सुधितवसुधितनेमधितधिष्वधिषीय च

7-4-45 सुधितवसुधितनेमधितधिष्वधिषीय च किति छन्दसि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सुधित वसुधित नेमधित धिष्व धिषीय इत्येतानि छन्दसि विषये निपात्यन्ते। तत्र सुधित वसुधित नेमधित इति सुवसुनेमपूर्वस्य दधातेः क्तप्रत्यय इत्त्वम् इडागमो वा प्रत्ययस्य निपात्यते। गर्भं माता सुधितम्। सुहितम् इति प्राप्ते। वसुधितमग्नौ जुहोति। वसुहितम् इति प्राप्ते। नेमधिता बाधन्ते। नेमहिता इति प्राप्ते। धिष्व इति लोण्मध्यमैकवचने दधातेः इत्त्वम् इडागमो वा प्रत्ययस्य द्विर्वचनाभावश्च निपात्यते। धिष्व स्तोमम्। धत्स्व इति प्राप्ते। धिषिय इति आशीर्लिङि आत्मनेपदोत्तमैकवचने दधातेः इत्त्वम्, इडागमो वा प्रत्ययस्य निपात्यते। धिषीय। धासीय इति प्राप्ते।

Siddhanta Kaumudi

Up

सु वसु नेम एतत्पूर्वस्य दधाते क्तप्रत्यये इत्वं निपात्यते । गर्भं माता सुधितं वक्षणासु (गर्भं॑ मा॒ता सुधि॑तं व॒क्षणा॑सु) । वसुधितमग्नौ । नेमधिता न पौंस्या (ने॒मधि॑ता॒ न पौंस्या॑) । क्तिन्यपि दृश्यते । उत श्वेतं वसुधितिं निरेके (उ॒त श्वे॒तं वसु॑धितिं निरे॒के) । धिष्ववज्रं दक्षिण इन्द्र हस्ते (धि॒ष्ववज्रं॒ दक्षि॑ण इन्द्र॒ हस्ते॑) । धत्स्वेति प्राप्ते । सुरेता रेतो धिषीय । आशीर्लिङि इट् । इटोऽत् <{SK2257}> । धीसीयेति प्राप्ते । अपोभि <{SK442}> ।<!मासश्छन्दसीति वक्तव्यम् !> (वार्तिकम्) ॥ माद्भिः । शरद्भिः (श॒रद्भिः॑) ।<!स्ववःस्वतवसोरुषसश्चेष्यते !> (वार्तिकम्) ॥ स्ववद्भिः (स्वव॒द्भिः) । समुषद्भिरजायथाः (समु॒षद्भि॑रजायथाः) । मिथुनेऽसिः । वसेः उषः किदिति प्राग्व्याख्यातम् । व कवतेर्यङि <{SK2641}> ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

इडागमो वेति । यदा इडागमः, तदा ठातो लोप इटि चऽ इत्याकारलोपः । वसुधितमिति । कर्मधारयः । क्तिन्यपि दृश्यते - उत त्वेतं वसुधितिं निरेके । नेमधितमिति । अयमपि कर्मधारयः । धत्स्वेति ।'श्नाभ्यस्तयोरातः' इत्याकारलोपः,'दधस्तथोश्च' इति भष्भावः ॥