दीर्घादाचार्याणाम्

8-4-52 दीर्घात् आचार्याणाम् पूर्वत्र असिद्धम् संहितायाम् द्वे

Sampurna sutra

Up

दीर्घात् यरः द्वित्वम् न - आचार्याणाम्

Neelesh Sanskrit Brief

Up

भिन्नानाम् आचार्याणाम् मतेन दीर्घवर्णात् परस्य यर्-वर्णस्य द्वित्वं न भवति ।

Neelesh English Brief

Up

According to various experts, a यर्-letter following a दीर्घ letter does not undergo द्वित्वम्.

Kashika

Up

दीर्घादुत्तरस्याचार्याणां मतेन न द्वित्वं भवति। दात्रम्। पात्रम्। मूत्रम्। सूत्रम्॥

Siddhanta Kaumudi

Up

द्वित्वं न । दात्रम् । पात्रम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<अचो रहाभ्यां द्वे>> 8.4.46 तथा च <<अनचि च>> 8.4.47 इत्यनयोः द्वयोः सूत्रयोः यर्-वर्णस्य पाठितं द्वित्वम् <<नादिन्याक्रोशे पुत्रस्य>> 8.4.48 इत्यतः <<दीर्घादाचार्याणाम्>> 8.4.52 इत्येतैः पञ्चभिः सूत्रैः विशिष्टासु अवस्थासु निषिध्यते । अस्मिन् द्वित्वनिषेधे प्रकरणे विद्यमानम् इदं पञ्चमम् (अन्तिमम्) सूत्रम् । दीर्घवर्णात् परस्य यर्-वर्णस्य द्वित्वं न भवति — इति अस्य सूत्रस्य आशयः । यथा, 'दात्रम्', 'पात्रम्' इत्यादिषुर आकारात् (दीर्घस्वरात्) अनन्तरम् विद्यमानस्य तकारस्य <<अनचि च>> 8.4.47 इत्यनेन विहितम् द्वित्वम् न भवति । मतप्रतिपादनार्थम् इदं सूत्रम् अस्मिन् सूत्रे 'आचार्याणाम्' इति शब्देन पाणिनिः केषाम् आचार्याणाम् निर्देशं करोति इति अत्र स्पष्टं नास्ति । परन्तु यर्-वर्णस्य द्वित्वस्य विषये पाणिनेः यत् मतम्, तस्मात् भिन्नम् मतम् केषाञ्चन आचार्याणाम् वर्तते इति ज्ञापयितुम् (to acknowledge the difference of opinions) पाणिनिना इदं सूत्रं स्थापितम् अस्ति । अतएव न्यासकारः अत्र 'नित्यार्थः अयम् आरम्भः' इति ब्रूते । पाणिनेः मतेन यत्र वैकल्पिकं द्वित्वम्, तत्र केषाञ्चन मतेन नित्यं द्वित्वनिषेधः - इति अस्य आशयः ।

Balamanorama

Up

Padamanjari

Up

दात्रमित्यादौ ठनचि चऽ इति प्राप्तिः ॥