इतश्चानिञः

4-1-122 इतः च अनिञः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् ढक् द्व्यचः

Sampurna sutra

Up

'तस्य अपत्यम्' (इति) अनिञः द्व्यचः इतः ढक्

Neelesh Sanskrit Brief

Up

यः इकारान्तशब्दः इञ्-प्रत्ययान्तः नास्ति, यस्मिन् च द्वौ स्वरौ स्तः, तस्मात् शब्दात् 'तस्य अपत्यम्' अस्मिन् अर्थे ढक् प्रत्ययः भवति ।

Kashika

Up

स्त्रीग्रहणं निवृत्तम्। चकारो द्व्यच इत्यस्यानुकर्षणार्थः। इकारान्तात् प्रातिपदिकादनिञन्तादपत्ये ढक् प्रत्ययो भवति। आत्रेयः। नैधेयः। इत इति किम् ? दाक्षिः। प्लाक्षिः। अनिञ इति किम्? दाक्षायणः। प्लाक्षायणः। द्व्यच इत्येव — मरीचेरपत्यं मारीचः॥

Siddhanta Kaumudi

Up

इकारान्ताद् द्व्यचोऽपत्ये ढक् स्यात् न त्विञन्तात् । दौलेयः । नैधेयः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<इतश्चानिञः>> - इतश्चाऽनिञः । अस्त्रीप्रत्ययान्तार्थमिदम् । दुलिः निधिश्च-कश्चित् । आत्रेय इति । अत्रिः प्रसिद्धः । परत्वादयमृष्यणमपि बाधत इति भावः ।

Padamanjari

Up