7-3-104 ओसि च अतः दीर्घः झलि एत्
अतः अङ्गस्य ओसि सुपि एत्
अदन्तस्य अङ्गस्य ओस्-प्रत्यये परे एकारादेशः भवति ।
An अदन्त अङ्ग gets a एकारादेश in presence of the ओस्-प्रत्यय.
ओसि परतोऽकारान्तस्याङ्गस्य एकारादेशो भवति। वृक्षयोः स्वम्। प्लक्षयोः स्वम्। वृक्षयोर्निधेहि। प्लक्षयोर्निधेहि॥
ओसि परेऽतोऽङ्गस्यैकारः स्यात् । रामयोः ॥
अतोऽङ्गस्यैकारः। रामयोः॥
ओस्-इति षष्ठी-सप्तमीद्विवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे अकारान्तस्य अङ्गस्य अन्तिमवर्णस्य एकारादेशः भवति । यथा - राम + ओस् → रामे + ओस् → [<<एचोऽयवायावः>> 6.1.78 इति अयादेशः । विसर्गनिर्माणम् ।] → रामयोः