अणुदित् सवर्णस्य चाप्रत्ययः

1-1-69 अण् उदित् सवर्णस्य च अप्रत्ययः स्वं रूपं

Sampurna sutra

Up

अप्रत्ययः अण् , उदित् च सवर्णस्य (ग्राहकः)

Neelesh Sanskrit Brief

Up

सूत्रे आदेशरूपेण न प्रयुक्तः 'अण्' वर्णः, तथा च उदित् वर्णः (कु, चु, टु, तु, पु - इति) सवर्णानाम् ग्रहणं करोति ।

Neelesh English Brief

Up

An अण् letter which does not represent an आदेश, and an उदित letter (one of कु, चु, टु, तु, पु) used in a sutra represent all the सवर्ण forms.

Kashika

Up

परेण णकारेण प्रत्याहारग्रहणम्। अण् गृह्यमाण उदिच्च सवर्णानां ग्राहको भवति, स्वस्य च रूपस्य, प्रत्ययं वर्जयित्वा। <<आद् गुणः>> ६.१.८७। <<अस्य च्वौ>> ७.४.३२। <<यस्येति च>> ६.४.१४८। स्वरानुनासिक्यकालभिन्नस्य ग्रहणं भवति। उदित् खल्वपि — <<चुटू>> १.३.७, <<लशक्वतद्धिते>> १.३.८ चवर्गटवर्गयोः कवर्गस्य च ग्रहणं भवति। अप्रत्यय इति किम्? <<सनाशंसभिक्ष उः>> ३.२.१६८। <<अ साम्प्रतिके>> ४.३.९। दीर्घो न भवति॥

Siddhanta Kaumudi

Up

प्रतीयते विधीयत इति प्रत्ययः । अविधीयमानोऽण् उदिच्च सवर्णस्य संज्ञा स्यात् । अत्राण् परेण णकारेण । कु चु टु तु पु एते उदितः । तदेवम् । अ इत्यष्टादशानां संज्ञा । तथेकारोकारौ । ऋकारस्त्रिंशतः । एवम् ऌकारोऽपि । एचो द्वादशानाम् । एदैतोरोदौतोश्च न मिथः सावर्ण्यम् । ऐऔजिति सूत्रारम्भसामर्थ्यात् । तेनैचश्चतुर्विंशतेः संज्ञाः स्युरिति नापादनीयम् । नाज्झलौ <{SK13}> इति सावर्ण्यनिषेधो यद्यप्याक्षरसमाम्नायिकानामेव तथापि हकारस्याऽऽकारो न सवर्णः । तत्राऽऽकारस्यापि प्रश्लिष्टत्वात् । तेन विश्वपाभिः इत्यत्र हो ढः <{SK324}> इति ढत्वं न भवति । अनुनासिकाननुनासिकभेदेन यवला द्विधा । तेनाननुनासिकास्ते द्वयोर्द्वयोः संज्ञा ॥

Laghu Siddhanta Kaumudi

Up

प्रतीयते विधीयत इति प्रत्ययः। अविधीयमानोऽणुदिच्च सवर्णस्य संज्ञा स्यात्। अत्रैवाण् परेण णकारेण। कु चु टु तु पु एते उदितः। तदेवम् - अ इत्यष्टादशानां संज्ञा। तथेकारोकारौ। ऋकारस्त्रिंशतः। एवम् ऌकारोऽपि। एचो द्वादशानाम्। अनुनासिकाननुनासिकभेदेन यवला द्विधा; तेनाननुनासिकास्ते द्वयोर्द्वयोस्संज्ञा॥

Neelesh Sanskrit Detailed

Up

अष्टाध्याय्याम् 'सवर्णम्' इति संज्ञा <<तुल्यास्यप्रयत्नं सवर्णम्>> 1.1.9 इति सूत्रेण पाठ्यते । ययोः वर्णयोः मुखस्थित-उच्चारणस्थानम्, आभ्यन्तरप्रयत्नः च परस्पराभ्यां सह समानः अस्ति, तौ वर्णौ अनेन सूत्रेण परस्परयोः सवर्णौ भवतः । यथा - क् , ग् एतौ सवर्णौ ; अ, आ एतौ सवर्णौ ; य्, य्ँ एतौ सवर्णौ — आदयः । एतादृश्याः सवर्णसंज्ञायाः आधारेण सूत्रेषु सवर्णानाम् ग्रहणम् कुत्र करणीयम् इत्यस्मिन् विषये प्रकृतेसूत्रेण द्वे नियमे उक्ते स्तः । ते एतादृशे — 1. यदि कश्चन अण्-वर्णः कस्मिंश्चित् सूत्रे आदेशरूपेण उक्तः नास्ति, तर्हि सः अण्-वर्णः सवर्णानाम् अपि ग्रहणं करोति । अत्र उक्तस्य 'अण्' इति प्रत्याहारस्य निर्माणम् <<लण्>> इति षष्ठस्य शिवसूत्रस्य णकारस्य प्रयोगेण कृतम् अस्ति । अनेन प्रत्याहारेण आहत्य चतुर्दशवर्णानां ग्रहणं भवति —अ, इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह्, य्, व्, र्, ल् । एतेषु कश्चन वर्णः यदि सूत्रे अविधीयमानः वर्तते (इत्युक्ते आदेशरूपेण उक्तः नास्ति) तर्हि सः वर्णः सर्वेषाम् सवर्णानाम् अपि निर्देशं करोति (तेषां सवर्णानां विषये अपि तस्य सूत्रस्य प्रसक्तिः विद्यते) इति अस्य नियमस्य आशयः । कानिचन उदाहरणानि एतादृशानि — 1. <<इको यण् अचि>> 6.1.77 अस्मिन् सूत्रे 'इक्', 'यण्' तथा 'अच्' एते त्रयः प्रत्याहाराः प्रयुक्ताः सन्ति । एतेषु त्रिषु प्रत्याहारेषु अण्-वर्णाः एव सन्ति । एतेभ्यः इक्-इत्यत्र स्थिताः अण्-वर्णाः तथा च अच्-इत्यत्र स्थिताः अण्-वर्णाः 'आदेशरूपेण' प्रोक्ताः न सन्ति । अस्याम् अवस्थायाम् <<अणुदित् सवर्णस्य चाप्रत्ययः>> 1.1.69 इत्यनेन इक्-इत्यत्र स्थिताः वर्णाः तथा च अच्-इत्यत्र स्थिताः वर्णाः सवर्णग्रहणम् कुर्वन्ति । इत्युक्ते, यद्यपि इक्-प्रत्याहारे केवलम् ह्रस्व-इकारस्यैव निर्देशः अस्ति, तथापि अयं ह्रस्व-इकारः स्वस्य सर्वान् सवर्णान् अपि निर्दिशति, अतः ह्रस्व-इकारस्य विषये उक्तं कार्यम् इकारस्य सवर्णानां विषये (यथा, दीर्घ-ईकारस्य विषये) अपि अवश्यम् प्रवर्तते । एवमेव 'अच्' प्रत्याहारे यद्यपि आकारः न विद्यते, तथापि तत्र विद्यमानेन अकारेण सवर्णग्रहणम् अवश्यम् क्रियते, अतः अनेन सूत्रेण ह्रस्व-अकारे परे उक्तं कार्यम् आकारे परे अपि अवश्यम् भवति । 'इ + अ', 'ई + अ', 'इ + आ', 'ई + आ' इत्यत्र सर्वत्र यणादेशः भवति इति अस्य आशयः । 2) <<एरच्>> 3.3.56 अनेन सूत्रेण इकारान्तधातोः अच्-प्रत्ययः विधीयते । अस्मिन् सूत्रे विद्यमानः 'एः' इति शब्दः 'इ' इत्यस्य षष्ठ्येकवचनम् अस्ति । अत्र 'एः' इत्यनेन स्थानी निर्दिश्यते, अतः अत्र इकारः विधीयमानः नास्ति । इत्युक्ते, 'इ' इत्यनेन सवर्णानाम् (यथा, दीर्घ-ईकारस्य अपि) ग्रहणं भवति । अतः ह्रस्व-इकारान्तधातोः यथा अच्-प्रत्ययः विधीयते, तथैव अनेन सूत्रेण दीर्घ-ईकारान्तधातोः अपि अच्-प्रत्ययः विधीयते । 3) <<उरण् रपरः>> 1.1.51 अस्मिन् सूत्रे 'उः' इति ऋकारस्य षष्ठ्येकवचनम् अस्ति । अत्र ऋकारः विधीयमानः नास्ति, अतः अत्र ऋकारेण दीर्घ-ॠकारस्यापि ग्रहणं भवति । अतएव 'तॄ' धातोः अनीयर्-प्रत्यये कृते गुणादेशे रपरः अकारः आदेशरूपेण विधीयते, येन 'तरणीय' इति रूपं सिद्ध्यति । प्रक्रिया इयम् — तॄ (प्लवनतरणयोः, भ्वादिः, <{1.1124}>) → तॄ + अनीयर् [<<तव्यत्तव्यानीयरः>> 3.1.96 इति अनीयर्-प्रत्ययः] → तर् + अनीय [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणः । अत्र दीर्घ-ॠकारस्य स्थाने अ-ए-ओ-वर्णेभ्यः कः वर्णः विधीयेत इति प्रश्ने जाते, <<उरण् रपरः>> 1.1.51 इत्यत्र ऋकारेण सवर्णग्रहणं भवति इति दृष्ट्वा एव दीर्घ-ॠकारस्य स्थाने 'अर्' इति अन्तरतमः आदेशः सम्भवति ।] → तरणीय [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इति णत्वम्] विधीयमानः अण्-वर्णः तु सवर्णग्रहणं नैव करोति । अतएव, इमम् इत्यस्य सिद्धौ अनुनासिक-मकारस्य अपि निरनुनासिकः अकारः एव आदेशः विधीयते — इदम् + अम् [इदम्-शब्दस्य पुंलिङ्गे द्वितीयैकवचनम्] → इदअ + अम् [<<त्यदादीनामः>> 7.2.102 इति मकारस्य अकारः । अत्र अकारः विधीयमानः अस्ति; अतः तेन सवर्णस्य ग्रहणं न भवति; अतः अनुनासिक-मकारस्य आदेशरूपेण अपि निरनुनासिकः अकारः एव विधीयते ] → इद + अम् [<<अतो गुणे>> 6.1.97 इति पररूपम्] → इम + अम् [<<दश्च>> 8.2.75 इति मकारादेशः] → इमम् [<<अमि पूर्वः>> 6.1.107 इति पूर्वरूपम् ] अण्-प्रत्याहारे आकार-ईकार-ऊकार-ॠकाराणाम् समावेशः नास्ति । अतः एतैः वर्णैः अविधीयमानैः अपि सवर्णग्रहणं नैव भवति । यथा, <<ॠत इद्धातोः>> 7.1.100 अनेन सूत्रेण दीर्घ-ॠकारान्तधातोः उक्तः इकारादेशः ह्रस्व-ऋकारान्तधातोः विषये न प्रवर्तते । 2. सूत्रे प्रयुक्तः उदित् वर्णः नित्यम् एव सवर्णानाम् अपि ग्रहणं करोति । यस्मिन् वर्णे उकारः इत्संज्ञकः अस्तिः सः वर्णः 'उदित्' नाम्ना ज्ञायते । यथा, 'कुँ', 'चुँ', 'टुँ', 'तुँ', 'पुँ' एते उदितः वर्णाः सन्ति । सूत्रे प्रयुक्तः एतादृशः उदित्-वर्णः नित्यम् (इत्युक्ते, विधीयमाने सति, अविधीयमाने वा सति) सवर्णग्रहणं करोति । उदाहरणद्वयम् एतादृशम् - 1. <<चोः कुः>> 8.2.30 अस्मिन् सूत्रे 'चु' तथा 'कु' एतौ द्वौ उदित्-वर्णौ प्रयुक्तौ स्तः । अत्र उभाभ्यां वर्णाभ्याम् सवर्णग्रहणं भवति । इत्युक्ते, 'चु'-इत्यनेन चवर्गीयवर्णाः, 'कु'-इत्यनेन च कवर्गीयवर्णाः सर्वे गृह्यन्ते । अतएव, यथा 'वाच्'-शब्दस्य पदान्ते वाक्-इति आदेशः विधीयते, तथैव सुयज्-शब्दस्य अपि पदान्ते 'सुयग्' इति कुत्वं भवति । 2. <<लशक्वतद्धिते>> 1.3.8 अस्मिन् सूत्रे विद्यमानेन 'कु' इति उदित्-वर्णेन सर्वेषाम् सवर्णानाम् (कवर्गीवर्णानाम्) ग्रहणं भवति, अतएव 'क्त', 'खश्', 'ग्स्नु', घञ्' एतेषु सर्वेषु प्रत्ययेषु आदिस्थस्य कवर्गीयवर्णस्य इत्संज्ञा भवति । उदित्-वर्णेषु उकारः वस्तुतः अनुनासिकः अस्ति । तस्य <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इत्यनेन इत्संज्ञा भवति, अतएव 'उदित् (उत् + इत्)' इत्यत्र 'इत्'-शब्दः सङ्गच्छते । तथापि, सामान्यरूपेण लेखनसमये उदित्-वर्णानाम् निर्देशः चन्द्रबिन्दुचिह्नं विना एव क्रियते । यथा, 'कुँ', 'चुँ' इत्यस्य स्थाने 'कु', 'चु' इत्येव प्रायेण लिखितम् / मुद्रितम् दृश्यते । यद्यपि अत्र चन्द्रबिन्दुचिह्नम् नास्ति, तथापि उकारः अनुनासिकः एव अस्ति इति स्मर्तव्यम् । परिभाषा - भाव्यमानेन सवर्णानां ग्रहणम् न प्रकृतसूत्रे विद्यमानम् 'अप्रत्ययः' इति शब्दम् व्यर्थं दर्शयित्वा, तस्य उपस्थितम् ज्ञापकरूपेण स्वीकृत्य भाष्यकारेण <<भाव्यमानेन सवर्णानां ग्रहणम् न >> (परिभाषा-19) इति परिभाषा स्वीकृता अस्ति । आदेशरूपेण प्रयुक्तः वर्णः सवर्णग्रहणं न करोति — इति अस्याः परिभाषायाः संक्षिप्तः अर्थः । अस्याः अपवादरूपेण <<भाव्यमानोऽप्युकारः सवर्णान् गृह्णाति>> (परिभाषा-20) इति परिभाषा अपि प्रवर्तते । उकारः आदेशरूपेण विद्यते चेदपि सवर्णग्रहणे समर्थः अस्ति — इति अस्याः परिभाषायाः अर्थः । अस्मिन् विषये अधिकं ज्ञातुम् प्रकृतसूत्रस्य भाष्यम्, परिभाषेन्दुशेखरग्रन्थश्च द्रष्टव्यः ।

Balamanorama

Up

<<अणुदित् सवर्णस्य चाप्रत्ययः>> - अणुदित्सवर्णस्य । प्रत्ययशब्दस्य अणादिप्रत्ययपरत्वे 'त्यदादीनामः' 'इदमैश्' इत्यादीनां पर्युदासो न स्यादित्यतो व्याचष्टे — प्रतीयत इति । उत् इत् यस्य सः उदित=कु चु टु तु पु इत्यादिः । चकारात्स्वं रूपमित्यतः स्वमित्यनुवर्तते । तच्च षष्टन्ततया विपरिणम्यते । तदाह-अविधीयमान इत्यादिना । अणिति पूर्वेण परेण वा प्रत्याहार इति संशये निर्धारयति-अत्रेति । अस्मिन्नेव सूत्रे अण् परेण णकारेण, इतरत्र तुअणोऽप्रगृह्रस्ये॑त्यादौ पूर्वेणैवेत्यर्थः । अत्र च आचार्यपारंपर्यौपदेशरूपं व्याख्यानमेव शरणम् । एवं चाणुदित्सूत्रेणानेन अकारादिभिश्चतुर्भिदीर्घप्लुतानामिव सवर्णभूतहकारादीनामपि ग्रहणादच्त्वातेषु परेषु इकारस्य यणादिकं स्यादिति नाज्झलाविति प्रतिषेध आवश्यक इति स्थितम् । अणुदित्सूत्रस्य फलमाह — तदेवमिति । तत्णुदित्सूत्रम् । एवं=वक्ष्यमाणप्रकारेण फलतीत्यर्थः । तिंरशत इति । ऋऌवर्णयोर्मिथः । सवर्णतया ऋकारेण स्वाष्टादशभेदानाम्ऌकारीयद्वादशभेदानां च ग्रहणादिति भावः । एवम्ऌकारोऽपीति । ऋकारस्यापि ऌकारसवर्णत्वादिति भावः । नन्वेकारेण ऐकारप्रपञ्चोऽपि गृह्रते, ऐकारेण एकारप्रपञ्चश्च । तथा ओकारेण औकारप्रपञ्चो गृह्रेत, औकारेण ओकारप्रपञ्चश्च । ततस्च एचश्चतुवशतेः संज्ञा स्युरित्येवं वक्तव्यं नतु द्वादशानामित्यत आह — एदेतोरिति । कुतो न सावण्र्यमित्यत आह — ऐऔजिति । यदि ह्रेदैतोः ओदौतोश्च परस्परं सावण्र्यं स्यात्तर्हि एकारेण ऐकारप्रपञ्चस्य, ओकारेण औकारप्रपञ्चस्य च अकारादिभिदीर्घप्लुतानामिव ग्रहणसम्भवात्ऐऔ॑जिति सूत्रं नारभ्येत । आरभ्यते च (सूत्रकृता) । अत एदैतोरोदौतोश्च न परस्परं सावण्र्यमिति विज्ञायत इत्यर्थः । अच् इच् एच् इत्यादि प्रत्याहारास्तु ङकारेणैव निर्वाह्राः । नच 'एचोऽयवायाव' इत्यत्र यथासंख्यार्थमैऔजिति सूत्रमस्त्विति वाच्यम् । तत्र स्थानेऽन्तरतमः॑ इति सूत्रेणैव निर्वाहस्य वक्ष्यमाणत्वादिति भावः । वस्तुतस्तुऐऔ॑जिति सूत्राऽभावे 'वृद्धिरादैच्'न त्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् 'प्लुतावैच् इदुतौ' इत्यादौ एङ्ग्रहणापत्तौ एदोतोरपि ग्रहणे प्रसक्ते तन्निवृत्त्यर्थमैच्प्रत्याहार आवश्यक इति तदर्थमैऔजित्यारम्भणमीयमेव । अत ऐऔजिति सूत्रारम्भस्य चरितार्थत्वादेदैतोरोदौतोश्च मिथ: सावण्र्याऽभावसाधकत्वकथनमनुपपन्नमेव । एदैतोरोदौतोश्च मिथः सावण्र्याभावस्तु वृद्दिरादैजित्यादौ क्वचिदैज्ग्रहणात् 'अदेङ्गुणः' इत्यादौ क्वचिदेङ्ग्रहणाच्च सुनिर्वाहः । अन्यथा सर्वत्र एङ्ग्रहणमेव ऐज्ग्रहणमेव वा कुर्यात् । तावतैव चतुर्णां ग्रहणसम्भवात् । अत ऐच् एङिति प्रत्याहारद्वयग्रहणसामर्थ्यादेदैतोरोदौतोश्च न मिथः सावण्र्यम् । 'प्लुतावैच इदुतौ'एचोऽप्रगृस्ये॑ति प्रत्याहारद्वयग्रहणवैयथ्र्याच्चेति शब्देन्दुशेखरे प्रपञ्चितम् । तेनेति । एदैतौरोदौतोश्च मिथस्सावण्र्याभावेनेत्यर्थः । नापादनीयमिति । नाशङ्कनीयमित्यर्थः । एवं च एकारेण सह वर्तत इति सैः, हे सैरित्यत्र 'एङ्ह्रस्वात्' इति संबुद्धिलोपो न । ग्लावं ग्लाव इत्यत्र 'औतोऽम्शसोः' इत्यात्वं च न । स्यादेतत् । हकारस्य आकारस्य च सवर्णसंज्ञा स्यात् , स्थानप्रयत्नसाम्यात्, अज्झलामेव सावण्र्यनिषेधात्, वार्णसमाम्नायिकानामेन वर्णानामज्झलशब्दवाच्यत्वात्, आकारप्रश्लेषे च प्रमाणाऽभावात् । न चाकारस्याच्त्वात्तेन आकारस्यापि अणौदित्सूत्रेण ग्रहणादाकारहकारयोर्न सावण्र्यमिति वाच्यं, ग्रहणकसूत्रे हि लब्धात्मकमेव सत् 'अस्य च्वौ' इत्यादौ प्रवृत्तिमर्हति । नाज्झलाविति प्रवृत्तिदशायां च ग्रहणकशास्त्रं न लब्धात्मकम् । तद्धि सवर्णपदघटितं, सवर्णपदार्थावगमोत्तरम#एव लब्धात्मकम् । सवर्णसंज्ञाविधायकं च तुस्यास्यसूत्रं सामान्यतः त्वर्थं बोधयदपि नाज्झलावित्यपवादविषयं परिह्मत्य तदन्तत्रैव पर्यवसन्नं स्वकार्यक्षमम् । तदुक्तम् — ॒प्रकल्प्यपवादविषयमुत्सर्गोऽभिनिविशते॑ इति । उक्तं च भाष्ये-वर्णानामुपदेशस्तावत्, उपदेशोत्तरकाला इत्संज्ञा, इत्संज्ञोत्तरकाल आदिरन्त्येनेति प्रत्याहारः, प्रत्याहारोत्तरकाला सवर्णसंज्ञा, तदुत्तरकालमणुदित्सूत्रमित्येतेन समुदितेन वाक्येनात्यत्र सवर्णानां ग्रहणं भवती॑ति । अन्यत्र=॒अस्य च्वौ॑ इत्यादावित्यर्थः । अत्र भाष्येप्रत्याहारोत्तरकाला सवर्णसंज्ञे॑त्यनेन नाज्झलाविति निषेधसहितः सावण्र्यविधिर्विवक्षितः , केवलसावण्र्यविधेः प्रत्याहारानपेक्षत्वेन प्रत्याहारोत्तरकालिकत्वनियमाऽसम्भवात् । तथा चाणुदित्सूत्रस्य नाज्झलाविति निषेधसहिततुल्यास्यसूत्रप्रवृत्तेः प्रागलब्धात्मकत्वात्तेन नाज्झलावित्यत्र अज्ग्रहणेन सवर्णानां ग्रहणाऽभावात्सावण्र्यविधिनिषेधाभावादकारहकारयोः सावण्र्यं स्यादिति शङ्कते — नाज्झलाविति सावण्र्येत्यादिना । यद्यपीति सम्भावनायाम् । अक्षरसमाम्नायः=चतुर्दशसूत्री । तत्र भवा आक्षरसमाम्नायिकाः ।बह्वचोऽन्तोदात्तात् इति ठञ् । न च नाज्झलविति प्रवृत्तिदशायामणुदित्सूत्रप्रवृत्त्यभावेऽपि तत्र अजित्यनेन लक्षणया दीर्घप्लुतानां ग्रहणमस्तु प्रत्याहाराणां स्ववाच्यवाच्येषु लक्षणाया अनुपदमेव प्रपञ्चितत्वादिति वाच्यम् । स्ववाच्यवाच्येषु हि प्रत्याहाराणां लक्षणा, न चात्राच्छब्दवाच्याकारादिवाच्यता दीर्घप्लुतानामस्ति । अमुदित्सूत्रस्येदानीमप्रवृत्तेरिति भावः । परिहरति — तथापीति । वार्णसमाम्नायिकानामेव नाज्झलाविति निषेध इत्यभ्युपगमेऽपि हकारस्य आकारो न सवर्ण इत्यर्थः । कुत इत्यत आह — तत्रापीति । अपिशब्दो व्युत्क्रमः । तत्र=नाज्झलाविति सूत्रे, आसहितोऽच् आचित्याकारस्यापि सवर्णदीर्घेण प्रश्लिष्टत्वादित्यर्थः ।नन्वस्तु हकारस्य आकारस्य च सावण्र्यं, किं तत्प्रतिषेधार्थेन आकारप्रश्लेषेणेत्यत आह — तेनेति । तेन=हकारस्य आकारस्य च सावण्र्यप्रतिषेधेन, हकारेण आकारस्य ग्रहणाऽभावाद्विआपाभिरित्यत्र 'हो ढः' इति हकारस्य विधीयमानं ढत्वं पकारादाकारस्य न भवति । आकारप्रश्लेषाऽभावे तु, तस्य हकारस्य च सावण्र्यसत्वाद्धकारेण आकास्य च ग्रहणात्तस्य ढत्वं स्यादित्यर्थः । अत्र ढत्वस्यासिद्धत्वात्संयोगान्तलोप एवापादनीय #इति नवीनाः ।कालसमयवेलासु तुमुन् इति सूत्रे वेलास्विति लकारादाकारस्य निर्देशो नाज्झलावित्यत्र आकारप्रश्लेषे प्रमाणम् । अन्यथा तत्र ढत्वस्य संयोगान्तलोपस्य वाऽऽपत्तावाकारो न श्रूयेतेत्यलम् । ननु ग्रहणकसूत्रेऽज्ग्रहणमेव क्रियताम्, अणुदित्सवर्णस्येति किमण्ग्रहणेन, हयवरलानां सवर्णाऽभावेन तेषु ग्रहणकशास्त्रस्य व्यर्थत्वादित्यत आह — अनुनासिकेति । तेनेति । उक्तद्वैविध्येन सवर्णत्वात्-अननुनासिकास्ते यवलाः प्रत्येकं द्वयोद्र्वयोः संज्ञाः । अनुनासिकास्तु यवला अननुनासिकानामपि न संज्ञाः, 'भेदको गुणा' इत्याश्रयणात्, वर्णसमाम्नायेऽननुनासिकानामेव तेषां पाठाच्च । एवं च यवलसंग्रहार्थं ग्रहणकसूत्रेऽज्ग्रहणमपह#आय अण्ग्रहणमिति भावः ।

Padamanjari

Up

संज्ञासूत्रमेतत् न परिभाषा; प्रसिद्धार्थविनियोगात् । परेण णकारेणेति । एतच्च 'लण्' इत्यत्र प्रतिपादितम् । स्वस्य च रूपस्येति यद्यपि प्रथमान्तं प्रकृतम्, तथापि सवर्णस्य चेति षष्ठ।ल्न्तस्यानन्तरं श्रूयमाणश्चशब्दोऽन्यस्य षष्ठन्तस्याभावात् तस्यैव षष्ठ।ल्न्ततां प्रकल्पयतीति भावः । प्रत्ययं वर्जयित्वेति । तेन तत्रोच्चारितमेव रूपं गृह्यते । 'आद् गुणः' इत्यादि । यथेह भवति देवेन्द्र इति, एवं खट्वेन्द्र इत्यादावपि भवति । अस्य च्वो । यथेह भवति शुक्लीभवतीति, एवं मालीभवतीत्यादावपि भवति । यस्येति च । यथेह भवति दाक्षिः प्लाक्षिरिति, एवं चौडिर्बालाकिरित्यादावपि भवति । जूडाबलाकाशब्दौ बाह्वादी । ननु च 'अकः' 'अचि' इत्यादौ प्रत्याहारग्रहणे कथं मध्यवर्तिरिकारादिभिस्सवर्णग्रहणम्, उच्चारितो हि संज्ञाशब्दः संज्ञिनं प्रत्याययति, न च मध्यवर्तिनामुच्चारणमस्ति । ते ह्यगादिसंज्ञाभिः संज्ञित्वेन प्रत्याय्यन्ते, क्व तर्हि स्यात् ? 'अस्य च्वौ' 'यस्येति' यत्र संज्ञाया उच्चारणमस्ति । प्रत्याहारे चाद्यो वर्ण उच्चारितत्वात्सवर्णग्रहाहकः । स्यादेतत्-अक्षरसमाम्नाय उच्चारिता इकारादयः सवर्णानां ग्राहका इति । अगादिचोदनासु ईकारादयोऽपि ह्रस्ववत्संज्ञित्वेनैव प्रतीयन्ते त्विकारादिभिः प्रतीतैः प्रत्याय्यन्त इति, न; अपरकालत्वात् । इह वर्णानामुपदेशस्तावद्, उपदेशोतरकाला इत्संज्ञा, इत्संज्ञोतरकालमादिरन्त्येनैतत्प्रवर्तते, ततोऽण् सवर्णस्येति । तदनेनोपदेशादिष्वङ्गेषु निष्पन्नेषु अन्यत्र 'अस्य च्वौ' इत्यादौ सवर्णानां ग्रहणं भवति, नाङ्गेषु, नापि स्वात्मनि; अनिष्पन्नत्वात् । यदि त्वस्मिन्नपि सूत्रे सवर्णग्रहणं स्यात्,'आदृगमहनः','आञ्दोरप्' इत्यादौ अकारादयोऽपि सवर्णान् गृह्णीयुः । अतोऽस्मिन् सूत्रेऽक्षरसमाम्नोये चागृहीतसवर्णानां ग्रहणम् । ततश्च तदेव स्थितम् प्रत्याहारेषु मध्यवर्तिभिः सवर्णग्रहणं न स्यादिति, नैष दोषः; उच्चार्यमाणैरेव प्रत्यायकैर्भवितव्यमिति नास्ति नियमः, बुद्ध्युपारूढास्तु प्रत्यायकाः । अस्ति च मध्यवर्तिनां बुद्ध्युपारोहः, ततश्च संज्ञित्वेन प्रत्याय्यमानस्यापि प्रत्यायकत्वं भविष्यति । अत्र ज्ञापकम् - 'दीर्घाज्जासि च' इति प्रतिषेधः । स हि कुमार्यावित्यादौ 'प्रथमयोः पूर्वसवर्णः' इति दीर्घो मा भूदिति । तत्र चाक इति वर्तते । खट्वे इत्यादौ तु ङादिचि' इत्येव सिद्धः प्रतिषेधः । 'दीधीवेवीटाम्' 'ल्वादिभ्यः' इत्यादयश्च निर्द्देशा एवमेवोपपद्यन्ते,यदि मध्यवर्तिभिरपि सवर्णग्रहणं भवति । स्वरानुनासिकेत्यादिरुदातः सूत्रे गृहीतः स्वरान्तरभिन्नमपि गृह्णाति, एवमनुदातस्वरितौ च । तथा सानुनासिको निरनुनासिकम्, सोऽपि तम् । दीर्घो न भवतीति । असति त्वप्रत्यय इत्यस्मिन् प्रत्ययेनापि सवर्णग्रहणात् दीर्घोऽपि स्यात् । अत्यल्पमिदमुच्यते-'अप्रत्ययः' इति, 'अप्रत्ययादेशटित्किंन्मित इति वक्तव्यम्' । प्रत्यये प्रत्युदाहृतं तत्र । आदेशे-'इदम् इश्',इतः; इह विशेष विहितत्वात्त्यदाद्यत्वं बाधित्वा त्रिमात्रिक आदेशः प्राप्नोति । टिति - 'आर्द्धधातु कस्येड् वलादेः', पठितेति दीर्घोऽपि स्यात् । 'ग्रहोऽलिटि दीर्घः' इत्येततु ग्रहेर्दीर्घ एव, न ह्रस्व इति नियमार्थं स्यात् । 'वृतो वा' इत्येतदपि ववरिथेति लिटि दीर्घो मा भूदित्येवमर्थं स्यात् । किति-'भुवो वुग्लुङ्लिटोः' बभूव, अनुनासिकोऽपि स्यात् । मिति-'अम् सम्बुद्धो' हे अनड्वन्, आमपि स्यात्, एवं तर्ह्यप्रत्यय इति नेह संज्ञाग्रहणम्, किं तर्हि ? अन्वर्थग्रहणम्-प्रतीयते विधीयत इति प्रत्ययः, भाव्यमानः सवर्णान्न गृह्णातीत्यर्थः । इशादयोपि भाव्यन्ते । संज्ञाप्रत्ययस्य तु नावश्यकः प्रतिषेधः । येनार्थम्प्रतियन्ति स प्रत्ययः, न हि दीर्घप्लुतयोरर्थस्याभिधानमस्ति । 'कुहोः श्चुः' इत्यादौ भाव्यमानस्याप्युदित्वासामर्थ्यादप्रत्यय इति निषेधाभावः । तथा च पठ।ल्ते-'भाव्यमानोऽण् सवर्णान्न गृह्णाति' इति ॥