अव्ययसर्वनाम्नामकच् प्राक् टेः

5-3-71 अव्ययसर्वनाम्नाम् अकच् प्राक् टेः प्रत्ययः परः च आद्युदात्तः च तद्धिताः तिङः कः

Sampurna sutra

Up

तिङः, अव्यय-सर्वनाम्नाम्, सुपः अकच् प्राक् टेः

Neelesh Sanskrit Brief

Up

अव्ययानाम् सर्वनामशब्दानाम् तिङन्तानाम् च विषये प्राग्-इवीयेषु विषयेषु स्वार्थे क-प्रत्ययस्य अपवादरूपेण अकच्-प्रत्ययः टेः प्राक् भवति ।

Neelesh English Brief

Up

For an अव्यय, a सर्वनामशब्द and a तिङ्गन्त word the प्रत्यय 'अकच्' comes just before the 'टि'संज्ञक component of that word under all the प्राग्-इवीय meanings.

Kashika

Up

<<तिङश्च>> ५.३.५६ इत्येव। अव्ययानां सर्वनाम्नां च प्रागिवीयेष्वर्थेष्वकच् प्रत्ययो भवति, स च प्राक् टेः, न परतः। कस्यापवादः। उच्चकैः। नीचकैः। शनकैः। सर्वनाम्नः खल्वपि — सर्वके। विश्वके। उभयके। प्रातिपदिकात् सुप इति द्वयमपीहानुवर्तते। तत्राभिधानतो व्यवस्था भवति। क्वचित् प्रातिपदिकस्य प्राक् टेः प्रत्ययो भवति, क्वचित् सुबन्तस्य। युष्मकाभिः, अस्मकाभिः, युष्मकासु, अस्मकासु, युवकयोः, आवकयोरित्यत्र प्रातिपदिकस्य। त्वयका, मयका, त्वयकि, मयकीत्यत्र सुबन्तस्य॥ अकच्प्रकरणे तूष्णीमः काम् प्रत्ययो वक्तव्यः॥ स च मित्त्वादन्त्यादचः परो भवति। तूष्णीकामास्ते। तूष्णीकांतिष्ठति॥ शीले को मलोपश्च वक्तव्यः॥ तूष्णींशीलः, तूष्णीकः। <<तिङश्च>> ५.३.५६ इति प्रकृतमत्र संबध्यते। पचतकि। जल्पतकि॥

Siddhanta Kaumudi

Up

तिङश्च <{SK2002}> इत्यनुवर्तते ॥

Laghu Siddhanta Kaumudi

Up

कापवादः। तिङश्चेत्यनुवर्तते॥

Neelesh Sanskrit Detailed

Up

<<इवे प्रतिकृतौ>> 5.3.96 इति यावत् ये सन्दर्भाः प्रोक्ताः सन्ति, तेषु सर्वेषु <<प्रागिवात् कः>> 5.3.70 इत्यनेन सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण 'क' इति प्रत्ययः विधीयते । परन्तु अव्ययसंज्ञकेभ्यः सर्वनामसंज्ञकेभ्यः च शब्देभ्यः एतम् क-प्रत्ययम् बाधित्वा वर्तमानसूत्रेण 'अकच्' इति प्रत्ययः विधीयते । तथा च, अस्मिन् सूत्रे 'तिङः' इत्यस्यापि अनुवृत्तिः स्वीक्रियते, अतः अयम् प्रत्ययः तिङन्तेभ्यः अपि भवितुमर्हति । अस्य 'अकच्' प्रत्ययस्य कश्चन विशेषः आदौ एव ज्ञेयः - अयम् प्रत्ययः यद्यपि <<परश्च>> 3.1.2 अस्मिन् अधिकारे उक्तः अस्ति, तथापि विधानसामर्थ्यात् अयम् प्रत्ययः टिसंज्ञकात् पूर्वम् विधीयते । 'अकच्' प्रत्यये चकारः इत्संज्ञकः अस्ति, ककारोत्तरः अकारः उच्चारणार्थः अस्ति । प्रक्रियायाम् द्वयोः लोपः भवति, 'अक्' इत्येव अवशिष्यते । कानिचन उदाहरणानि पश्यामः - [अ] अव्ययसंज्ञकेभ्यः अकच्-प्रत्ययविधानम् - अव्ययसंज्ञकेभ्यः शब्देभ्यः अकच्-प्रत्यये कृते ये शब्दाः सिद्ध्यन्ति, तेऽपि अव्ययसंज्ञकाः एव भवन्ति । उदाहरणानि एतानि - 1. 'उच्चैस्' इत्यस्मात् अव्ययात् <<अज्ञाते>> 5.3.73 इत्यनेन स्वार्थे क-प्रत्यये प्राप्ते वर्तमानसूत्रेण तं बाधित्वा 'अकच्' इति प्रत्ययः भवति । अयम् प्रत्ययः अङ्गस्य टि-संज्ञकात् पूर्वम् विधीयते । यथा - अज्ञातः उच्चैः [<<अज्ञाते>> 5.3.73 इति प्रत्ययविधानम्] = उच्चैस् + अकच् [अकच्-प्रत्ययविधानम्] उच्च् + अकच् + ऐस् ['उच्चैस्' इत्यत्र 'ऐस्' इति टि-संज्ञकः अस्ति, अतः अकच्-प्रत्ययः अस्मात् पूर्वम् विधीयते ।] → उच्च् + अक् + ऐस् [चकारस्य इत्संज्ञा, ककारोत्तरः अकारः उच्चारणार्थः । उभयोः लोपः] → उच्च् + अकैस् → उच्चकैस् → उच्चकैः [सकारस्य रुत्वम्, विसर्गः] 2. नीचैस् + अकच् → नीचकैः । 3. शनैस् + अकच् → शनकैः । [आ] सर्वनामसंज्ञकेभ्यः अकच्-प्रत्ययविधानम् - वर्तमानसूत्रेण विहितः अकच्-प्रत्ययः सर्वनामशब्दानाम् विषये सुप्-प्रत्ययान्तरूपात् विधीयते, न हि प्रातिपदिकात् । अस्य स्पष्टीकरणार्थम् <<विभाषा सुपो बहुच् पुरस्तात्तु>> 5.3.68 इत्यस्मात् 'सुप' इतस्य अनुवृत्तिः क्रियते । कानिचन उदाहरणानि एतानि - 1) सर्वे + अकच् । → सर्व् + अक् + ए → सर्वके । 2. तौ + अकच् → त् + अकच् + औ → तकौ 3. एषः + अकच् → एष् + अक् + अः → एषकः 4. तेभ्यः + अकच् → तेभ्य् + अक् + अः → तेभ्यकः 5. त्वया + अकच् → त्वय् + अक् + आ → त्वयका विशेषः - 1. 'किम्' सर्वनाम्नः विषये अकच्-प्रत्ययः नित्यम् प्रातिपदिकस्य टि-संज्ञकात् प्राक् एव भवति, तथा च अकच्-प्रत्ययस्य प्रयोगेण निर्मितम् यत् प्रातिपदिकम्, तस्यापि सुबन्तप्रक्रियायाम् <<किमः कः>> 7.2.103 इत्यनेन ककारादेशः विधीयते । यथा - किम् + अकच् + सुँ → ककिम् + सुँ [अकच्-प्रत्ययस्य 'किम्' इत्यस्य टेः पूर्वम् योजनम् क्रियते] → क + सुँ [<<किमः कः>> 7.2.103 इत्यनेन 'ककिम्' इत्यस्यापि ककारादेशः भवति] → कः । इत्युक्ते, 'किम्' सर्वनाम्नः विषये अकच्-प्रत्ययान्तस्यापि रूपाणि सर्वत्र मूलशब्दवत् एव भवन्ति । 2. 'युष्मद्' तथा 'अस्मद्' एतयोः सर्वनामशब्दयोः विषये अत्र एकं वार्त्तिकम् ज्ञातव्यम् -<!ओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच् ; अन्यत्र तु सुबन्तस्य टेः प्रागकच् !> । अस्य अर्थः अयम् - यदि युष्मद् तथा अस्मद् शब्दाभ्याम् ओकारादिः / भकारादिः / सकारादिः सुप्-प्रत्ययः विधीयते, तर्हि वर्तमानसूत्रेण पाठितः अकच्-प्रत्ययः सर्वनामशब्दात् (= प्रातिपदिकात्) विधीयते, न हि सुबन्तात् । अन्येषु विभक्तिप्रत्ययेषु परेषु तु सुबन्तात् एव प्रत्ययविधानं भवति । यथा - अ) 'युष्माभिः + अकच्' इत्यत्र विभक्तिप्रत्ययः 'भिस्' इति भकारादिः अस्ति । अतः अत्र सुबन्तात् अकच्-प्रत्ययः न विधीयते, अपितु प्रातिपदिकात् आदौ अकच्-प्रत्ययं योजयित्वा ततः भिस्-प्रत्ययः प्रयोक्तव्यः । यथा - युष्माभिः + अकच् → युष्म् + अकच् + अद् + भिस् → युष्मकाभिः यदि अत्र सुबन्तात् परः अकच्-प्रत्ययः अभविष्यत्, तर्हि अत्र 'युष्माभकिः' इति अनिष्टम् रूपम् स्यात् । आ) अस्मासु + अकच् इत्यत्र 'सुप्' इति सकारादिप्रत्ययः अस्ति, अतः अत्रापि प्रातिपदिकात् परः अकच्-प्रत्ययः भवति । यथा - अस्मासु + अकच् → अस्म् + अकच् + अद् + सुप् → अस्मकासु यदि अत्र सुबन्तात् परः अकच्-प्रत्ययः अभविष्यत्, तर्हि अत्र 'अस्मासकु' इति अनिष्टम् रूपम् स्यात् । इ) 'युवयोः + अकच्' इत्यत्र विभक्तिप्रत्ययः 'ओस्' इति ओकारादिः अस्ति । अतः अत्रापि प्रातिपदिकात् एव अकच्-प्रत्ययः भवति । युवयोः + अकच् → युष्म् + अकच् + अद् + ओस् → युवकयोः यदि अत्र सुबन्तात् परः अकच्-प्रत्ययः अभविष्यत्, तर्हि अत्र 'युवयकोः' इति अनिष्टम् रूपम् स्यात् । अनेन प्रकारेण सर्वनामसंज्ञकेभ्यः शब्देभ्यः अकच्-प्रत्ययः विधीयते । स्मर्तव्यम् - अत्र निर्दिष्टस्य वार्त्तिकस्य प्रयोगः केवलं 'युष्मद्' तथा 'अस्मद्' एतयोः शब्दयोः विषये एव कर्तव्यः । यद्यपि वार्त्तिके तादृशः स्पष्टः निर्देशः नास्ति, तथापि लघुशब्देन्दुशेखरे नागेशेन अस्मिन् विषये स्पष्टीक्रियते । [इ] तिङन्तेभ्यः अकच्-प्रत्ययविधानम् - वर्तमानसूत्रेण उक्तः अकच्-प्रत्ययः भिन्नेभ्यः तिङन्तेभ्यः अपि विधीयते । यथा - 1. 'पचति' इत्यस्मात् तिङन्तात् <<अज्ञाते>> 5.3.73 इत्यनेन स्वार्थे क-प्रत्यये प्राप्ते वर्तमानसूत्रेण तस्य स्थाने अपवादत्वेन अकच्-प्रत्ययः आगच्छति । अयम् प्रत्ययः टि-संज्ञकात् पूर्वमागच्छति, अतः -'पचत् + अकच् + इ' इति जायते । इत्संज्ञालोपं वर्णमेलनं कृत्वा 'पचतकि' इति सिद्ध्यति । 'पचति' इत्येव अर्थः । अयम् शब्दः अपि क्रियापदरूपेणैव प्रयुज्यते । यथा - 'रामः पचतकि' । अस्य सूत्रस्य विषये वार्त्तिकद्वयम् ज्ञातव्यम् - 1. <!अकच्प्रकरणे तूष्णीमः काम्प्रत्ययो वक्तव्यः!> । इत्युक्ते, 'तूष्णीम्' अव्ययस्य विषये अकच्-इत्यस्य स्थाने 'काम्' प्रत्ययः भवति । <<मिदचोऽन्त्यात्परः>> 1.1.47 इत्यनेन अयं प्रत्ययः अन्त्यात् अचः परः आगच्छति । अतः 'तूष्णीम् + काम् → तूष्णीकाम्' इति रूपं सिद्ध्यति । 'तूष्णीम्' इत्यस्यैव अर्थे अयम् शब्दः प्रयुज्यते । 2. <!शीले को मलोपश्च वक्तव्यः!> । इत्युक्ते, 'तूष्णीम्' शब्दात् परम् 'शील' इति उत्तरपदम् विद्यते चेत् 'तूष्णीम्' शब्दात् क-प्रत्ययः तथा 'तूष्णीम्' इत्यस्य मकारस्य लोपः भवति । यथा - तूष्णींशीलः (= silent character) इत्येव = तूष्णीम् + क → तूष्णीक ।

Balamanorama

Up

<<अव्ययसर्वनाम्नामकच् प्राक् टेः>> - अव्ययसर्वनाम्नाम् । अनुवर्तत इति ।मण्डूकप्लुत्ये॑ति शेषः । अव्ययसर्वनाम्नां तिङन्तानां च टेः प्रागकच्प्रत्ययः स्यादित्यर्थः । अकचि ककारादकार उच्चारणार्थः । चकार इत् । ककारान्तः प्रत्ययः । अयमपि प्रागिवादधिकारः ।

Padamanjari

Up