1-1-10 न अज्झलौ सवर्णम्
अच्-हलौ सवर्णौ न
स्वराः तथा व्यञ्जनानि परस्पराणाम् सवर्णानि न भवन्ति ।
A स्वर and a व्यञ्जन cannot be सवर्ण of each other.
अच्च हल् च अज्झलौ। तुल्यास्यप्रयत्नावपि अज्झलौ परस्परं सवर्णसंज्ञौ न भवतः। अवर्णहकारौ — दण्डहस्तः। इवर्णशकारौ — दधि शीतम् । सवर्णदीर्घत्वं न भवति। वैपाशो मत्स्यः। आनडुहं चर्मेति <<यस्येति च>> ६.४.१४८ इति लोपो न भवति॥
आकारसहितोऽच् आच् स च हल् चेत्येतौ मिथः सवर्णौ न स्तः । तेन दधीत्यस्य हरति शीतलं षष्ठं सान्द्रमित्येतेषु परेषु यणादिकं न । अन्यथा दीर्घादीनामिव हकारादीनामपि ग्रहणकशास्त्रबलादच्त्वं स्यात् ॥ तथा हि ॥
ययोः वर्णयोः मुखस्थितम् उच्चारणस्थानम् तथा च आभ्यन्तरप्रयत्नः - एतौ परस्पराभ्यां सह समानौ स्तः, तयोः <<तुल्यास्यप्रयत्नं सवर्णम्>> 1.1.9 अनेन सूत्रेण 'सवर्णसंज्ञा' दीयते । <<तुल्यास्यप्रयत्नं सवर्णम्>> 1.1.9 इत्यस्य आधारेण तु अवर्ण-हकारयोः, इवर्ण-शकारयोः, ऋवर्ण-षकारयोः, ऌवर्ण-सकारयोः अपि सावर्ण्यम् विधीयते । परन्तु तादृशं सावर्ण्यम् न इष्यते, अतः तस्य निषेधं कर्तुम् पाणिनिना वर्तमानसूत्रम् पाठितम् अस्ति । अतः इदम् सवर्णसंज्ञानिषेधसूत्रम् । स्वराः तथा व्यञ्जनानि परस्पराणाम् सवर्णाः न भवन्ति इति — अस्य सूत्रस्य आशयः । इत्युक्ते, स्वराणाम् सावर्ण्यम् अन्यैः स्वरैः सह एव भवितुं शक्यते; तथैव च व्यञ्जनानाम् सावर्ण्यम् अपि केवलं अन्यैः व्यञ्जनैः सह एव भवितुं शक्यते । अतः, यद्यपि अकार-हकारयोः उच्चारणस्थानम् आभ्यन्तरप्रयत्नः च समानौ स्तः, तथापि तौ सवर्णौ न स्तः । तथैव, इवर्ण-शकारौ, ऋवर्ण-षकारौ, ऌवर्ण-सकारौ अपि सवर्णौ न स्तः । अतएव, 'अहम्', 'दिशति', 'तृष्णा' इत्यादिषु शब्देषु (यथासङ्ख्यम्) शब्दे अकारस्य हकारेण सह, इकारस्य शकारेण सह, ऋकारस्य च षकारेण सह <<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः न सम्भवति ।
<<नाज्झलौ>> - एवं प्राप्ते प्रतिषेधति — नाज्झलौ । आसहितः अच्-आच् । शाकपार्थिवादित्वात्सहितशब्दस्य लोपः । आ च हस्व-आज्झलौ । तुस्यास्यसूत्रात्सवर्णमित्यनुवर्तते । तच्च पुंलिङ्गाद्विवचनान्ततया विपरिणम्यते । तदाह — अकारसहितोऽजित्यादिना । ननु किमर्थोऽयं प्रतिषेध इत्यत आह — तेनेत्यादि यणादिकं नेत्यन्तम् । तेन=प्रतिषेधेन । आदिना सवर्णदीर्घसङ्ग्रहः । दधीति इकारस्य हकारे षकारे सकारे च परे 'इको यणचि' इति यणादेशः, शीतलमित्यत्र शकारे परे सवर्णदीर्घश्च न भवतीत्यर्थः । नन्वस्त्वकारहकारयोरिकारशकारयोरृकारषकारयोर्ऌकारसकारयोश्च सावण्र्यं, तथापिदधि षष्ठ॑मित्यादौ यणादिकं न प्रसक्तम्, अचपरकत्वाऽभावादित्यत आह — अन्यथेत्यादिना । अन्यथा=तेषां सावण्र्याभ्युपगमे, दीर्घादीनामिव हकारादीनामप्यच्त्वं स्यादित्यन्वयः । ननु वर्णसमाम्नाये हकारादीनामकारचकारमध्यगत्वाऽभावात्कथमच्त्वमित्यत आह-ग्रहणकशास्त्रबलादिति । गृह्णन्त्यकारादयः स्वसवर्णान् येन तद्ग्रहणम् । करणे ल्युट् । स्वार्थे कः । अणुदित्सूत्रादित्यर्थः । यद्यप्यच्छब्द०वाच्यत्वं वार्णसमाम्नायिकानामेव वर्णानान्तथापीको यणचीत्यादावच्छब्देनाऽकारादिषूपस्थितेषु तैरणुदित्सूत्रबलेन स्वस्वसवर्णानामाकारादीनामुपस्थितिरस्ति । ततश्चाऽत्राच्पदवाच्याकारादिवाच्यत्वादाकारादीनामिव हकारादीनामपि लक्षणया अच्छब्देन ग्रहणं स्यादित्यर्थः । न च इको यणचीत्यादौ शक्यार्थमादायैवोपपत्तेर्न लक्षणासंभवः । अणुदित्सूत्रे तु अस्य च्वावित्यादौ सावकाशमिति वाच्यं, स्वादिभ्य इत्यादिनिर्देशबलेन प्रत्याहाराणां स्ववाच्यवाच्येषु लक्षणाऽवश्यंभावात् । तथा चअच्त्वं स्या॑दित्यस्य अचपदबोध्यत्वं स्यादित्यर्थः । किं तद्ग्रहणकशास्त्रमित्याकाङ्क्षायां तदुपपादनं प्रतिजानीते-तथा हीति ।
अत्राज्झलौ न केनापि सवर्णसंज्ञौ भवत इति तावदर्थो न भवति; संज्ञाया निर्विषयत्वात् । एतावन्तो वर्णा अचश्च हलश्च । नाप्यचामज्भिर्हलां हल्भिः सवर्णत्वनिषेधः; अत एव निर्देशात् । अन्यथाऽकारस्याकारे दीर्घो न स्यान्नाजिति, नाप्यज्झलाविति पूर्वसवर्णः । तस्मादचां हलां च मिथः सवर्णसंज्ञा निषिध्यते । तत्र च यद्यपि ङाज्झलौ' इति सामान्येनोक्तम्, तथाप्यकारहकारयोरिकारशकारयोश्च प्राप्तिरिति तत्रैव निषेधः । यद्येवम्, नाण्शलाविति वक्तव्यम् ? न तावदेवं लाघवे विशेषः । किं च प्रागुक्तं पक्षद्वयं सम्भाव्येत । ऽअच्च हल् चेऽति । अनेन नात्राज्झलोर्निर्देश इति दर्शयति । तत्रापि न दोषः कश्चित्, किन्तु पक्षान्तरसम्भावनैव । तुल्यास्यप्रयत्नाविति प्रसङ्गे हेतुमाह । सवर्णदीर्घत्वं न भवतीति प्रतिषेधस्य फलं दर्शयति । ननु दीर्घविधावचीत्यनुवर्तते, तच्चावश्यमनुवर्त्यम्, कुमारी शेते इत्यत्र मा भूदिति, न ह्यात्रानेन निषेधः सिद्ध्यति । किं कारणम् ? वाक्यापरिसमाप्तेः । इह हि वर्णानामुपदेशः पूर्वम्, तत इत्संज्ञा, ततः 'आदिरन्त्येन सहेता' इति प्रत्याहारः, ततः ङाज्झलौ' इत्यस्य निष्पतिः, तस्मिंश्च निष्पन्ने सत्यपवादविषयपरिहअरेणेष्टविषये सवर्णसंज्ञा प्रवर्तते, न त्वेतत्सूत्रनिष्पतिसमये । ततश्च 'अणुदित्सवर्णस्य च' इत्येतत् स्वाङ्गभूतेषु उपदेशेत्संज्ञाप्रत्याहारसवर्णत्वेषु निष्पन्नेषु 'अस्य च्वौ' इत्यादिषु वर्तते, न त्वङ्गेषूपदेशादिष्विति ङाज्झलौ' इत्यगृहीतसवर्णानामचां ग्रहणमिति सिद्धम् । अवश्यं चागृहीतसवर्णानामेवाचां ग्रहणमेष्टव्यम्, अन्यथा ह्यजिति गृह्यमाण इकारः शकारस्य? ग्राहकः स्यात् । न चास्मिन्नपि सूत्रेऽयमेव निषेधः, स्वात्मनि क्रियाविरोधात् । अतोऽज्ग्रहणेनापि शकारस्य ग्रहणम्, हल्षु चोपदेशाद्धल्ग्रहणेनापीति शकारद्वयस्य मिथः सवर्णसंज्ञा न स्यात् । ततश्च 'परःशतानि कार्याणि' इत्यत्र शतात्पराणि, शतादधिकानीति विगृह्य 'कर्तृकरणे कृता बहुलम्' इति बहुलवचनात्समासे पारस्करादित्वात्सुटि कृते 'अनचि च' इति शकारस्य द्विर्वचने परश्श्शतानीति स्थिते मध्यमस्य शकारस्य 'झरो झरि सवर्णे' इति लोपो न स्यादिति सर्वदा शकारत्रयश्रवणप्रसङ्गः । अतोऽगृहीतसवर्णानामचां ग्रहणादीकारशकारयोरप्रतिषिद्धं सवर्णत्वमिति 'कुमारी शेते' इत्यत्र मा भूदिति दीर्घविधौ 'अचि ' इत्यनुवर्त्यं तदनुवृत्तिसामर्थ्याच्चाजेव योऽज् न कथञ्चन हल्, तत्रैव दीर्घत्वविज्ञानाद्धकारशकारयोरकारेकाराभ्यां सावर्ण्येन ग्रहणादच्त्वे सत्यपि हल्त्वस्यापि भावाद्दीर्घाभावः सिद्धः, सत्यम्; अज्ग्रहणमप्यन्यार्थमनुवर्त्यम्, इदमपि वैपाशो मत्स्यः, आनडुहं चर्म्मेत्यत्र यस्येति लोपाभावार्थं कर्तव्यं दण्डहस्तो दधिशीतमित्येतदुभयथापि सिद्ध्यतीति प्रदर्शनार्थमुदाहरणद्वयमुपन्यस्तम् । ऽवैपाशा ऽइति -भवार्थेऽण् । ऽआनडुहमिऽति-विकारे 'प्राणिरजतादिभ्योऽञ्' ॥