इतो मनुष्यजातेः

4-1-65 इतः मनुष्यजातेः प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् जातेः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

इकारान्तात् प्रातिपदिकात् मनुष्यजातिवाचिनः स्त्रियां ङीष् प्रत्ययो भवति। अवन्ती। कुन्ती। दाक्षी। प्लाक्षी। इत इति किम्? विट्। दरत्। मनुष्यग्रहणं किम्? तित्तिरिः। जातेरिति वर्तमाने पुनर्जातिग्रहणं योपधादपि यथा स्यात्। औदमेयी॥ इञ उपसंख्यानमजात्यर्थम्॥ सौतङ्गमी। मौनिचित्ती। सुतङ्गमादिभ्यश्चातुरर्थिक इञ् ४.२.८० न जातिः॥

Siddhanta Kaumudi

Up

ङीष् स्यात् । दाक्षी । योपधादपि । उदमेयस्यापत्यं औदमेयी । मनुष्येति किम् ? तित्तिरिः ॥

Laghu Siddhanta Kaumudi

Up

ङीष्। दाक्षी॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<इतो मनुष्यजातेः>> - इतो मनुष्यजातेः । शेषपूरणेन सूत्रं व्याचष्टे — ङीष् स्यादिति । इदन्तान्मनुष्यजातिवाचिनः स्त्रियां ङीष्स्यादित्यर्थः । स्त्रीप्रत्ययविधिषु त इत्यनुवृत्तेरिदन्तात्जातेरस्त्रीविषया॑दित्यप्राप्तौ वचनम् । दाक्षीति । दक्षस्यापत्यं स्त्रीत्यर्थेः अत इञि अल्लोपः, आदिवृद्धिः, ङीष्,यस्येति चे॑तीकारलोपः ।गोत्रं च चरणैः सहे॑ति जातिवाचित्वम् । दक्षः-प्रजापतिविशेषः । योपधादपीति ।अयं ङी॑षिति शेषः । पुनर्जातिग्रहणेन योपधग्रहणस्याऽनुवृत्त्यभावबोधनादिति भावः । औदमेयीमि । उदमेयो नाम कश्चित्, तस्यापत्यं स्त्रीत्यर्थेअत इञ्,यस्येति चे॑त्यल्लोपः, आदिवृद्धिः, औदमेयिशब्दान्ङीष्,यस्येति चे॑तीकारलोपः । तित्तिरिरिति । तित्तिरिः पक्षि जातिविशेषः । स्त्रियां ङीष् न, अमनुष्यजातिवाचित्वादिति भावः ।स्त्रीपुंसयोरपत्यन्तद्विचतुष्षट्पदोरगाः॑ इत्यमरकोशादयं स्त्रियामपि भवति, द्विपात्त्वात् ।

Padamanjari

Up

अवन्ती, कुन्तीति । अवन्ति-कुन्तिशब्दाभ्यामपत्येऽर्थे'वृद्धेत्कोसलाजादाञ्ञ्यङ्' तस्य'स्त्रियामवन्तिकुन्तिकुरुभ्यश्च' इति लुक् । दाक्षैइ, ल्पाक्षीति । ठत इञ्ऽ । विट्, दरदिति । विट्शब्दाज्जनपदशब्दात्क्षत्रियादञ्, दरच्छब्दाद्'द्व्यञ्मगध' इत्यादिनाण, तयोः ठतश्चऽ इति लुक् । उदाहरणसिद्ध्यर्थमेव ठतःऽ इत्यस्यानुवृत्तिर्न शक्याऽऽश्रयितुमित्यत्रापि प्रसङ्गः । औदमेयीति । उदकं मेयमस्य उदमेयः, ठुदकस्योदः संज्ञायाम्ऽ इत्युदभावः,'तस्यापत्यम्' , ठत इञ्ऽ। सौतङ्गमी, मौनिचितीति । सुतङ्गममुनिचितशब्दाभ्यां'तेन निर्वृतम्' इत्यत्रार्थे इञ्प्रत्ययः ॥