द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्

2-4-2 द्वन्द्वः च प्राणितूर्यसेनाङ्गानाम् एकवचनम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

एकवचनमिति वर्तते। अङ्गशब्दस्य प्रत्येकं वाक्यपरिसमाप्त्या त्रीणि वाक्यानि संपद्यन्ते। प्राण्यङ्गानां द्वन्द्व एकवद् भवति, तथा तूर्याङ्गानां सेनाङ्गानां च। प्राण्यङ्गानां तावत् — पाणिपादम्। शिरोग्रीवम्। तूर्याङ्गानाम् — मार्दङ्गिकपाणविकम्। वीणावादकपरिवादकम्। सेनाङ्गानाम् — रथिकाश्वारोहम्। रथिकपादातम्। हस्त्यश्वादिषु परत्वात् पशुद्वन्द्वे विभाषयैकवद् भवति। इतरेतरयोगे समाहारे च द्वन्द्वो विहितः। तत्र समाहारस्यैकत्वात् सिद्धमेवैकवचनम्। इदं तु प्रकरणं विषयविभागार्थम्। प्राण्यङ्गादीनां समाहार एव द्वन्द्वः। दधिपय आदीनामितरेतरयोग एव। वृक्षमृगादीनामुभयत्रेति॥

Siddhanta Kaumudi

Up

एषां द्वन्द्व एकवत्स्यात् । पाणिपादम् । मार्दङ्गिकपाणविकम् । रथिकाश्वारोहम् । समाहारस्यैकत्वादेकत्वे सिद्धे नियमार्थं प्रकरणम् । प्राण्यङ्गादीनां समाहार एव यथा स्यात् ॥

Laghu Siddhanta Kaumudi

Up

एषां द्वन्द्व एकवत्। पाणिपादम्। मार्दङ्गिकवैणविकम्। रथिकाश्वारोहम्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्>> - द्वन्द्वश्च प्राणि ।प्राणितूर्यसेनाङ्गानी॑ति द्वन्द्वगर्भषष्ठीसमासः । द्वन्द्वान्ते श्रूयमाणोऽङ्गशब्दः प्रत्येकं संबध्यते, इत्यभिप्रेत्याह — एषामिति । प्राण्याङ्गानां तूर्याङ्गानां सेनाङ्गानां चेत्यर्थः । द्वन्द्व इति । समाहारद्वन्द्व इत्यर्थः ।द्विगुरेकवचन॑मिति पूर्वसूत्रेसमाहारग्रहणं कर्तव्य॑मिति वार्तिकस्यात्राप्यनुवृत्तेः । एकवदिति ।एकवचन॑मित्यनुवर्तते । एकं वक्तीत्येकवचनम् । ल्युट् । सामान्याभिप्रायं नपुंसकम् । पाणिपादमिति । पाण्योः पादयोश्च समाहार इति विग्रहः । अत्र समाहारे एकवत्त्वं,स नपुंसक॑मिति नपुंसकत्वं च । पाण्योः पादयोश्च प्राण्यवयवत्प्राण्यङ्गोदाहरणमिदम् । अत तूर्याङ्गद्वन्द्वे उदाहरति — मार्दङ्गिकपाणविकमिति । मृगङ्गपणवशब्दौ वाद्यविशेषपरौ । इह तु तद्वादनेऽपि वर्तेते । मृदङ्गवादनं शिल्पमस्येत्यर्थेशिल्प॑मिति ठक् । मार्दङ्गिकपाणविकयोः समाहार इति विग्रहः । तूर्याङ्गत्वादेकवचनम् । तूर्याङ्गत्वं च तद्वादकतया बोध्यम् ।स नपुंसक॑मिति नपुंसकत्वम् । सेनाङ्गद्वन्द्वे उदाहरति — रतिकाआआरोहमिति । रथेन चरन्तीति रथिकाः ।पर्पादिभ्यः ष्ठन् । रथिकानामआआरोहाणा च समाहार इति विग्रहः । सेनावयवत्वादेकवत्त्वम् । पूर्ववन्नपुंसकत्वम् । ननु समाहारद्वन्द्वे समाहारस्य इति विग्रहः । सेनावयवत्वादेकवत्त्वम् । पूर्ववन्नपुंसकत्वम् । ननु समाहारद्वन्द्वे समाहरस्य विशेष्यत्वात्तस्य चैकत्वादिदं सूत्रं व्यर्थमित्यत आह — समाहारस्यैकत्वादिति । समाहार एवेति । न त्वितरेतरयोगः । एषां द्वन्द्वे नियमार्थं सूत्रमित्यर्थः । एवमुत्तरसूत्राण्यपि समाहर एवेति नियमार्थानि । नचेतरेतरयोगद्वन्द्वे एषामेकवत्त्वविधानार्थमिदं सूत्रमस्तु । तथा च 'पाणिपाद' इति पुंलिङ्गमेकवचनान्तं रूपं फलमिति वाच्यं,समाहारग्रहणं कर्तव्य॑मिति पूर्वसूत्रस्थवार्तिकस्यात्रानुवृत्तेः, एकवद्भावप्रकरणेऽस्मिन् सर्वत्र समाहारद्वन्द्वानामेव भाष्ये उदाहृतत्वाच्चा । नच रथिकमार्दङ्गिकावित्यादावतिप्रसङ्गः शङ्क्यः, प्राण्यङ्गानां परस्परद्वन्द्व एकवत्, तूर्याङ्गानां परस्परद्वन्द्व एकवत्, सेनाह्गानां परस्परद्वन्द्व एकवदित्यभ्युपगमादिति भाष्ये स्पष्टम् ।

Padamanjari

Up

द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्॥ इह यस्य द्वन्द्वस्य कश्चिदवयवः प्राण्यङ्गवाची, कश्चितूर्याङ्गवाची, कश्चित्सेनाङ्गवाची; यथा - पाणिमार्दङ्गिकाश्वारोहा इति, स व्यतिकीर्णावयवोऽपि प्राण्यङ्गादीनां द्वन्द्वी भवत्येवेत्येकवद्भावः प्राप्नोति, तत्राह - अङ्गशब्दस्येत्यादि। ननु पूर्वपक्षेऽपि प्रत्येकमेव परिसमाप्तिरङ्गशब्दस्य, न हिप्राणितूर्यसेनानामेकमङ्गं सम्भवति? एवं तर्ह्यङ्गानामेव रूपस्य बहुवचनान्तस्य सतोऽङ्गशब्दस्य प्रत्येकं सम्बन्धः, न तु प्रत्येकपरिसमाप्तस्य पश्चाद्वहुवचनसम्बन्धः। त्रीणि वाक्यानि संपद्यन्त इति। सूत्रं तु तेषामेव ग्रहणकवाक्यमिति भावः। तत्र प्रथमेन वाक्येन प्राण्यङ्गानां प्राण्यङ्गयोरेव द्वन्द्वः कृतस्तस्यैकवद्भावो विधीयते, द्वितीयेन तूर्याङ्गानां तूर्याङ्गैरेव, तृतीयेन सेनाङनां सेनाङ्गैरेवेति न संकरप्रसङ्गः। तथा तूर्याङ्गानामिति द्वन्द्व एकवद्भवतीत्यपेक्षते, अत्राङ्गब्द उपकारकवचनः पूर्वत्रोतरत्र चावयववचनः सेनाङ्गानां चेति पूर्ववदपेक्षा। पाणिपादमिति। अत्र'जातिरप्राणिनाम्' इत्येव सिद्धे व्यतिकरनिरासार्थं वचनम्। मार्दङ्गिकपाणविकमिति।'शिल्पम्' इति ठक्। वीणावादकएति।'नित्यं क्रीडाजीविकयोः' इति समासः, विपञ्ची परिवादिनी, तज्जीविकःउ परिवादकः। पणवमृदङ्गमित्यादौ तु'जातिरप्राणिनाम्' इत्येव सिद्धम्। रथिकाश्वारोहमिति। कथं रथवाजिपतिकरिणीसमाकुलमिति, यावतैकवद्भावे सति नपुंसकह्रस्वत्वेन भाव्यम्? निरङ्कुशाः कवयः। रथवाजिपतिसहिताः करिण्यो रथवाजिपतिकरिण्यस्ताभिः समाकुलमिति वा समर्थनीयम्। द्वन्द्वश्चेत्यारभ्य'विभाषा समीपे' इत्यन्तस्य प्रकरणस्यानारम्भणीयतां शङ्कतेइतरेतरयोग इत्यादि। सिद्धमेवैकवचनमिति। ततश्चानारम्भणीयं प्रकरणमिति भावः। परिहरति - इदं त्विति। कः पुनरसौ विषयविभाग इत्याह - प्राण्यङ्गादीनामिति। कथं पुनः प्राण्याङ्गादीनां द्वन्द्व एकवचनो भवतीत्यस्य वचनस्य प्राण्यङ्गादीनां समाहार एवेत्यर्थो भवतीति? वचनव्यक्तिभेदात्। एवं ह्यत्र वचनं व्यज्यते - य एकवचनो द्वन्द्वः स एषां भवतीति, न पुनः प्राण्यङ्गादीनां यो द्वन्द्व इत्यनूद्य तस्यैकवचनता विधीयते। एकवचनान्तश्च द्वन्द्वः समाहारद्वन्द्वः, स प्राण्यङ्गदीनामपि'चार्थे द्वन्द्वः' इत्येव सिद्ध इति स एवैषामिति नियमः संपद्यते; दधिपय आदिष्वपि येषां ब्रह्मप्रजापत्यादीनामनेन प्रकरणेन नियमस्याप्राप्तिस्तेषां तावत्'चार्थे द्वन्द्वः' इत्यनेन प्राप्तो द्वन्द्वः प्रतिषिध्यते। य एकवचनो द्वन्द्वः स एषां न भवतीति वचनव्यक्त्या श्रयेण येषामपि दधिपयसी इत्यादीनां'जातिरप्राणिनाम्' इति नियमस्य प्राप्तिस्तेषाम् ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति यद्यपि नियमस्य प्रतिषेधो युक्तः, तथापि ब्रह्मप्रजापत्यादिभिः साहचर्यादेकवचनो द्वन्द्व इत्येतावन्मात्रस्यापेक्षणात्समाहारद्वन्द्व एव प्रतिषिध्यते, न नियमः। वृक्षादिविभाषाप्रयोजनं तु तत्रैव वक्ष्यामः। अथैवं कस्मान्न विज्ञायते - इतरेतरयोगपक्षेऽप्राप्त एकवद्भावो विधीयत इति? उच्यते - यदीतरेतरयोगविहितद्वन्द्वस्यैकवद्भावो विधीयेत,'द्वन्द्वाच्चुदषहान्त' इत्यादिना समाहारनिबन्धनं कार्थ न स्याद्। दधिपयाअदिषु तु यस्य द्वन्द्वस्यैकवचनप्राप्तिस्तस्य प्रतिषिध्येतेति समाहारद्वन्द्वस्यैकवचनतायां प्रतिषिद्धायामपि द्वित्वबहुत्वाभावाद् द्विवचनबहुवचने न स्यातामतो नियम एवाङ्गीकर्तव्यः। अत्र च व्याख्यानमेव शरणम्। अथ नियमोऽपि भवन्नेवमेव कस्माद्भावति - प्राण्यङ्गादीनां समाहार एवेति? न पुनः - -प्राण्यङ्गादीनामेव समाहार इति? उच्यते - एवं हि विज्ञायमाने दधिपयाअदिषु येषामनेन प्रकरणेन नियमो न प्राप्नोति तेषु प्रतिषेधोऽनर्थकः स्यात् तिष्यपुनर्वस्वोरिति बुवचनग्रहणमनर्थकं स्यात्। तद्धितसमाहारद्वन्द्वपक्षे तिष्यपुनर्वस्विदमित्यत्रैकवचनस्य प्रसङ्गे द्विवचनं मा भूदित्येवमर्थम् यदि च त्वदुक्तो नियमः स्यातिष्यपुनर्वस्वोरत्र प्रकरणेऽसङ्कीर्तितयोः समाहारद्वन्द्वाभावादनर्थकं तत्स्यात्, अतो वृत्तिकारोक्तमेव नियमस्वरूपमिति निरवद्यम्॥