7-1-17 जसः शी अतः सर्वनाम्नः
index: 7.1.17 sutra: जसः शी
अतः सर्वनाम्नः अङ्गात् जसः शी
index: 7.1.17 sutra: जसः शी
सर्वनामशब्दस्य अदन्तात् अङ्गात् परस्य जस्-प्रत्ययस्य शी-आदेशः भवति ।
index: 7.1.17 sutra: जसः शी
The जस्-प्रत्यय attached to an अदन्त सर्वनाम get an आदेश शी.
index: 7.1.17 sutra: जसः शी
अकारान्तात् सर्वनाम्नः उत्तरस्य जसः शी इत्ययमादेशो भवति। सर्वे। विश्वे। ये। के। ते। दीर्घोच्चारणमुत्तरार्हम्। त्रपुणी। जतुनी।
index: 7.1.17 sutra: जसः शी
अदन्तत्सर्वनाम्नः परस्य जसः शी स्यात् । अनेकाल्त्वात्सर्वादेशः । नचाऽर्वणस्तृ इत्यादाविव [(परिभाषा - )नानुबन्धकृतमनेकाल्त्वम् इति वाच्यम्] । सर्वादेशत्वात्प्रागित्संज्ञायां एवाऽभावात् । सर्वे ॥
index: 7.1.17 sutra: जसः शी
अदन्तात्सर्वनाम्नो जसः शी स्यात्। अनेकाल्त्वात्सर्वादेशः। सर्वे॥
index: 7.1.17 sutra: जसः शी
सर्वनामसंज्ञकः यः अदन्तः शब्दः, तस्मात् परस्य जस्-प्रत्ययस्य 'शी' आदेशः भवति ।
1) सर्व + जस् [प्रथमाबहुवचनस्य प्रत्ययः]
→ सर्व + शी [जसः शी 7.1.17 इति जस्-प्रत्ययस्य शी-आदेशः]
→ सर्व + ई [लशक्वतद्धिते 1.3.8 इति शकारस्य इत्संज्ञा]
→ सर्वे [आद्गुणः 6.1.87 इति गुण-एकादेशः]
2) तत् + जस् [प्रथमाबहुवचनस्य प्रत्ययः]
→ त अ अस् [त्यदादीनामः 7.2.102 इत्यनेन तकारस्य अकारादेशः]
→ त अस् [अतो गुणे 6.1.97 इति पररूप-एकादेशः]
→ त शी [जसः शी 7.1.17 इति जस्-प्रत्ययस्य शी-आदेशः]
→ त ई [लशक्वतद्धिते 1.3.8 इति शकारस्य इत्संज्ञा]
→ ते [आद्गुणः 6.1.87 इति गुण-एकादेशः]
प्रश्नः 1 - जस्-प्रत्ययस्य 'शी' इति सर्वादेशः कथं भवति ?
उत्तरम् - 'शी' इति अनेकाल् आदेशः अस्ति अतः अनेकाल्त्वात् अनेकाल्शित्सर्वस्य 1.1.55 इत्यनेन जस्-प्रत्ययस्य 'शी' इति सर्वादेशः भवति ।
प्रतिप्रश्नः - परन्तु 'शी' इत्यत्र शकारः लशक्वतद्धिते 1.3.8 इत्यनेन इत्संज्ञकः भवति किल? अतः अत्र सर्वादेशः 'शित्त्वात्' भवेत्, न हि 'अनेकाल्त्वात्' ।
उत्तरम् - 'शी' इत्यत्र लशक्वतद्धिते 1.3.8 इत्यनेन शकारस्य इत्संज्ञा तदा एव भवितुमर्हति यदा 'शी' आदेशः 'प्रत्ययत्वं' प्राप्नोति (यतः लशक्वतद्धिते 1.3.8 इत्यनेन प्रत्ययस्यैव आदिस्थस्य शकारस्य लोपः भवति, अन्येषाम् शकारस्य न) । परन्तु शी-आदेशः यावत् जस्-इत्यस्य स्थाने न विधीयते, तावत् तस्य 'प्रत्यय'संज्ञा अपि न भवितुमर्हति । इत्युक्ते, प्रारम्भे 'शी' इति यत्र विधानं क्रियते तत्र शकारस्य इत्संज्ञा नैव भवति । अतः अस्यामवस्थायाम् 'शी' इति अनेकाल् एव मन्तव्यः । अयमनेकाल्-आदेशः जस्-इत्यस्य स्थाने यदा सर्वादेशरूपेण विधीयते, तदा स्थानिवद्भावेन शी-इत्यत्र 'प्रत्यय' इति संज्ञा भवति । तदनन्तरमेव शकारस्य लशक्वतद्धिते 1.3.8 इत्यनेन इत्संज्ञा भवितुमर्हति । अतः प्रारम्भे सर्वादेशविधानम् तु अनेकाल्त्वात् एव भवति, शित्त्वात् न ।
प्रश्नः 2 - अस्मिन् सूत्रे 'शी' इति दीर्घः आदेशः किमर्थम् कृतः अस्ति? ह्रस्वादेशं कुर्मश्चेदपि अयमेव रूपम् सिद्ध्येत् किम्?
उत्तरम् - अत्र कृतः दीर्घादेशः अग्रिमसूत्रार्थमस्ति । नपुंसकाच्च 7.1.19 अस्मिन् सूत्रे वर्तमानसूत्रात् 'शी' इति अनुवर्तते, तत्र 'वारिणी', 'मधुनी' एतानि रूपाणि कर्तुम् दीर्घादेशः आवश्यकः अस्ति । अतः अत्र दीर्घादेशविधानं क्रियते ।
प्रश्नः 3 - स्त्रीलिङ्गवाचिनां शब्दानां विषये अस्य सूत्रस्य प्रसक्तिः किमर्थं न स्यात्?
उत्तरम् - अत्र 'अतः' इत्यत्र तपरकरणम् कृतमस्ति, अतः आकारान्त-स्त्रीलिङ्गशब्दानाम् विषये अयमादेशः न भवति । यथा - सर्वा + जस् = सर्वाः ।
index: 7.1.17 sutra: जसः शी
जसः शी - युष्मदस्मदोः षष्ठी । षष्ठआदिविशिष्योरिति । षष्ठीचतुर्थीद्वितीयाभिः सह तिष्ठत इति षष्ठीचतुर्थीद्वितीयास्थौ, तयोरिति विग्रहः । षष्ठआदिविशिष्टयोरिति यावत् । षष्ठीचतुर्थीद्वितीयासु परतस्तिष्टत इति विग्रहस्तु न भवति,पदस्ये॑त्यधिकारविरोधात् । पदस्येत्यनुवृत्तं हि द्विवचनेन विपरिणतं षष्ठीचतुर्थीद्वितीयास्थयोरित्यस्य विशेषणम् । न हि षष्ठआदिविभक्तिषु परतः पत्वमस्ति । भ्यामादौ तत्सत्त्वेऽपि तदितरत्र द्वितीयादौ तदभावात् । स्थग्रहणस्य तु प्रयोजनं मूल एव वक्ष्यते ।
index: 7.1.17 sutra: जसः शी
दीर्घोच्चारणमुतरार्थमिति । खथैह त्वत इत्यधिकाराद् गुणेन भवितव्यमिति, ह्रस्वेऽपि सिद्धम् । न च सर्वे च्छत्रिण इत्यत्र षत्वतुकोरसिद्धः इत्येकादेशस्यासिद्धत्वाद् ह्रस्वाश्रयस्य नित्यस्य तुकः प्रसङ्गः, तत्र हि पदान्तपदाद्योर्य एकादेशस्तस्यैवासिद्धत्वम् ॥