5-3-10 सप्तम्याः त्रल् प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः
सप्तम्याः किम्-सर्वनामबहुभ्यः अद्व्यादिभ्यः त्रल्
सर्वादिगणे विद्यमानेभ्यः 'सर्व' इत्यस्मात् आरभ्य 'एक' इति यावत् शब्देभ्यः, 'बहु' शब्दात् तथा च 'किम्' शब्दात् सप्तम्यन्तात् स्वार्थे 'त्रल्' प्रत्ययः भवति ।
किंसर्वनामबहुभ्यः सप्तम्यन्तेभ्यः त्रल् प्रत्ययो भवति। कुत्र। यत्र। तत्र। बहुत्र॥
कुत्र । यत्र । तत्र । बहुत्र ॥
कुत्र। यत्र। तत्र। बहुत्र॥
अनेन सूत्रेण 'त्रल्' इति विभक्तिसंज्ञकः प्रत्ययः पाठ्यते । अस्मिन् प्रत्यये लकारः इत्संज्ञकः अस्ति, अतः 'त्र' इत्येव प्रयोगे दृश्यते । <<किंसर्वनामबहुभ्योऽद्व्यादिभ्यः>> 5.3.2 इत्यनेन भिन्नेभ्यः शब्देभ्यः विभक्तिसंज्ञकाः तद्धितप्रत्ययाः उच्यन्ते । वर्तमानसूत्रेण उक्तः 'त्रल्' प्रत्ययः अपि विभक्तिसंज्ञकः एव अस्ति, अतः अयम् प्रत्ययः अपि एतेभ्यः सर्वेभ्यः शब्देभ्यः विधीयते । कानिचन उदाहरणानि पश्यामः - 1) कस्मिन् इत्येव = कस्मिन् + त्रल् ['कस्मिन्' शब्दात् स्वार्थे प्रत्ययविधानम्] → किम् + त्र [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सप्तमीप्रत्ययस्य लुक्] → कु + त्र [<<किमः कः>> 7.2.103 इत्यनेन विभक्तिसंज्ञके प्रत्यये परे 'किम्' इत्यस्य 'क' इति आदेशे प्राप्ते तं बाधित्वा तकारादौ प्रत्यये परे <<कु तिहोः>> 7.2.104 इति 'कु' आदेशः ] → कुत्र विशेषः - 'कस्मिन्' इत्यस्मात् पक्षे <<किमोऽत्>> 5.3.12 इत्यनेन 'अत्' इत्यपि प्रत्ययः विधीयते, तेन 'क्व' इति अपि शब्दः सिद्ध्यति । 2) अमुष्मिन् इत्येव = अमुष्मिन् + त्रल् ['अस्मिन्' शब्दात् स्वार्थे प्रत्ययविधानम्] → अदस् + त्र [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सप्तमीप्रत्ययस्य लुक्] → अमु + त्र [<<अदसोऽसेर्दादु दो मः>> 8.2.80 इति 'अदस्' इत्यस्य अमु' आदेशः ।] → अमुत्र 3) यस्मिन् इत्येव = यस्मिन् + त्रल् ['यस्मिन्' शब्दात् स्वार्थे प्रत्ययविधानम्] → यद् + त्र [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सप्तमीप्रत्ययस्य लुक्] → य + त्र [<<त्यदादीनामः>> 7.2.102 इति दकारस्य अकारादेशः । <<अतो गुणे>> 6.1.97 इति पररूप-एकादेशः ] → यत्र [<<ससजुषो रुँः>> 8.2.66 इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] 4) एतस्मिन् इत्येव = एतस्मिन् + त्रल् ['एतस्मिन्' शब्दात् स्वार्थे प्रत्ययविधानम्] → एतद् + त्रल् [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सप्तमीप्रत्ययस्य लुक्] → अन् + त्र [<<एतदोऽन्>> 5.3.5 इति एतद्-शब्दस्य अन्-आदेशः] → अत्र [<<स्वादिष्वसर्वनामस्थाने>> 1.4.17 इति अङ्गस्य पदसंज्ञा ; स्थानिवद्भावात् च अङ्गस्य प्रातिपदिकसंज्ञा । अग्रे <<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इति नकारलोपः] एवमेव 'बहुत्र', 'सर्वत्र', 'एकत्र', 'उभयत्र', 'पूर्वत्र', 'अन्यत्र', 'तत्र', 'यत्र' - एते शब्दाः अपि सिद्ध्यन्ति । विशेषः - 1. 'इदम्' शब्दस्य विषये वर्तमानसूत्रेण 'त्रल्' प्रत्यये प्राप्ते तं बाधित्वा <<इदमो हः>> 5.3.11 इत्यनेन 'ह' प्रत्ययः विधीयते, येन 'इह' इति शब्दः सिद्ध्यति । 2. अनेन सूत्रेण सप्तमीविभक्त्यन्तात् प्रत्ययः उच्यते, न हि 'सप्तमीसमर्थात्' इति स्मर्तव्यम् । अत्र समर्थाधिकारः न प्रचलति, अतः अत्र स्वार्थे एव प्रत्ययविधानम् क्रियते, सामर्थ्यम् नापेक्ष्यते । 4. सर्व, एक, अन्य, किम्, यद्, तथा तद् - एतेषाम् विषये सप्तम्यन्तः शब्दः यदि कालस्य विशेषणरूपेण प्रयुज्यते (यथा - 'कस्मिन् काले / एकस्मिन् काले - आदयः), तर्हि वर्तमानसूत्रेण विहितम् 'त्रल्' प्रत्ययं बाधित्वा <<सर्वैकान्यकिंयत्तदः काले दा>> 5.3.15 इत्यनेन 'दा' इति प्रत्ययः विधीयते, येन 'सर्वदा', 'एकदा' - एतादृशाः शब्दाः सिद्ध्यन्ति । 5. त्रल्-प्रत्यये परे <<तसिलादिष्वाकृत्वसुचः>> 6.3.35 इत्यनेन स्त्रीवाचिनः अङ्गस्य पुंवद्भावः भवति । यथा - बह्वीषु इत्येव = बह्वी + त्रल् → बहु + त्रल् [पुंवद्वावः] → बहुत्र ।
<<सप्तम्यास्त्रल्>> - सप्तम्यास्त्रल् । किमादिभ्यः सप्तम्यन्तेभ्योऽद्व्यादिभ्यस्त्रलित्यर्थः ।कुत्रे॑त्यादिरूपाणि 'कुत' इत्यादिवत् ।