7-2-113 हलि लोपः विभक्तौ इदमः इदः
अकः इदमः इदः आपि हलि विभक्तौ लोपः
अककारान्त-इदम्-शब्दस्य 'इद्' इत्यस्य तृतीयातः सप्तमी-यावत्सु हलादिप्रत्ययेषु परेषु लोपः भवति ।
The 'इद्' part of the word 'इदम्' is removed when followed by a हलादि विभक्तिप्रत्यय of तृतीया to सप्तमी. But this conversion does not happen if the word इदम् has a ककार in it.
हलादौ विभक्तौ परत इदमोऽककारस्येद्रूपस्य लोपो भवति। आभ्याम्। एभिः। एभ्यः। एषाम्। एषु। <<नानर्थकेऽलोन्त्यविधिः०>> इति सर्वस्यायमिद्रूपस्य लोपः। अथ वा नायमिल्लोपः। <<अनाप्यकः>> ७.२.११२ इत्यन्ग्रहणमनुवर्तते॥
अककारस्येदम इदो लोपः स्यादापि हलादौ ॥<!नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे !> (वार्तिकम्) ॥
अककारस्येदम इदो लोप आपि हलादौ। <<नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे>> (परिभाषा)॥
सूत्रार्थज्ञानात् पूर्वमादौ अस्मिन् सूत्रे प्रयुक्तानां शब्दानामर्थम् पश्यामः - 1. 'अकः इदमः' इत्युक्ते सः इदम्-शब्दः यस्मिन् ककारः नास्ति । <<अव्ययसर्वनाम्नामकच् प्राक्टेः>> 5.3.71 अनेन सूत्रेण इदम्-शब्दस्य स्वार्थे 'अकच्' प्रत्ययः विधीयते । एवं क्रियते चेत् 'इदकम्' इति प्रातिपदिकं सिद्ध्यति, यस्मिन् ककारः श्रूयते । अस्य प्रातिपदिकस्य विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः अस्मिन् सूत्रे 'अकः' इति निर्दिष्टमस्ति । 2. अस्मिन् सूत्रे प्रयुक्तः 'आप्' अयम् प्रत्याहारः अस्ति । तृतीया-एकवचनस्य 'आङ्' (टाप्-प्रत्ययस्य पूर्वाचार्यैः दत्ता संज्ञा) इत्यस्मात् सप्तमी-बहुवचनस्य 'सुप्' इति यावत् पञ्चदश-प्रत्ययानाम् निर्देशः 'आप्' इत्यनेन क्रियते । अतः अस्य सूत्रस्य अर्थः अयम् - इदम्-शब्दस्य 'इद्' इत्यस्य तृतीयातः सप्तमीपर्यन्तं हलादौ विभक्तौ परे लोपः भवति । <<अनाप्यकः>> 7.2.112 इत्यनेन निर्दिष्टस्य 'अन्' आदेशस्य अयमपवादः । उदाहरणानि एतानि - 1) इदम् + भ्याम् → इद अ + भ्याम् [<<त्यदादीनामः>> 7.1.102 इति मकारस्य अकारः] → इद + भ्याम् [<<अतो गुणे>> 6.1.97 इति पररूपः अकारः] → अ + भ्याम् [<<अनाप्यकः>> 7.2.112 इत्यनेन इद्-इत्यस्य अन्-आदेशे प्राप्ते अपवादत्वेन <<हलि लोपः>> 7.2.113 इत्यनेन इद्-इत्यस्य लोपः भवति ] → आभ्याम् [<<सुपि च>> 7.3.102 इति अङ्गस्य दीर्घः] 2) इदम् + ङे [स्त्रीलिङ्गस्य चतुर्थ्येकवचनम्] → इद अ + ए [<<त्यदादीनामः>> 7.1.102 इति मकारस्य अकारः] → इद + ए [<<अतो गुणे>> 6.1.97 इति पररूपः अकारः] → इद् + टाप् + ए [<<अजाद्यतष्टाप्>> 4.1.4 इति स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः] → इद् अ स्याट् ए [<<सर्वनाम्नः स्याड्ढ्रस्वश्च>> 7.3.114 इति स्याट्-आगमः, अङ्गस्य ह्रस्वादेशः] → अ स्या ए [<<अनाप्यकः>> 7.2.112 इत्यनेन इद्-इत्यस्य अन्-आदेशे प्राप्ते अपवादत्वेन <<हलि लोपः>> 7.2.113 इत्यनेन इद्-इत्यस्य लोपः भवति ] → अ स्यै [<<वृद्धिरेचि>> 6.1.88 इति वृद्धि-एकादेशः] → अस्यै 3) इदम् + ङसिँ [पञ्चमी-एकवचनस्य प्रत्ययः] → इद अ + अस् [<<त्यदादीनामः>> 7.1.102 इति मकारस्य अकारः] → इद + अस् [<<अतो गुणे>> 6.1.97 इति पररूपः अकारः] → इद + स्मात् [<<ङसिङ्योः स्मात्स्मिनौ>> 7.1.15 इति ङसिँ-प्रत्ययस्य स्मात्-आदेशः] → अ + स्मात् [<<अनाप्यकः>> 7.2.112 इत्यनेन इद्-इत्यस्य अन्-आदेशे प्राप्ते अपवादत्वेन <<हलि लोपः>> 7.2.113 इत्यनेन इद्-इत्यस्य लोपः भवति ] → अस्मात् 4) इदम् + भ्यस् [स्त्रीलिङ्गस्य पञ्चम्यीबहुवचनम्] → इद अ + भ्यस् [<<त्यदादीनामः>> 7.1.102 इति मकारस्य अकारः] → इद + भ्यस् [<<अतो गुणे>> 6.1.97 इति पररूपः अकारः] → इद + टाप् + भ्यस् [<<अजाद्यतष्टाप्>> 4.1.4 इति स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः] → अ + आ + भ्यस् [<<अनाप्यकः>> 7.2.112 इत्यनेन इद्-इत्यस्य अन्-आदेशे प्राप्ते अपवादत्वेन <<हलि लोपः>> 7.2.113 इत्यनेन इद्-इत्यस्य लोपः भवति ] → आ + भ्यस् [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः] → आभ्यः [विसर्गनिर्माणम्] ज्ञातव्यम् - 1. <<नानर्थके अलोऽन्त्यविधिः अनभ्यासविकारे अनभ्यासविकारे>> इति काचन परिभाषा अस्ति । अस्याः सामान्यः अर्थः अयम् - यत्र स्थानीः षष्ठ्यन्तमनर्थकम् पदमस्ति, तत्र <<अलोऽन्त्यस्य>> 1.1.52 अस्य प्रयोगः न भवति । अतः अत्र 'इद्' इत्यत्र सम्पूर्णशब्दस्य लोपः भवति, न हि केवलस्य अन्तिम-दकारस्य । 2. 'इदकम्' शब्दस्य विषये तु अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - इदकम् + भ्याम् [तृतीयैकवचनस्य प्रत्ययः] → इदक अ + भ्याम् [<<त्यदादीनामः>> 7.1.102 इति मकारस्य अकारः] → इदक + भ्याम् [<<अतो गुणे>> 6.1.97 इति पररूपः अकारः] → इमक + भ्याम् [<<दश्च>> 7.2.109 इति दकारस्य मकारादेशः] → इमकाभ्याम् [<<सुपि च>> 7.3.102 इति गुण-एकादेशः]
<<हलि लोपः>> - भ्यामादौ त्यदाद्यत्वे पररूपे च कृते 'अनाप्यकः' इति प्राप्ते-हलि लोपः । 'आप्यक' इति पूर्व सूत्रादनुवर्तते । 'इदमो मः' इत्यत 'इदम' इतिइदोऽय् पुंसी॑त्यत 'इद' इति 'अष्टनः' इत्यतो विभक्ताविति चानुवर्तते । हलीति विभक्तिविशेषणं । तदादिविधिः । तदाह-अककारस्येत्यादिना । अलोऽन्त्यपरिभाषया इदो दकारस्य लोपमाशङ्क्याह — नानर्थक इति । परिभाषेयमुपधासंज्ञासूत्रे भाष्ये स्थिता । इदम्शब्दे इदित्यस्यानर्थकत्वात्तदन्तस्येति न लभ्यते । ततश्च इदित्यस्य कृत्स्नस्यैव लोप इति भावः । अनभ्यासविकार इत्यनुक्तौ विभर्तीत्यादौमृञामित्, अर्तिपिपत्र्योश्चे॑तीत्त्वं कृत्स्नस्याभ्यासस्य स्यात् । द्वित्वे सति समुदायस्यैवार्थवत्त्वात् । 'हलि लोप' इत्यत्र लोपग्रहणपनीय 'हल्य' शित्येव सूत्रयितुमुचितम्, शित्त्वादिदः कृत्स्नस्याकारे पररूपेसुपि चे॑ति दीर्ङे आभ्यामित्यादिसिद्धेः ।
अन्ग्रहणमनुवर्तत इति । यद्यपि तत्प्रथमान्तम्, तथापि हलीति सप्तम्या तस्य षष्ठी प्रकल्प्यते ॥