिति षटराः। तिलान्स्त्र्यावपतीति नसतरयाः, नतसतरया वा। हल इति किम्? तितउच्छत्रम्। <<संयोगान्तस्य लोपः>> ८.२.२३ इति लोपः स्यात्। अनन्तरा इति किम्? पचति। पनसम्। <<स्कोः संयोगाद्योः०>>८.२.२९ इति लोपः स्यात्। संयोगप्रदेशाः — <<संयोगान्तस्य लोपः>> ८.२.२३ इत्येवमादयः॥
अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः ॥
अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः॥
अष्टाध्याय्यां पाठितासु संज्ञासु अन्यतमा अस्ति 'संयोगः' इति संज्ञा । यत्र द्वे वा अधिकानि व्यञ्जनानि स्वरस्य विरामस्य वा व्यवधानं विना उच्चार्यन्ते, तत्र तेषाम् समूहस्य संयोगः इति संज्ञा भवति । कानिचन उदाहरणानि एतानि -
1. 'अग्नि' - इत्यत्र ग्+न् अयं संयोगः ।
2. 'ज्ञानम्' - इत्यत्र ज्+ञ् अयं संयोगः ।
3. 'कृष्णः' - इत्यत्र ष्+ण् अयं संयोगः ।
4. 'बुद्ध्या' - इत्यत्र द्+ध्+य् अयं संयोगः ।
5. 'दत्त्वा' - इत्यत्र त्+त्+व् अयं संयोगः ।
6. 'सूर्क्ष्य्' - इत्यत्र र्+क्+ष्+य् अयं संयोगः ।
7. 'पुत्त्र्या' - इत्यत्र त्+त्+र्+य् अयं संयोगः ।
8. 'कार्त्स्न्य' - इत्यत्र र्+त्+स्+न्+य् अयं संयोगः ।
<<हलोऽनन्तराः संयोगः>> - हलोऽनन्तराः संयोगः ।अन्तरशब्दोऽत्र व्यवधाने वर्तते । "अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये" इत्यमरः । व्यवधानं च विजातीयेनैव । अविद्यमानमन्तरं व्यवधानं येषामिति विग्रहः । नञोऽस्त्यर्थानामिति विद्यमानपदस्य लोपः । तदाह — अज्भिरित्यादिना । तत्र हलौ च हलश्च हल इत्येकशेषः । तेन द्वयोरपि संयोगसंज्ञा लभ्यते । ततश्च शिक्षेत्यत्र <<गुरोश्च हलः>> इत्यप्रत्ययः सिध्यति । अत्र च समुदायस्यैव संयोगसंज्ञा, महासंज्ञाकरणात्, व्याख्यानाच्च । नतु प्रत्येकम् । तथा सति 'सुदृषत्प्रासाद' इत्यत्र पकारसन्निधौ तकारस्य संयोगत्वापत्तौ संयोगान्तलोपापत्तेः । यत्र तु बहवो हलः श्लिष्टास्तत्रापि द्वयोर्द्वयोः संयोगसंज्ञा न तु बहूनामेवेति शब्देन्दुशेखरे स्पष्टम् ।
अन्तरमवकाशाविधिपरिधानान्तर्द्धिभेदतादर्थ्ये । च्छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च ॥ इत्यन्तरशब्दोऽनेकार्थः । इह च्छिद्रवाचिनो ग्रहणम्; इतरेषामसम्भवात् । न विद्यतेऽन्तरं येषां तेऽनन्तराःउनिश्च्छिद्राः । एतमेवार्थं व्यक्तेन शब्दान्तरेण दर्शयति-ऽभिन्नजातीयैरज्भिरव्यवहिताः श्लिष्टोच्चारिताऽ इति । एवम्भूता हि हलो निश्च्छिद्रा भवन्ति भिन्नजातीयैरिति वचनं तत्रैव व्यवधानप्रसिद्धेः । श्लिष्टोच्चारिता इति वचनादवग्रहेऽपि संज्ञा न भवति-अप्स्वित्यप्सु, विद्यते ह्यत्रान्तरमर्द्धमात्राकालः । ऽसंयोगऽ इति । यद्येकैकस्य हलः शिलष्टोच्चारितस्यैषा संज्ञा स्याद् ? इह च निर्यायादित्यत्र प्रत्येकं संज्ञित्वे सति रेफे यकारः संयोग इति 'वान्यस्य संयोगादेः' इत्येत्वं स्यात् । समुदायस्य संज्ञित्वे 'अचो रहाभ्याम्' इति यकारस्य सत्यपि द्विर्वचने तस्यासिद्धत्वादेत्वाभावः, इह च संस्कृषीष्ट 'ऋतश्च संयोगादेः' इतीट्, संस्क्रियत इति 'गुणोऽर्तिसंयोगाद्योः' इति गुणः, दृषत्करोतीति ककारसंनिधौ दकारस्य संयोगाद्योः'? इति लोपः स्यात्, निर्यात इति शंयोगादेरातः' निष्ठानत्वं स्यात्; समुदाये तु संज्ञिनि नैते दोषा इत्यालोच्याह - ऽसमुदायः संज्ञीऽति । महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम्-शंयुज्यन्तेऽस्मिन्मिथो हलः' इति । नैरन्तर्यं च श्रुतं संज्ञिरूपेऽनुप्रविशतीति युक्तम् । प्रत्येकपक्षे तु तदुपलक्षणं स्याद् । अतः समुदाय एव संज्ञी युक्त इति भावः । 'हलः' इति बहुवचननिर्द्देशाद् द्वयोः संज्ञा न स्यादित्याशङ्क्याह - ऽजातौ चेऽति । च शब्दो यस्मादर्थे, यस्माज्जातौ बहुवचनम्, तेन द्वयोर्बहूनां चेति । अथ यत्र बहवो हलः संश्लिष्टास्तत्र किं द्वयोर्बहूनां चाविशेषेण संज्ञा ? आहोस्विद्वहूनामेव ? यदि बहूनामेव, इह 'मस्जिनशोर्झलि' इत्यन्त्यादचः परे नुमि मन्स्ज् इति स्थिते नसजानामेका संज्ञा, न तु सजयोरिति श्कोः संयोगाद्योः' इति सलोपो न स्यात्, नैष दोषः; मस्जेरन्त्यात् पूर्वं नुमेषितव्यः, मग्न इत्युपधालोपो यथा स्यात्; अन्यथा द्वयोस्संज्ञाश्रयेण सत्यपि संयोगादिलोपे तस्यासिद्धत्वान्नलोपो न स्याद् । इह तर्हि निर्ग्लेयात्, संस्वरिषीष्ट, संस्वर्यते, निर्ग्लान इति एत्वेड्गुणनिष्ठानत्वानि न स्युः ? अस्तु तर्ह्यविशेषेण, कुतः ? निश्च्छिद्रत्वस्याविशेषात् !न च द्विर्वचनन्यायेन समुदायस्यैव स्यादिति वाच्यम्; यथा द्विर्वचनं समुदायावयवैकाचोर्युगपत् कर्तुमशक्यम्, नैवमत्राशक्तिः, यथा च समुदाये द्विरुक्तेऽवयवा अपि द्विरुक्ता भवन्ति - वृक्षः प्रचलन् सहावयवैः प्रचलतीति न्यायेन , न च तथेह समुदाये प्रवृतया संज्ञयाऽवयवानां तत्कार्यसिद्धिः । अतो नायं द्विर्वचनन्यायस्य विषयः । अतोऽविशेषेण द्वयोर्बहूनां चेति स्थितम् । यद्येवम्, इन्द्रमिच्छति इन्द्रीयति, ततः सन् इन्दिद्रीयिषतीत्यत्र द्वौ संयोगौ-नदौ, दरौ च; तत्र ङ न्द्राः' इति प्रतिषेधो नकारवद्दकारस्यापि स्यात् । न वाज्विधेः, अजादेरिति वर्तते, तत्र कर्मधारयात् पञ्चमी, आदेरचः परे नदरा न द्विरुच्यन्त इत्यर्थः । ऊग्नि?रित्यादीनि रूपोदाहरणानि । ऽतिलान्त्स्त्र्यावपतीऽति । 'हे मपरे वा' इति वर्तमाने 'डः सि धुट्' इति च ङश्च' इति धुट् चर्त्वम् । तत्र यदा न धुट्, तदा नसतरयाः; यदा धुट् तदा नतसतरयाः । ऽतितौच्छत्रमिऽति । 'तनोतेर्डौः सन्वच्च' इति डौप्रत्ययः, व्यस्तोच्चारणसामर्थ्याद् गुणाभावः, सन्वद्भावाद् द्विर्वचनमित्वं च, टिलोपः । ऽसंयोगान्तलोपः स्यादिऽति । यद्यचोरप्यनन्तरयोः संयोगसंज्ञा स्यादिति भावः । ननु च 'छे च' इति तुकि कृते तकारः पदान्तो न संयोगः, नैतदस्ति, 'छे च' इत्ययं तुग् ह्रस्वमात्रभक्तो न तदन्तग्रहणेन गृह्यत इति पदं संयोगान्तमेव । पचतीति रूपप्रत्युदाहरणम् । पनसमिति कार्यप्रत्युदाहरणम् । ऽस्कोस्संयोगाद्योरिति लोपः स्यादिऽति । यदि सकारमकारयोः सान्तरयोरपि संयोगसंज्ञा स्यादिति भावः ॥