टाङसिङसामिनात्स्याः

7-1-12 टाङसिङसाम् इनात्स्याः अतः

Sampurna sutra

Up

अतः अङ्गात् टा-ङसि-ङसाम् इन-आत्-स्याः

Neelesh Sanskrit Brief

Up

अदन्तात् अङ्गात् परस्य टा, ङसिँ, ङस् प्रत्ययानाम् क्रमेण इन, आत्, स्य - एते आदेशाः भवन्ति ।

Neelesh English Brief

Up

The टा, ङसिँ, and ङस् प्रत्ययाः attached to an अदन्त अङ्ग are converted respectively to इन, आत् and स्य.

Kashika

Up

अकारान्तादङ्गादुत्तरेषां टाङसिङसाम् इन आत् स्य इत्येत आदेशा भवन्ति यथासंख्यम्। टा इत्येतस्येनादेशो भवति — वृक्षेण। प्लक्षेण। ङसीत्येतस्य आत् — वृक्षात्। प्लक्षात्। ङसित्येतस्य स्यादेशो भवति — वृक्षस्य। प्लक्षस्य। अत इति किम्? सख्या। पत्या। अतिजरसिन अतिजरसादिति केचिदिच्छन्ति। यथा तु भाष्ये (३.३०९) तथा नैतदिष्यत इति लक्ष्यते॥

Siddhanta Kaumudi

Up

अकारान्तादङ्गाट्टादीनां क्रमादिनादय आदेशाः स्युः । णत्वम् । रामेण ॥

Laghu Siddhanta Kaumudi

Up

अदन्ताट्टादीनामिनादयः स्युः। णत्वम्। रामेण॥

Neelesh Sanskrit Detailed

Up

अनेन सूत्रेण अदन्तात् अङ्गात् परस्य त्रयाणाम् प्रत्ययानाम् त्रयः आदेशाः प्रोक्ताः सन्ति । <<यथासङ्ख्यमनुदेशः समानाम्>> 1.3.10 इत्यनेन एते आदेशाः क्रमेण भवन्ति । इत्युक्ते - टा-प्रत्ययस्य इन-आदेशः, ङसिँ-प्रत्ययस्य आत्-आदेशः, ङस्-प्रत्ययस्य स्य-आदेशः । एते सर्वे आदेशाः अनेकाल् सन्ति, अतः <<अनेकाल्शित्सर्वस्य>> 1.1.55 इत्यनेन एते सर्वादेशरूपेण विधीयन्ते । यथा - 1. राम + टा → राम + इन [<<टाङसिङसामिनात्स्याः>> 7.1.12 इति टा-प्रत्ययस्य इन-आदेशः] → रामेन [<<आद्गुणः>> 6.1.87 इति गुण-एकादेशः] → रामेण [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इति णत्वम्] 2. राम + ङसिँ → राम + आत् [<<टाङसिङसामिनात्स्याः>> 7.1.12 इति ङसिँ-प्रत्ययस्य आत्-आदेशः] → रामात् [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः] → रामाद् [<<झलां जशोऽन्ते>> 8.2.39 इति जश्त्वम्] → रामात्, रामाद् [<<वाऽवसाने>> 8.4.56 इति वैकल्पिकं चर्त्वम्] 3. राम + ङस् → राम + स्य [<<टाङसिङसामिनात्स्याः>> 7.1.12 इति ङस्-प्रत्ययस्य स्य-आदेशः] → रामस्य ज्ञातव्यम् - अस्मिन् सूत्रे 'अतः' इत्यत्र तपरकरणम् कृतमस्ति, अतः आकारान्तशब्दानाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - माला + टा → मालया ।

Balamanorama

Up

<<टाङसिङसामिनात्स्याः>> - टाङसिङसाम् ।अङ्गस्ये॑त्यधिकृतं पञ्चम्या, विपरिणम्यते । 'अतो भिस' इत्यस्मात् 'अत' इति पञ्चम्यन्तमनुवृत्तमङ्गस्य विशेषणम् । तदन्तविधिः । तदाह — अकारान्तादङ्गादिति ।परेषा॑मिति शेषः ।क्रमा॑दिति यथासङ्ख्यसूत्रलब्धम् । टादीनामिति । टा-ङसि-ङसामित्यर्थः । इनादय इति । 'इन-आत्-स्य' एते इत्यर्थः । राम-इनेति स्थिते आद्गुणः । णत्वमिति ।अटकुप्वा॑ङिति नकारस्य णकार इत्यर्थः । राम-भ्याम् इति स्थितेन विभक्ता॑विति मस्य नेत्त्वम् ।

Padamanjari

Up

अतिजरसिनेत्यादि । समासे ह्रस्वत्वे कृते इनादेशः, ततः सन्निपात्परिभाषाया अनित्यत्वाज्जरसादेशः । एएवमतिजरसादित्यत्राप्यादादेशे कृते जरसादेशः । ननु च टाङ्स्योरेवाजादित्वात्प्रागिनादादेशाभ्यां जरसादेशः एप्राप्नोति, स हि नित्यः परश्च, तत्र कृतेऽनदन्तत्वादेवेनादादेशयोरभावे अतिजरसा, अतिजरस इति भवितव्यम् । नैष दोषः, एवं हि इनादेशस्य, अदादेशस्य च विधानमनर्थकम्, नादेशोऽदेशश्च विधेयः स्यात्, का रुपसिद्धः एइह तावद् वृक्षेणेति एत्वे योगविभागः करिष्यते - बहुवचने झल्येत्, ओसि च, ततः आङ् चि - आङ् चि परतोऽत एत्वम्- वृक्षेण । नैवं शक्यम्, थैह ह्यनेनेति हलि लोपः इति इद्रपलोपे सति एनेति प्राप्नोति हलि लोपः इत्यपनीय झलि लोपः इति सूत्रे करिष्येत, तत्र नकारस्याझल्त्वाल्लोपाभावः । न स शक्यो झलि लोपो वक्तुम्, इह हि न स्यात्, - अयाविष्ट, अजनयत्, अयेति इदमश्चतुर्थ्यकवचनस्य सुपां सुलुक इत्यादिना यादेशः, सुपि चेति दीर्घाभावः छान्दसः, तत्रास्याझलादित्वादिद्रूपलोपो न स्यात् । तस्माद्धलि लोप एव कर्तव्यः, ततश्चानेनेति न सिध्यति एवं तर्हि अनाप्यकः इति द्विनकारकोऽयं निर्द्देशः, तत्रादेशसम्बन्धी पदान्तत्वाल्लुप्तः नश्च आप् च नाप्, तत्र परत इदोऽनादेश इति सूत्रार्थाश्रयणादिद्रूपलोपापवोदो नशब्दे परतो नादेश एव भविष्यति । यद्यवम्, आदेशेन लोपस्यासिद्धत्वाद्राजेत्यादाविव सूत्रे दीर्घप्रसङ्गः - अनाप्यकः इति नैष दोषः, सुपां सुलुक् इति लुकि कृते न लुमताङ्गस्य इति प्रतिषेधः । वृक्षादित्यत्रापि सवर्णत्वेनैव सिद्धम्, अकारोच्चारणसामर्थ्यादतो गुणे पररुपं न भविष्यति । तदेवमिनादेशस्यादादेशस्य च विधानसमर्थ्यात्पूर्वमिनादादेशौ, पश्चाज्जरसादेश इत्यषामभिप्रायः । यथा त्वित्यादि । भाष्ये हि पूर्वोक्तप्रक्रियाश्रयणेन नाधेशोऽदादेशश्च व्यवस्थापितः । यदि चैतद्रूपद्वयमिष्ट्ंअ स्यात्, तयोरादेशयोः प्रत्याख्यानमनुपपन्नं स्यात् । तत्र सन्निपातपरिभाषया जरसादेशाभावादतिजरेण, अतिजरादिति भाष्यकारस्याभिप्रेतिमिति केचित् । प्रागेव जरसादेशे - अतिजरसा, अतिजरस इत्यभिप्रेतमित्यन्ये ॥