अव्ययसर्वनाम्नामकच् प्राक् टेः

5-3-71 अव्ययसर्वनाम्नाम् अकच् प्राक् टेः प्रत्ययः परः च आद्युदात्तः च तद्धिताः तिङः कः

Sampurna sutra

Up

index: 5.3.71 sutra: अव्ययसर्वनाम्नामकच् प्राक् टेः


तिङः, अव्यय-सर्वनाम्नाम्, सुपः अकच् प्राक् टेः

Neelesh Sanskrit Brief

Up

index: 5.3.71 sutra: अव्ययसर्वनाम्नामकच् प्राक् टेः


अव्ययानाम् सर्वनामशब्दानाम् तिङन्तानाम् च विषये प्राग्-इवीयेषु विषयेषु स्वार्थे क-प्रत्ययस्य अपवादरूपेण अकच्-प्रत्ययः टेः प्राक् भवति ।

Neelesh English Brief

Up

index: 5.3.71 sutra: अव्ययसर्वनाम्नामकच् प्राक् टेः


For an अव्यय, a सर्वनामशब्द and a तिङ्गन्त word the प्रत्यय 'अकच्' comes just before the 'टि'संज्ञक component of that word under all the प्राग्-इवीय meanings.

Kashika

Up

index: 5.3.71 sutra: अव्ययसर्वनाम्नामकच् प्राक् टेः


तिङश्च 5.3.56 इत्येव। अव्ययानाम् सर्वनाम्नां च प्रागिवीयेष्वर्थेषु अकच् प्रत्ययो भवति, स च प्राक् टेः, न परतः। कस्य अपवादः। उच्चकैः। नीचकैः। शनकैः। सर्वनाम्नः खल्वपि सर्वके। विश्वके। उभयके। प्रातिपदिकात्, सुपः इति द्वयमपि इह अनुवर्तते। तत्र अभिधानतो व्यवस्था भवति। क्वचित् प्रातिपदिकस्य प्राक् टेः प्रत्ययो भवति, क्वचित् सुबन्तस्य। युष्मकाभिः , अस्मकाभिः, युष्मकासु, अस्मकासु, युवकयोः, आवकयोः, इत्यत्र प्रातिपदिकस्य। त्वयका, मयका, त्वयकि, मयकि इत्यत्र सुबन्तस्य। अकच्प्रकरणे तूष्णीमः काम्प्रत्ययो वक्तव्यः। स च मित्त्वादन्त्यातचः परो भवति। तुष्णीकामास्ते। तूष्णीकां तिष्ठति। शीले को मलोपश्च वक्तव्यः। तूष्णींशीलः तूष्णीकः। तिङश्च 5.3.56 इति प्रकृतमत्र सम्बध्यते। पचतकि। जल्पतकि।

Siddhanta Kaumudi

Up

index: 5.3.71 sutra: अव्ययसर्वनाम्नामकच् प्राक् टेः


तिङश्च <{SK2002}> इत्यनुवर्तते ॥

Laghu Siddhanta Kaumudi

Up

index: 5.3.71 sutra: अव्ययसर्वनाम्नामकच् प्राक् टेः


कापवादः। तिङश्चेत्यनुवर्तते॥

Neelesh Sanskrit Detailed

Up

index: 5.3.71 sutra: अव्ययसर्वनाम्नामकच् प्राक् टेः


इवे प्रतिकृतौ 5.3.96 इति यावत् ये सन्दर्भाः प्रोक्ताः सन्ति, तेषु सर्वेषु प्रागिवात् कः 5.3.70 इत्यनेन सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण 'क' इति प्रत्ययः विधीयते । परन्तु अव्ययसंज्ञकेभ्यः सर्वनामसंज्ञकेभ्यः च शब्देभ्यः एतम् क-प्रत्ययम् बाधित्वा वर्तमानसूत्रेण 'अकच्' इति प्रत्ययः विधीयते । तथा च, अस्मिन् सूत्रे 'तिङः' इत्यस्यापि अनुवृत्तिः स्वीक्रियते, अतः अयम् प्रत्ययः तिङन्तेभ्यः अपि भवितुमर्हति ।

अस्य 'अकच्' प्रत्ययस्य कश्चन विशेषः आदौ एव ज्ञेयः - अयम् प्रत्ययः यद्यपि परश्च 3.1.2 अस्मिन् अधिकारे उक्तः अस्ति, तथापि विधानसामर्थ्यात् अयम् प्रत्ययः टिसंज्ञकात् पूर्वम् विधीयते ।

'अकच्' प्रत्यये चकारः इत्संज्ञकः अस्ति, ककारोत्तरः अकारः उच्चारणार्थः अस्ति । प्रक्रियायाम् द्वयोः लोपः भवति, 'अक्' इत्येव अवशिष्यते ।

कानिचन उदाहरणानि पश्यामः -

[अ] अव्ययसंज्ञकेभ्यः अकच्-प्रत्ययविधानम् -

अव्ययसंज्ञकेभ्यः शब्देभ्यः अकच्-प्रत्यये कृते ये शब्दाः सिद्ध्यन्ति, तेऽपि अव्ययसंज्ञकाः एव भवन्ति । उदाहरणानि एतानि -

  1. 'उच्चैस्' इत्यस्मात् अव्ययात् अज्ञाते 5.3.73 इत्यनेन स्वार्थे क-प्रत्यये प्राप्ते वर्तमानसूत्रेण तं बाधित्वा 'अकच्' इति प्रत्ययः भवति । अयम् प्रत्ययः अङ्गस्य टि-संज्ञकात् पूर्वम् विधीयते । यथा -

अज्ञातः उच्चैः [अज्ञाते 5.3.73 इति प्रत्ययविधानम्]

= उच्चैस् + अकच् [अकच्-प्रत्ययविधानम्]

उच्च् + अकच् + ऐस् ['उच्चैस्' इत्यत्र 'ऐस्' इति टि-संज्ञकः अस्ति, अतः अकच्-प्रत्ययः अस्मात् पूर्वम् विधीयते ।]

→ उच्च् + अक् + ऐस् [चकारस्य इत्संज्ञा, ककारोत्तरः अकारः उच्चारणार्थः । उभयोः लोपः]

→ उच्च् + अकैस्

→ उच्चकैस्

→ उच्चकैः [सकारस्य रुत्वम्, विसर्गः]

  1. नीचैस् + अकच् → नीचकैः ।

  2. शनैस् + अकच् → शनकैः ।

[आ] सर्वनामसंज्ञकेभ्यः अकच्-प्रत्ययविधानम् -

वर्तमानसूत्रेण विहितः अकच्-प्रत्ययः सर्वनामशब्दानाम् विषये सुप्-प्रत्ययान्तरूपात् विधीयते, न हि प्रातिपदिकात् । अस्य स्पष्टीकरणार्थम् विभाषा सुपो बहुच् पुरस्तात्तु 5.3.68 इत्यस्मात् 'सुप' इतस्य अनुवृत्तिः क्रियते । कानिचन उदाहरणानि एतानि -

1) सर्वे + अकच् ।

→ सर्व् + अक् + ए

→ सर्वके ।

  1. तौ + अकच्

→ त् + अकच् + औ

→ तकौ

  1. एषः + अकच्

→ एष् + अक् + अः

→ एषकः

  1. तेभ्यः + अकच्

→ तेभ्य् + अक् + अः

→ तेभ्यकः

  1. त्वया + अकच्

→ त्वय् + अक् + आ

→ त्वयका

विशेषः -

  1. 'किम्' सर्वनाम्नः विषये अकच्-प्रत्ययः नित्यम् प्रातिपदिकस्य टि-संज्ञकात् प्राक् एव भवति, तथा च अकच्-प्रत्ययस्य प्रयोगेण निर्मितम् यत् प्रातिपदिकम्, तस्यापि सुबन्तप्रक्रियायाम् किमः कः 7.2.103 इत्यनेन ककारादेशः विधीयते । यथा -

किम् + अकच् + सुँ

→ ककिम् + सुँ [अकच्-प्रत्ययस्य 'किम्' इत्यस्य टेः पूर्वम् योजनम् क्रियते]

→ क + सुँ [किमः कः 7.2.103 इत्यनेन 'ककिम्' इत्यस्यापि ककारादेशः भवति]

→ कः ।

इत्युक्ते, 'किम्' सर्वनाम्नः विषये अकच्-प्रत्ययान्तस्यापि रूपाणि सर्वत्र मूलशब्दवत् एव भवन्ति ।

  1. 'युष्मद्' तथा 'अस्मद्' एतयोः सर्वनामशब्दयोः विषये अत्र एकं वार्त्तिकम् ज्ञातव्यम् -<!ओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच् ; अन्यत्र तु सुबन्तस्य टेः प्रागकच् !> । अस्य अर्थः अयम् - यदि युष्मद् तथा अस्मद् शब्दाभ्याम् ओकारादिः / भकारादिः / सकारादिः सुप्-प्रत्ययः विधीयते, तर्हि वर्तमानसूत्रेण पाठितः अकच्-प्रत्ययः सर्वनामशब्दात् (= प्रातिपदिकात्) विधीयते, न हि सुबन्तात् । अन्येषु विभक्तिप्रत्ययेषु परेषु तु सुबन्तात् एव प्रत्ययविधानं भवति । यथा -

अ) 'युष्माभिः + अकच्' इत्यत्र विभक्तिप्रत्ययः 'भिस्' इति भकारादिः अस्ति । अतः अत्र सुबन्तात् अकच्-प्रत्ययः न विधीयते, अपितु प्रातिपदिकात् आदौ अकच्-प्रत्ययं योजयित्वा ततः भिस्-प्रत्ययः प्रयोक्तव्यः । यथा -

युष्माभिः + अकच्

→ युष्म् + अकच् + अद् + भिस्

→ युष्मकाभिः

यदि अत्र सुबन्तात् परः अकच्-प्रत्ययः अभविष्यत्, तर्हि अत्र 'युष्माभकिः' इति अनिष्टम् रूपम् स्यात् ।

आ) अस्मासु + अकच् इत्यत्र 'सुप्' इति सकारादिप्रत्ययः अस्ति, अतः अत्रापि प्रातिपदिकात् परः अकच्-प्रत्ययः भवति । यथा -

अस्मासु + अकच्

→ अस्म् + अकच् + अद् + सुप्

→ अस्मकासु

यदि अत्र सुबन्तात् परः अकच्-प्रत्ययः अभविष्यत्, तर्हि अत्र 'अस्मासकु' इति अनिष्टम् रूपम् स्यात् ।

इ) 'युवयोः + अकच्' इत्यत्र विभक्तिप्रत्ययः 'ओस्' इति ओकारादिः अस्ति । अतः अत्रापि प्रातिपदिकात् एव अकच्-प्रत्ययः भवति ।

युवयोः + अकच्

→ युष्म् + अकच् + अद् + ओस्

→ युवकयोः

यदि अत्र सुबन्तात् परः अकच्-प्रत्ययः अभविष्यत्, तर्हि अत्र 'युवयकोः' इति अनिष्टम् रूपम् स्यात् ।

अनेन प्रकारेण सर्वनामसंज्ञकेभ्यः शब्देभ्यः अकच्-प्रत्ययः विधीयते ।

स्मर्तव्यम् - अत्र निर्दिष्टस्य वार्त्तिकस्य प्रयोगः केवलं 'युष्मद्' तथा 'अस्मद्' एतयोः शब्दयोः विषये एव कर्तव्यः । यद्यपि वार्त्तिके तादृशः स्पष्टः निर्देशः नास्ति, तथापि लघुशब्देन्दुशेखरे नागेशेन अस्मिन् विषये स्पष्टीक्रियते ।

[इ] तिङन्तेभ्यः अकच्-प्रत्ययविधानम् -

वर्तमानसूत्रेण उक्तः अकच्-प्रत्ययः भिन्नेभ्यः तिङन्तेभ्यः अपि विधीयते । यथा -

  1. 'पचति' इत्यस्मात् तिङन्तात् अज्ञाते 5.3.73 इत्यनेन स्वार्थे क-प्रत्यये प्राप्ते वर्तमानसूत्रेण तस्य स्थाने अपवादत्वेन अकच्-प्रत्ययः आगच्छति । अयम् प्रत्ययः टि-संज्ञकात् पूर्वमागच्छति, अतः -'पचत् + अकच् + इ' इति जायते । इत्संज्ञालोपं वर्णमेलनं कृत्वा 'पचतकि' इति सिद्ध्यति । 'पचति' इत्येव अर्थः । अयम् शब्दः अपि क्रियापदरूपेणैव प्रयुज्यते । यथा - 'रामः पचतकि' ।

अस्य सूत्रस्य विषये वार्त्तिकद्वयम् ज्ञातव्यम् -

  1. <!अकच्प्रकरणे तूष्णीमः काम्प्रत्ययो वक्तव्यः!> । इत्युक्ते, 'तूष्णीम्' अव्ययस्य विषये अकच्-इत्यस्य स्थाने 'काम्' प्रत्ययः भवति । मिदचोऽन्त्यात्परः 1.1.47 इत्यनेन अयं प्रत्ययः अन्त्यात् अचः परः आगच्छति । अतः 'तूष्णीम् + काम् → तूष्णीकाम्' इति रूपं सिद्ध्यति । 'तूष्णीम्' इत्यस्यैव अर्थे अयम् शब्दः प्रयुज्यते ।

  2. <!शीले को मलोपश्च वक्तव्यः!> । इत्युक्ते, 'तूष्णीम्' शब्दात् परम् 'शील' इति उत्तरपदम् विद्यते चेत् 'तूष्णीम्' शब्दात् क-प्रत्ययः तथा 'तूष्णीम्' इत्यस्य मकारस्य लोपः भवति । यथा - तूष्णींशीलः (= silent character) इत्येव = तूष्णीम् + क → तूष्णीक ।

Balamanorama

Up

index: 5.3.71 sutra: अव्ययसर्वनाम्नामकच् प्राक् टेः


अव्ययसर्वनाम्नामकच् प्राक् टेः - अव्ययसर्वनाम्नाम् । अनुवर्तत इति ।मण्डूकप्लुत्ये॑ति शेषः । अव्ययसर्वनाम्नां तिङन्तानां च टेः प्रागकच्प्रत्ययः स्यादित्यर्थः । अकचि ककारादकार उच्चारणार्थः । चकार इत् । ककारान्तः प्रत्ययः । अयमपि प्रागिवादधिकारः ।