7-1-19 नपुंसकात् च शी औङः
नपुंसकात् अङ्गात् औङः शी
नपुंसकात् परस्य औ/औट्-प्रत्यययोः शी-आदेशः भवति ।
The औ and औट्-प्रत्ययs following a नपुंसक अङ्ग get the आदेश 'शी'.
नपुंसकादङ्गादुत्तरस्य औङःशी इत्ययमादेशो भवति। कुण्डे तिष्ठतः। कुण्डे पश्य। यस्येतिलोपः ६.४.१४८ प्राप्तः। <<श्यां प्रतिषेधो वक्तव्यः>> (६.४.१४८वा०) इति न भवति। दधिनी। मधुनी। त्रपुणी । जतुनी ॥
क्लीबात्परस्यौङः शी स्यात् । भसंज्ञायाम् ॥
क्लीबादौङः शी स्यात्। भसंज्ञायाम्॥
अस्मिन् सूत्रे प्रयुक्तः 'औङ्' शब्दः स्वयं कश्चन प्रत्ययः नास्ति, परन्तु प्रथमाद्विवचनस्य 'औ' प्रत्ययस्य तथा द्वितीयाद्विवचनस्य 'औट्' प्रत्ययस्य च निर्देशं करोति । नपुंसकात् शब्दात् परस्य एतयोः प्रत्यययोः 'शी' आदेशः भवति । अनेकाल्त्वात् <<अनेकाल् शित्सर्वस्य>> 1.1.55 इत्यनेन अयम् सर्वादेशः भवति । ('शी' इत्यत्र शकारः प्रारम्भे इत्संज्ञकः नास्ति यतः <<लशक्वतद्धिते>> 1.3.8 इत्यनेन केवलं प्रत्ययादिस्थस्यैव शकारस्य इत्संज्ञा भवति, न हि आदेशस्य । अतः औ-इत्यस्य स्थाने प्रारम्भे 'शी' इति आदेशः भवति, ततः स्थानिवद्भावात् 'शी' इत्यस्य प्रत्ययसंज्ञा भवति, ततश्च शकारस्य <<लशक्वतद्धिते>> 1.3.8 इत्यनेन इत्संज्ञा लोपश्च विधीयते) । उदाहरणानि एतानि - 1. फल + औ / औट् → फल + शी [<<नपुंसकाच्च>> 7.1.19 इति शी-आदेशः] → फल + ई [इत्संज्ञालोपः । <<यस्येति च>> 6.4.148 अनेन सूत्रेण अङ्गस्य अकारलोपे प्राप्ते <!औङः श्यां प्रतिषेधो वक्तव्यः!> अनेन वार्त्तिकेन सः निषिध्यते] → फले [<<आद्गुणः>> 6.1.87 इति गुण-एकादेशः] 2. वारि + औ / औट् → वारि + शी [<<नपुंसकाच्च>> 7.1.19 इति शी-आदेशः] → वारि + ई [इत्संज्ञालोपः । <<यस्येति च>> 6.4.148 अनेन सूत्रेण अङ्गस्य इकारलोपे प्राप्ते <!औङः श्यां प्रतिषेधो वक्तव्यः!> अनेन वार्त्तिकेन सः निषिध्यते] → वारि नुम् + ई [<<इकोऽचि विभक्तौ>> 7.1.73 इति अङ्गस्य नुमागमः] → वारिणी [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इति णत्वम्] 3. पयस् + औ / औट् → पयस् + शी [<<नपुंसकाच्च>> 7.1.19 इति शी-आदेशः] → पयस् + ई [इत्संज्ञालोपः] → पयसी 4. नामन् + औ / औट् → नामन् + शी [<<नपुंसकाच्च>> 7.1.19 इति शी-आदेशः] → नाम न् + ई [इत्संज्ञालोपः] → नाम्नी, नामनी [<<अल्लोपोऽनः>> 6.4.134 इत्यनेन उपधा-अकारस्य लोपे प्राप्ते <<विभाषा ङिश्योः>> 6.4.136 इति विकल्पेन लोपः]
<<नपुंसकाच्च>> - नपुंसकाच्च । 'जसः सी' त्यत्रःशी॑ति 'औङ आपः' इत्यतःऔङि॑ति चानुवर्तते, तदाह — क्लीबादिति । ओङित्यौकारविभक्तेः संज्ञेत्युक्तम् । ज्ञानं ई इति स्थिते ।