दश्च

7-2-109 दः च विभक्तौ इदमः मः

Sampurna sutra

Up

इदमः दः मः विभक्तौ

Neelesh Sanskrit Brief

Up

इदम्-शब्दस्य दकारस्य विभक्तिप्रत्यये परे मकारादेशः भवति ।

Neelesh English Brief

Up

The दकार of the word इदम् is converted to a मकार when followed by a विभक्तिप्रत्यय.

Kashika

Up

इदमो दकारस्य स्थाने मकारादेशो भवति विभक्तौ परतः। इमौ, इमे। इमम्, इमौ, इमान्॥

Siddhanta Kaumudi

Up

इदमो दस्य मः स्याद्विभक्तौ । इमौ । इमे । त्यदादेः सम्बोधनं नास्तीत्युत्सर्गः ॥

Laghu Siddhanta Kaumudi

Up

इदमो दस्य मः स्याद्विभक्तौ। इमौ। इमे। त्यदादेः सम्बोधनं नास्तीत्युत्सर्गः॥

Neelesh Sanskrit Detailed

Up

इदम्-सर्वनामशब्दस्य दकारस्य विभक्तिप्रत्यये परे मकारादेशः भवति । यथा - 1) इदम् + अम् [द्वितीयैकवचनस्य प्रत्ययः] → इद अ + अम् [<<त्यदादीनामः>> 7.2.102 इति मकारस्य अकारादेशः] → इद + अम् [<<अतो गुणे>> 6.1.97 इति पररूपः अकारः] → इम + अम् [<<दश्च>> 7.2.109 इति दकारस्य मकारः] → इमम् [<<अमि पूर्वः>> 6.1.107 इति अम्-प्रत्यये परे पूर्वरूपम्] 2) इदम् + औ / औट् [प्रथमा/द्वितीया-द्विवचनस्य प्रत्ययः] → इद अ + औ / औट् [<<त्यदादीनामः>> 7.2.102 इति मकारस्य अकारादेशः] → इद + औ / औट् [<<अतो गुणे>> 6.1.97 इति पररूपः अकारः] → इम + औ / औट् [<<दश्च>> 7.2.109 इति दकारस्य मकारः] → इमौ [<<वृद्धिरेचि>> 6.1.88 इति वृद्धि-एकादेशः] 3) इदम् + औ / औट् [प्रथमा/द्वितीया-द्विवचनस्य प्रत्ययः] → इद अ + औ / औट् [<<त्यदादीनामः>> 7.2.102 इति मकारस्य अकारादेशः] → इद + औ / औट् [<<अतो गुणे>> 6.1.97 इति पररूपः अकारः] → इद + टाप् + औ / औट् [स्त्रीत्वं द्योतयितुम् <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्ययः] → इदा + शी [<<औङः आपः>> 7.1.18 इति आबन्तात् परस्य औ/औट्-प्रत्यययोः शी-आदेशः] → इमा + ई [<<दश्च>> 7.2.109 इति दकारस्य मकारः] → इमे [<<आद्गुणः>> 6.1.87 इति गुणादेशः] ज्ञातव्यम् - <<अव्ययसर्वनाम्नामकच् प्राक्टेः>> 5.3.71 अनेन सूत्रेण इदम्-शब्दस्य स्वार्थे 'अकच्' प्रत्ययः विधीयते । एवं क्रियते चेत् 'इदकम्' इति प्रातिपदिकं सिद्ध्यति । अस्य प्रातिपदिकस्य दकारस्यापि अनेन सूत्रेण मकारादेशः भवति । यथा - इदकम् + टा [तृतीयैकवचनस्य प्रत्ययः] → इदक अ + आ [<<त्यदादीनामः>> 7.1.102 इति मकारस्य अकारः] → इदक + आ [<<त्यदादीनामः>> 7.1.102 इति मकारस्य अकारः] → इमक + आ [<<दश्च>> 7.2.109 इति दकारस्य मकारादेशः] → इमक + इन [<<टाङसिङसामिनात्स्याः>> 7.1.12 इति टा-इत्यस्य इन-आदेशः] → इमकेन [<<आद्गुणः>> 6.1.87 इति गुण-एकादेशः]

Balamanorama

Up

<<दश्च>> - दश्च । 'इदमो मः' इत्यनुवर्तते । 'द' इति षष्ठी । इदमो दकारस्येति । लभ्यते । 'अष्टन आ विभक्तौ' इत्यतोऽतिव्यवहितमपि विभक्तावित्येतन्मण्डूकप्लुत्याऽनुवर्तते । 'तदोः सः सौ' इत्यतः साविति तु संनिहितमपि नानुवर्तते, सौ इदमो दस्याऽभावात्, 'यः सौ' इत्युत्तरसूत्रे सौग्रहणाच्च । तदाह-इदमो दस्येत्यादिना । तथाच इम-औ इति स्थिते रामवद्रूपाणीत्याह — इमावित्यादि । त्यदादेः संबोधनं नास्तीति । प्रचुरप्रयोगाऽदर्शनादिति भावः । नन्वेवं सति 'तदोः सः सो' इति सूत्रे 'हे स' इति भाष्यविरोध इत्यत आह-उत्सर्ग इति प्रायिकमित्यर्थः ।

Padamanjari

Up